पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १३

युधिष्ठिर उवाच-
वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम् ।
नर्मदेति च विख्यातं पापपर्वतदारणम् १।
भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद ।
नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम २।
कथमेषा महापुण्या नदी सर्वत्र विश्रुता ।
नर्मदानाम विख्याता तन्मम ब्रूहिनारद ३।
नारद उवाच-।
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
तारयेत्सर्वभूतानि स्थावराणि चराणि च ४।
नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतम् ।
तदेतद्धि महाराज सर्वं हि कथयामि ते ५।
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्म्मदा ६।
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गांगेयं दर्शनादेव नार्मदम् ७।
कलिंग देशे पश्चार्द्धे पर्वतेऽमरकंटके ।
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ८।
सदेवासुरगंधर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा महाराज सिद्धिं च परमां गताः ९।
तत्र स्नात्वा महाराज नियमस्थो जितेंद्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् १०।
जनेश्वरे नरः स्नात्वा पिंडं दत्वा यथाविधि ।
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ११।
पर्वतस्य समंतात्तु रुद्रकोटिः प्रतिष्ठिता ।
स्नानं यः कुरुते तत्र गंधमाल्यानुलेपनम् १२।
प्रीता तस्य भवेत्सर्वा रुद्रकोटिर्न संशयः ।
पर्वते पश्चिमस्यांते स्वयं देवो महेश्वरः १३।
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेंद्रियः ।
पितृकार्यं तु कुर्वीत विधिदृष्टेन कर्मणा १४।
तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः ।
आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पांडव १५।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ।
अप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः १६।
दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः ।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले १७।
धनवान्दानशीलश्च धार्मिकश्चैव जायते ।
पुनः स्मरति तत्तीर्थं गमनं तत्र कुर्वते १८।
तारयित्वा कुलशतं रुद्रलोकं स गच्छति ।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा १९।
विस्तारेण तु राजेन्द्र योजनद्वयमंतरम् ।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च २०।
पर्वतस्य समंतात्तु तिष्ठंत्यमरकंटके ।
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेंद्रियः २१।
सर्वहिंसानिवृत्तश्च सर्वभूतहिते रतः ।
एवं सर्वसमाचारः क्षेत्रपालान्परिव्रजेत् २२।
तस्य पुण्यफलं राजन्शृणुष्वावहितो हि मे ।
शतं वर्षसहस्राणां स्वर्गे मोदेत पांडव २३।
अप्सरोगणसंकीर्णे दिव्यस्त्रीपरिचारिते ।
दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः २४।
क्रीडते देवलोके तु दैवतैः सह मोदते ।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् २५।