पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १५
नारद उवाच-
यन्मां पृच्छसि कौंतेय तन्निबोध च तच्छृणु ।
एतस्मिन्नंतरे रुद्रो नर्मदातटमास्थितः १।
नाम्ना हरेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम् ।
तस्मिन्स्थाने महादेवश्चिंतयंस्त्रैपुरं वधम् २।
गां(गा?)डीवं मंदरं कृत्वा गुणं कृत्वा तु वासुकिम् ।
स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ३।
अग्रे चाग्निं प्रतिष्ठाप्य मुखे वायुः समर्पितः ।
हयाश्च चतुरो वेदाः सर्वदेवमयं रथम् ४।
चक्रगौ चाश्विनौ देवावक्षं चक्रधरः स्वयम् ।
स्वयमिंद्रश्च चापांते बाणे वैश्रवणः स्थितः ५।
यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः ।
चक्राणामारके न्यस्ता गंधर्वा लोकविश्रुताः ६।
प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः ।
एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ७।
सोतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान् ।
यदा त्रीणि समेतानि अंतरिक्षचराणि च ८।
त्रिपुराणि त्रिशल्येन तदा तानि बिभेद सः ।
शरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति ९।
भ्रष्टतेजा स्त्रियो जाता बलं तेषां व्यशीर्यत ।
उत्पाताश्च पुरे तस्मिन्प्रादुर्भूता सहस्रशः १०।
त्रिपुरस्य विनाशाय कालरूपोभवत्तदा ।
अट्टहासं प्रमुंचंति रूपाः काष्ठमयास्तथा ११।
निमेषोन्मेषणं चैव कुर्वंति चित्रकर्मणा ।
स्वप्ने पश्यंति चात्मानं रक्तांबरविभूषितम् १२।
स्वप्ने पश्यंति ते चैवं विपरीतानि यानि तु ।
एतान्पश्यति उत्पातांस्तत्र स्थाने तु ये जनाः १३।
तेषां बलं च बुद्धिश्च हरक्रोधेन नाशितम् ।
संवर्तको नाम वायुर्युगांतप्रतिमो महान् १४।
समीरितोनलश्रेष्ठ उत्तमांगेषु बाधते ।
ज्वलंति पादपास्तत्र पतंति शिखराणि च १५।
सर्वं तद्व्याकुलीभूतं हाहाकारमचेतनम् ।
भग्नोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलंति च १६।
तेनैव दीपितं सर्वं ज्वलते विशिखैः शिखैः ।
द्रुमा आरामगंडानि गृहाणि विविधानि च १७।
दशदिक्षु प्रवृत्तोयं समिद्धो हव्यवाहनः ।
ततः शिलाः प्रमुंचंति दिशो दश विभागशः १८।
शिखासहस्रैरत्युग्रैः प्रज्वलंति हुताशनैः ।
सर्वं किंशुकसंप्रख्यं ज्वलितंदृश्यते पुरम् १९।
गृहाद्गृहांतरे नैव गंतुं धूमैश्च शक्यते ।
हरकोपानलादग्धं क्रंदमानं सुदुःखितम् २०।
प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम् ।
प्रासादशिखराग्राणि विशीर्यंति सहस्रशः २१।
नानारत्नविचित्राणि विमानान्यप्यनेकधा ।
गृहाणि चैव रम्याणि दह्यंते दीप्तिवह्निना २२।
बाधंते द्रुमखंडेषु जनस्थाने तथैव च ।
देवागारेषु सर्वेषु प्रज्वलंते ज्वलंत्यपि २३।
सीदंति चानलस्पृष्टाः क्रंदंति विविधै स्वरैः ।
गिरिकूटनिभास्तत्र दृश्यंतेंऽगारराशयः २४।
स्तुवंति देवदेवेशं परित्रायस्व मां प्रभो ।
अन्योन्यं च परिष्वज्य हुताशनप्रपीडिताः २५।
दह्यंते दानवास्तत्र शतशोथ सहस्रशः ।
हंसकारंडवाकीर्णा नलिनी सह पंकजा २६।
दह्यंतेनलदग्धानि पुरोद्यानानि दीर्घिकाः ।
अम्लानैः पंकजैश्छन्ना विस्तीर्णा योजनैः शतैः २७।
गिरिकूटनिभास्तत्र प्रासादारत्नभूषिताः ।
पतंत्यनलनिर्दग्धा निस्तोया जलदा इव २८।
सह स्त्रीबालवृद्धेषु गोषु पक्षिषु वाजिषु ।
निर्दयो दहते वह्निर्हरकोपेन प्रेरितः २९।
सपत्नीकाश्चैव सुप्ताः संसुप्ता बहवो जनाः ।
पुत्रमालिंग्यते गाढं दह्यंते त्रिपुरारिणा ३०।
अथ तस्मिन्पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः ।
अग्निज्वालाहतास्तत्र पतंति धरणीतले ३१।
काचिद्बाला विशालाक्षी मुक्तावलि विभूषिता ।
धूमेनाकुलिता सा तु प्रतिबुद्धा शिखार्द्दिता ३२।
सुतं संचिंत्यमाना सा पतिता धरणीतले ।
काचित्सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ३३।
धूमेनाकुलिता सा तु पतिता धरणीतले ।
अन्या गृहीतहस्ता तु सखी दहति बालकैः ३४।
अनेन दिव्यरूपान्यादृष्टा मदविमोहिता ।
शिरसा प्रांजलिं कृत्वा विज्ञापयति पावकम् ३५।
यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु ।
स्त्रियः किमपराध्यंते गृहपंजरकोकिलाः ३६।
पापनिर्दय निर्ल्लज्ज कस्ते कोपः स्त्रियोपरि ।
न दाक्षिण्यं न ते लज्जा न सत्यं शौचवर्जितः ३७।
अनेकरूपवर्णाढ्या उपलभ्या वदस्व ह ।
किं त्वया न श्रुतं लोके अवध्याः सर्वयोषितः ३८।
किं तु तुभ्यं गुणा ह्येते दहनस्त्र्यर्दनं प्रति ।
न कारुण्यं दया वापि दाक्षिण्यं वा स्त्रियोपरि ३९।
दयां कुर्वंति म्लेच्छापि दहनं प्रेक्ष्य योषितः ।
म्लेच्छानामपि कष्टोसि दुर्निवार्यो ह्यचेतनः ४०।
एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति ।
आसामपि दुराचार स्त्रीणां किं विनिपातसे ४१।
दुष्ट निर्घृण निर्लज्ज हुताश मंदभाग्यक ।
निराशस्त्वं दुराचार बालान्दहसि निर्दय ४२।
एवं प्रलपमानास्ता जल्पमाना बहुस्वरम् ।
अन्याः क्रोशंति संक्रुद्धा बालशोकेन मोहिताः ४३।
दहते निर्दयो वह्निः संक्रुद्धः सर्वशत्रुवत् ।
पुष्करिण्यां जले ज्वाला कूपेष्वपि तथैव च ४४।
अस्मान्संदह्य म्लेच्छ त्वं कां गतिं प्रापयिष्यसि ।
एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ४५।
वैश्वानर उवाच-।
स्ववशो नैव युष्माकं विनाशं तु करोम्यहम् ।
अहमादेशकर्ता वै नाहं कर्त्तास्म्यनुग्रहम् ४६।
अत्र क्रोधसमाविष्टो विचरामि यदृच्छया ।
ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् ४७।
आसनस्थोऽब्रवीदेवमहं देवैर्विनाशितः ।
अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः ४८।
अपरीक्ष्य ह्यहं दग्धः शंकरेण महात्मना ।
नान्यः शत्रुस्तु मां हंतुं वर्ज्जयित्वा महेश्वरम् ४९।
उत्थितः शिरसा कृत्वा लिगं त्रिभुवनेश्वरम् ।
निर्गतः स पुरद्वारात्परित्यज्य सुहृत्स्वयम् ५०।
रत्नानि सुविचित्राणि स्त्रियो नानाविधास्तथा ।
गृहीत्वा शिरसा लिंगं न्यस्तं नगरमंडले ५१।
स्तुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम् ।
हर त्वयाहं निर्दग्धो यदि वध्योसि शंकर ५२।
त्वत्प्रसादान्महादेव मा मे लिंगं विनश्यतु ।
अर्चितं हि महादेव भक्त्या परमया सदा ५३।
त्वया यद्यपि वध्योहं मा मे लिंगं विनश्यतु ।
प्राप्यमेतन्महादेव त्वत्पादग्रहणं मम ५४।
जन्मजन्म महादेव त्वत्पादनिरतो ह्यहम् ।
तोटकच्छंदसा देवं स्तुत्वा तु परमेश्वरम् ५५।
ॐशिवशंकरसर्वकराय नमो भवभीममहेशशिवाय नमः ।
कुसुमायुध देहविनाशकर त्रिपुरांतकरांधक चूर्णकर ५६।
प्रमदाप्रियकामविभक्त नमो हि नमः सुरसिद्धगणैर्नमितः ।
हयवानरसिंहगजेंद्रमुखैरति ह्रस्वसुदीर्घमुखैश्च गणैः ५७।
उपलब्धुमशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्बहुभिः ।
प्रणतो भगवन्बहुभक्तिमता चलचंद्र कलाधर देव नमः ५८।
सहपुत्रकलत्रकलापधनैः सततं जय देहि अनुस्मरणम् ।
व्यथितोस्मि शरीरशतैर्बहुभिर्गमिताद्य महानरकस्य गतिः ५९।
न निवर्तति यन्ममपापगतिः शुचिकर्म्मविशुद्धमपि त्यजति ।
अनुकंपति दिग्भ्रमति भ्रमति भ्रम एष कुबुद्धि निवारयति ६०।
यः पठेत्तोटकं दिव्यं प्रयतः शुचिमानसः ।
बाणस्यैव यथारुद्रस्तस्यैव वरदो भवेत् ६१।
इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः ।
प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ६२।
ईश्वर उवाच-।
न भेतव्यं त्वया वत्स सौवर्णे तिष्ठ दानव ।
पुत्रपौत्रसपत्नीनां भार्याभृत्यजनैः सह ६३।
अद्यप्रभृति बाण त्वमवध्यस्त्रिदशैरपि ।
भूयस्तस्य वरो दत्तो देवदेवेन पांडव ६४।
अक्षयश्चाव्ययो लोके विचचार ह निर्भयः ।
ततो निवारयामास रुद्र सप्तशिखं तथा ६५।
तृतीयं रक्षितं तस्य शंकरेण महात्मना ।
भ्रमते गगने नित्यं रुद्रतेजः प्रभावतः ६६।
एवं तु त्रिपुरं दग्धं शंकरेण महात्मना ।
ज्वालामालाप्रदीप्तं तु पतितं धरणीतले ६७।
एकं निपातितं तस्य श्रीशैले त्रिपुरांतके ।
द्वितीयं पातितं तत्र पर्वतेऽमरकंटके ६८।
दग्धे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता ।
ज्वलंतं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ६९।
ऊर्ध्वेन प्रस्थिता तस्य दिव्या ज्वाला दिवं गता ।
हाहाकारस्तदा जातो सदेवासुरकिंनरान् ७०।
तं शरं स्तंभयेद्रुद्रो माहेश्वरपुरोत्तमे ।
एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकंटके ७१।
चतुर्द्दशभुवनानि सुभुक्त्वा पांडुनंदन ।
वर्षकोटिसहस्रं तु त्रिंशत्कोट्यस्तथा पराः ७२।
ततो महीतलं प्राप्य राजा भवति धार्मिकः ।
पृथिव्यामेकच्छत्रेण भुंक्ते नास्त्यत्र संशयः ७३।
एष पुण्यो महाराज सर्वतोऽमरकंटकः ।
चंद्र सूर्योपरागेषु गच्छेद्योऽमरकंटकम् ७४।
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः ।
स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ७५।
संनिहत्या गमिष्यंति राहुग्रस्ते दिवाकरे ।
तदेव निखिलं पुण्यं पर्वतेऽमरकंटके ७६।
पुंडरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ।
तत्र ज्वालेश्वरो नाम पर्वतेऽमरकंटके ७७।
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।
ज्वालेश्वरे महाराज यस्तु प्राणान्परित्यजेत् ७८।
चंद्र सूर्योपरागे तु भक्त्यापि शृणु तत्फलम् ।
अमरा नाम देवास्ते पर्वतेऽमरकंटके ७९।
रुद्रलोकमवाप्नोति यावदाभूतसंप्लवम् ।
अमरेश्वरस्य देवस्य पर्वतस्य तटे जले ८०।
कोटिश ऋषिमुख्यास्ते तपस्तप्यंति सुव्रताः ।
समंताद्योजनं राजन्क्षेत्रं चामरकंटकम् ८१।
अकामो वा सकामो वा नर्मदायां शुभे जले ।
स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति ८२।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचदशोऽध्यायः १५