पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०२

सूत उवाच-।
आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः ।
ज्ञायते येन भगवान्परमात्मा सनातनः १।
सृष्टेषु प्रलयादूर्ध्वं नासीत्किंचिद्द्विजोत्तमाः ।
ब्रह्मसंज्ञमभूदेकं ज्योतिर्वै सर्वकारकम् २।
नित्यं निरंजनं शांतं निर्मलं नित्यनिर्मलम् ।
आनंदसागरंस्वच्छं यत्कांक्षंति मुमुक्षवः ३।
सर्वज्ञं ज्ञानरूपत्वादनंतमजमव्ययम् ।
अविनाशि सदास्वच्छमच्युतं व्यापकं महत् ४।
सर्गकाले तु संप्राप्ते ज्ञात्वा तं ज्ञानरूपकम् ।
आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे ५।
तस्मात्प्रधानमुद्भूतं ततश्चापि महानभूत् ।
सात्विको राजसश्चैव तामसश्च त्रिधा महान् ६।
प्रधानेनावृतो ह्येव त्वचा बीजमिवावृतम् ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ७।
त्रिविधोयमहंकारो महत्तत्वादजायत ।
यथा प्रधानेन महान्महता स तथा वृतः ८।
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ९।
शब्दमात्रं तथाकाशं भूतादिः सममावृणोत् ।
शब्दमात्रं तथाकाशं स्पर्शमात्रं ससर्ज ह १०।
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ।
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ११।
ततो वायुविकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते १२।
स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत् ।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह १३।
संभवंति ततोंभांसि रसमात्राणि तानि तु ।
रसमात्राणिचांभांसि रूपमात्रं समावृणोत् १४।
विकुर्वाणानिचांभांसिगंधमात्रंससर्जिरे ।
तस्माज्जाता मही चेयं सर्वभूतगुणाधिका १५।
ससंघातो यतस्तस्मात्तस्य गंधो गुणो मतः ।
तस्मिंस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता १६।
तन्मात्राण्यविशेषाणि विशेषाः क्रमशो पराः ।
भूततन्मात्रसर्गोयमहंकारात्तु तामसात् १७।
कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः ।
तैजसानींद्रियाण्याहुर्देवा वैकारिका दश १८।
एकादशं मनश्चात्र कीर्तितं तत्त्वचिंतकैः ।
ज्ञानेंद्रियाणि पंचात्र पंचकर्मेंद्रियाणि च १९।
तानि वक्ष्यामि तेषां च कर्माणि कुलपावनाः ।
श्रवणं त्वक्चक्षुर्जिह्वा नासिका चैव पंचमी २०।
शब्दादिज्ञानसिद्ध्यर्थं बुद्धियुक्तानि पंच वै ।
पायूपस्थं हस्तपादौ कीर्तिता वाक्चपंचमी २१।
विसर्गानंदनादानगत्युक्तिकर्मतत्स्मृतम् ।
आकाशवायुतेजांसि सलिलं पृथिवी तथा २२।
शब्दादिभिर्गुणैर्विप्राः संयुक्ता उत्तरोत्तरैः ।
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना २३।
नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः ।
समेत्यान्योन्यसंयोगं परस्परमथाश्रयात् २४।
एकसंघास्सलक्ष्याश्च संप्राप्यैक्यमशेषतः ।
पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च २५।
महदादयो विशेषांता अंडमुत्पादयंति ते ।
तत्क्रमेण विवृद्धं तु जलबुद्बुदवत्सदा २६।
भूतेभ्योंडं महाप्राज्ञा वृद्धं तदुदकेशयम् ।
प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् २७।
तत्राव्यक्तस्वरूपोसौ विष्णुर्विश्वेश्वरः प्रभुः ।
ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः २८।
स्वेदजांडमभूत्तस्य जरायुश्च महीधराः ।
गर्भोदकं समुद्राश्च तस्याभून्महदात्मनः २९।
साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः ।
तस्मिन्नंडेभवत्सर्वं सदेवासुरमानुषम् ३०।
अनादिनिधनस्यैव विष्णोर्नाभेः समुत्थितम् ।
यत्पद्मं तद्धैममंडमभूच्छ्रीकेशवेच्छया ३१।
रजोगुणधरो देवः स्वयमेव हरिः परः ।
ब्रह्मरूपंसमास्थाय जगत्स्रष्टुं प्रवर्तते ३२।
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
नारसिंहादिरूपेण रुद्ररुपेण संहरेत् ३३।
सब्रह्मरूपं विसृजन्महात्मा जगत्समस्तं परिपातुमिच्छन् ।
रामादिरूपं स तु गृह्य याति बभूव रुद्रो जगदेतदत्तुम् ३४।
इति श्रीपाद्मेमहापुराणेस्वर्गखंडेद्वितीयोऽध्यायः २।