पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०७
ऋषय ऊचुः-।
भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायुषः सूत बलं चापि शुभाशुभम् १।
अनागतमतिक्रांतं वर्तमानं च सत्तम ।
आचक्ष्व नो विस्तरेण हरिवर्षं तथैव च २।
सूत उवाच-।
चत्वारि भारते वर्षे युगानि मुनिपुंगवाः ।
कृतं त्रेता द्वापरं च तिष्यं च द्विजसत्तमाः ३।
पूर्वे कृतयुगं नाम ततस्त्रेतायुगं द्विजाः ।
तत्पश्चाद्द्वापरं चाथ ततस्तिष्यः प्रवर्तते ४।
चत्वारि तु सहस्राणि वर्षाणां मुनिपुंगवाः ।
आयुः संख्या कृतयुगे संख्याता हि तपोधनाः ५।
तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुः ।
द्वे सहस्रे द्वापरे तु भुवि तिष्ठंति सांप्रतम् ६।
तत्प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुंगवाः ।
गर्भस्थाश्च म्रियंतेऽत्र तथा जाता म्रियंति च ७।
महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः ।
प्रजायंते च जाताश्च शतशोऽथ सहस्रशः ८।
द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाः ।
प्रजायंते च जाताश्च मुनयो वै तपोधनाः ९।
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।
प्रियदर्शा वपुष्मंतो महावीर्य्या धनुर्धराः १०।
वीरा हि युधि जायंते क्षत्रियाः शूरसंमताः ।
त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ११।
सर्ववर्णाश्च जायंते सदैव द्वापरे युगे ।
महोत्साहा वीर्यवंतः परस्परवधैषिणः १२।
तेजसांधेनसंयुक्ताः क्रोधनाः पुरुषाः किल ।
लुब्धाश्चानृतकाश्चैव तिष्ये जायंति भो द्विजाः १३।
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च ।
तिष्ये भवंति भूतानां रागो लोभश्च सत्तमाः १४।
संक्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगे ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् १५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तमोऽध्यायः ७।