पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १८

नारद उवाच-।
तदाप्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः ।
सेवंते नर्मदां राजन्कामक्रोधविवर्जिताः १।
तस्मिन्निपति तं दृष्ट्वा शूलं देवस्य भूतले ।
तस्य पुण्यं समाख्यातं शंकरेण महात्मना २।
शूलभेदेति विख्यातं तीर्थं पुण्यतमं महत् ।
तत्र स्नात्वार्च्चयेद्देवं गोसहस्रफलं लभेत् ३।
त्रिरात्रं कारयेद्यस्तु तस्मिन्तीर्थे नराधिप ।
अर्चयित्वा महादेवं पुनर्जन्म न विद्यते ४।
भीमेश्वरं ततो गच्छेन्नर्मदेश्वरमुत्तमम् ।
आदित्येश्वरं महापुण्यं तथाऽज्यमधुना सह ५।
मल्लिकेश्वरमभ्यर्च्य पर्याप्तं जन्मनः फलम् ।
वरुणेश्वरं ततः पश्येन्नीराजेश्वरमुत्तमम् ६।
सर्वतीर्थफलं तस्य पंचायतनदर्शनात् ।
ततोगच्छेत राजेंद्र युद्धं वै यत्र साधितम् ७।
कोटितीर्थं तु विख्यातमसुरा यत्र योधिताः ।
यत्र ते निहता राजन्दानवा बलदर्पिताः ८।
तेषां शिरांसि गृह्यंते निहतास्ते समागताः ।
तैस्तु संस्थापितो देवः शूलपाणिर्महेश्वरः ९।
कोटिर्विनिहता तत्र तेन कोटीश्वरः स्मृतः ।
दर्शनात्तस्य तीर्थस्य सदेहः स्वर्गमावहेत् १०।
तदा इंद्रेण क्षुद्रत्वाद्वज्रकीलेन यंत्रितः ।
तदाप्रभृति लोकानां स्वर्गमत्वं निवारितम् ११।
सघृतं श्रीफलं दत्वा दत्वा चांते प्रदक्षिणम् ।
सर्वतः सह देवेन शिरसादाय धारयेत् ।
सर्वकामेन संपूर्णो राजा भवति पांडव १२।
मृतो रुद्रत्वमाप्नोति न चेह जायते पुनः ।
स्वर्गं गत्वा ततो राज्यं कृत्वागत्य ततो दिवम् १३।
महादेवं तथोपास्य त्रयोदश्यां हि मानवः ।
स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् १४।
ततो गच्छेत राजेंद्र तीर्थं परमशोभनम् ।
नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् १५।
तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया ।
कार्तिकस्य तु मासस्य कृष्णपक्षचतुर्दशी १६।
घृतेन स्नापयेद्देवं समाधिस्थो जितेंद्रियः ।
एकविंशकुलोपेतो न मुच्येदैश्वरात्पदात् १७।
धेनवोपानहंच्छत्रं तथा दद्याच्च कंबलम् ।
भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत् १८।
ततो गच्छेत राजेंद्र रविस्तवमनुत्तमम् ।
तत्र स्नात्वा नरो राजन्सिंहासनगतिर्भवेत् १९।
नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम् ।
उपोष्य रजनीमेकां स्नानं तत्र समाचरेत् २०।
स्नानं कृत्वा यथान्यायमर्च्चयेत्तु जनार्दनम् ।
गोसहस्रफलं तस्य विष्णुलोकं स गच्छति २१।
ऋषितीर्थं ततो गच्छेत्सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते २२।
नारदस्य च तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् २३।
देवतीर्थं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा ।
तत्र स्नात्वा नरो राजन्ब्रह्मलोके महीयते २४।
अमरकंटकं ततो गच्छेदमरस्थापितं पुरा ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् २५।
ततो गच्छेत राजेंद्र वामनेश्वरमुत्तमम् ।
तत्र वामनकं दृष्ट्वा मुच्यते ब्रह्महत्यया २६।
ऋषितीर्थं ततो गच्छेदीशानेशं पुमान्ध्रुवम् ।
वटेश्वरं ततो दृष्ट्वा पर्य्याप्तं जन्मनः फलम् २७।
भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरो राजन्सर्वदुःखात्प्रमुच्यते २८।
ततो गच्छेत राजेंद्र वारणेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन्सर्वदुःखात्प्रमुच्यते २९।
सोमतीर्थं ततो गच्छेत्पश्येच्चंद्रमनुत्तमम् ।
तत्र स्नात्वा नरो राजन्भक्त्या परमया युतः ३०।
तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम् ।
षष्टिवर्षसहस्राणि शिवलोके महीयते ३१।
ततो गच्छेत राजेंद्र पिंगलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ३२।
तस्मिंस्तीर्थे तु राजेंद्र कपिलां यः प्रयच्छति ।
यावंति तस्या रोमाणि तत्प्रसूतकुलस्य च ३३।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
यस्तुप्राणपरित्यागं तत्र कुर्य्यान्नराधिप ३४।
अक्षयं मोदते कालं यावच्चंद्रदिवाकरौ ।
नर्मदातटमाश्रित्य तिष्ठंति ये तु मानवाः ३५।
ते मृताः स्वर्गमायांति तथा सुकृतिनो यथा ।
सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम् ३६।
गंगावतरणे तत्र दिने पुण्यो न संशयः ।
नंदितीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ३७।
तुष्यते तं तु नंदीशः सोमलोके महीयते ।
ततो द्वीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ३८।
निवर्तिता पुरा तत्र व्यासभीता महानदी ।
हुंकारिता तु व्यासेन दक्षिणेन ततो गता ३९।
प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
व्यासस्तस्य भवेत्प्रीतो वांछितं लभते फलम् ४०।
सूत्रेण वेष्टयेद्यस्तु दीप्तं देवं सवेदिकम् ।
क्रीडते ह्यक्षयं कालं यथा रुद्रस्तथैव सः ४१।
ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् ।
संगमे तु नरः स्नात्वा मुच्यते सर्वपातकैः ४२।
एरंडी त्रिषु लोकेषु विख्याता पापनाशिनी ।
अथवाश्वयुजे मासे शुक्लपक्षस्य चाष्टमी ४३।
शुचिर्भूत्वा नरः स्नात्वा सोपवासपरायणः ४४।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ।
एरंडीसंगमे स्नात्वा भक्तिभावानुरंजितः ४५।
शुक्तिकां शिरसि स्थाप्य अवगाह्य च वै जलम् ।
नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बषैः ४६।
प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ४७।
ततः सुवर्णतिलके स्नात्वा दत्वा च कांचनम् ।
कांचनेन विमानेन रुद्रलोके महीयते ४८।
ततः स्वर्गच्युतः कालाद्राजा भवति वीर्यवान् ।
ततो गच्छेत राजेंद्र इक्षुनद्यास्तु संगमम् ४९।
त्रैलोक्ये विश्रुतं दिव्यं तत्र संनिहितः शिवः ।
तत्र स्नात्वा नरो राजन्गाणपत्यमवाऽप्नुयात् ५०।
स्कंदतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ।
आजन्मनः कृतं पापं स्नानमात्राद्व्यपोहति ५१।
आंगिरसं ततो गच्छेत्स्नानं तत्र समाचरेत् ।
गोसहस्रफलं तस्य रुद्रलोके महीयते ५२।
लांगलतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ।
तत्र गत्वा तु राजेंद्र स्नानं तत्र समाचरेत् ५३।
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ।
वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् ५४।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ।
संगमेश्वरं ततो गच्छेत्सर्वपापहरं परम् ५५।
तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः ।
भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः ५६।
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ।
अथ नारी भवेत्कापि तत्र स्नानं समाचरेत् ५७।
गौरीतुल्या भवेत्सा तु इंद्रं याति न संशयः ।
अंगारेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ५८।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।
अंगारक्यां चतुर्थ्यां तु स्नानं तत्र समाचरेत् ५९।
अक्षयं मोदते कालं मुरारिकृतशासनः ।
अयोनिसंगमे स्नात्वा न पश्येद्योनिमंदिरम् ६०।
पांडवेश्वरकं गत्वा स्नानं तत्र समाचरेत् ।
अक्षयं मोदते कालमवध्यस्तु सुरासुरैः ६१।
विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः ।
तत्र भुक्त्वा महाभोगान्मर्त्ये राजाभिजायते ६२।
कंबोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत् ।
उत्तरायणे तु संप्राप्ते यदिच्छेत्तस्य तद्भवेत् ६३।
चंद्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ६४।
ततो गच्छेत राजेंद्र तीर्थं शक्रस्य विश्रुतम् ।
पूजितं देवराजेन देवैरपि नमस्कृतम् ६५।
तत्र स्नात्वा नरो राजन्दानं दत्वा च कांचनम् ।
अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ६६।
वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ६७।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ।
अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ६८।
स्वामी भवति मर्त्येषु तस्य तीर्थ प्रभावतः ।
ततो गच्छेत राजेंद्र ब्रह्मावर्त्तमनुत्तमम् ६९।
तत्र स्नात्वा नरो राजंस्तर्पयेत्पितृदेवताः ।
उपोष्य रजनीमेकां पिंडं दत्वा यथाविधि ७०।
कन्यागते यथाऽदित्ये अक्षयं संचितं भवेत् ।
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ७१।
तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति ।
संपूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात् ७२।
नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति ।
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ७३।
तत्र सर्वगतो राजा पृथिव्यामभिजायते ।
सर्वलक्षणसंपूर्णः सर्वव्याधिविवर्जितः ७४।
नार्मदीयोत्तरेकूले तीर्थं परमशोभनम् ।
आदित्यायतनं रम्यमीश्वरेण तु भावितम् ७५।
तत्र स्नात्वा तु राजेंद्र दानं दत्वा च शक्तितः ।
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ७६।
दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः ।
मुच्यंते सर्वपापेभ्यः सूर्यलोकं प्रयांति च ७७।
माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमीम् ।
वसेदायतने यस्तु निरात्मा यो जितेंद्रियः ७८।
न जायते व्याधितश्च कालेंधो बधिरस्तथा ।
सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ७९।
इदं तीर्थं महापुण्यं मार्कंडेयेन भाषितम् ।
ये प्रयांति न राजेंद्र वंचितास्ते न संशयः ८०।
मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ८१।
मोदते सर्वलोकस्थो यावदिंद्राश्चतुर्दश ।
ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ८२।
तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः ।
बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ८३।
कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः ।
कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ८४।
यत्र स्नात्वा तु राजेंद्र सर्वसंपदमाप्नुयात् ।
ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् ८५।
तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः ।
कांचनं तु ततो दद्यादन्नशक्त्या तु बुद्धिमान् ८६।
पुष्पकेण विमानेन वायुलोकं स गच्छति ।
मम तीर्थं ततो गच्छेन्माघमासे युधिष्ठिर ८७।
कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत् ।
नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसंकटम् ८८।
अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र अप्सरोभिः प्रमोदते ८९।
पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत् ।
चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ९०।
कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत् ।
यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् ९१।
स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः ।
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ९२।
स्नातमात्रो नरस्तत्र गोसहस्र फलं लभेत् ।
सोमतीर्थं ततो गच्छेत्स्नानमात्रं समाचरेत् ९३।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ।
सोमग्रहे तु राजेंद्र पापक्षयकरं भवेत् ९४।
त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम् ।
यस्तु चांद्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप ९५।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।
अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने ९६।
सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते ।
स्तंभतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ९७।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ।
ततो गच्छेत राजेंद्र विष्णुतीर्थमनुत्तमम् ९८।
योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् ।
असुरा योधितास्तत्र वासुदेवेन कोटिशः ९९।
तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह ।
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति १००।
ततो गच्छेत्तु राजेंद्र तापसेश्वरमुत्तमम् ।
अमोहकमिति ख्यातं पितॄन्यस्तत्र तर्पयेत् १०१।
पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि ।
तत्र स्नात्वा नरो राजन्पितृपिंडं तु दापयेत् १०२।
गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः ।
तस्मिंस्तु दापयेत्पिंडं वैशाखे तु विशेषतः १०३।
तृप्यंति पितरस्तावद्यावत्तिष्ठति मेदिनी ।
ततो गच्छेत राजेंद्र सिद्धेश्वरमनुत्तमम् १०४।
तत्र गत्वा तु राजेंद्र गणपत्यंतिकं व्रजेत् ।
ततो गच्छेत राजेंद्र लिंगो यत्र जनार्दनः १०५।
तत्र स्नात्वा तु राजेंद्र विष्णुलोके महीयते ।
नर्मदादक्षिणेकूले तीर्थं परमशोभनम् १०६।
कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान् ।
दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते १०७।
समाधिपर्वदग्धस्तु शंकरेण महात्मना ।
श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि १०८।
एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः ।
दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः १०९।
उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः ।
विमोक्षयित्वा तान्सर्वान्नर्म्मदातटमास्थितान् ११०।
तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः ।
त्वत्प्रसादान्महादेव तीर्थं च भवतूत्तमम् १११।
अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समंततः ।
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ११२।
कुसुमायुधरूपेण रुद्रलोके महीयते ।
वैश्वानरे यमेनैव कामदेवेन वायवे ११३।
तपस्तप्त्वा तु राजेंद्र तत्रैव च पुरागतैः ।
अंधोनस्य समीपे तु नातिदूरे तु तस्य वै ११४।
स्नानं दानं च तत्रैव भोजनं पिंडपातनम् ।
अग्निवेशे जले वापि अथवापि अनाशने ११५।
अनिवर्तिका गतिस्तस्य मृतस्याप्यर्द्धयोजने ।
त्रैयंबकेण तोयेन स्नापयेन्नरपुंगवः ११६।
अंधोनमूले दत्वा तु पिंडं चैव यथाविधि ।
पितरस्तस्य तृप्यंति यावच्चंद्र दिवाकरौ ११७।
उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः ।
पुरुषो वापि स्त्री वापि वसेदायतने शुचिः ११८।
सिद्धेश्वरस्य देवस्य प्रभाते पूजनान्नरः ।
स तां गतिमवाप्नोति न तां सर्वैर्महामखैः ११९।
यदा च तीर्थकालेन रूपवान्सुभगो भवेत् ।
मर्त्ये भवति राजासावासमुद्रांतगोचरे १२०।
क्षेत्रपालं न पश्येच्च दंडपालं महाबलम् ।
वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुंडलम् १२१।
एतत्तीर्थफलं ज्ञात्वा सर्वेदेवाः समागताः ।
मुंचंति पुष्पवृष्टिं तु स्तुवंति कुसुमेश्वरम् १२२।
इति श्रीपाद्मेमहापुराणे स्वर्गखंडे अष्टादशोऽध्यायः १८।



इति श्रीपाद्मेमहापुराणे स्वर्गखंडे अष्टादशोऽध्यायः १८