पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १९
नारद उवाच-
भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना ।
हुंकारितास्तु देवेन दानवाः प्रलयं गताः १।
तत्र स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते ।
शुक्लतीर्थस्य चोत्पत्तिं शृणु त्वं पांडुनंदन २।
हिमवच्छिखरे रम्ये नानाधातुविचित्रिते ।
तरुणादित्यसंकाशे तप्तकांचनसंनिभे ३।
वज्रस्फटिकसोपाने चित्रपट्टशिलातले ।
जांबूनदमये दिव्ये नाना पद्मोपशोभिते ४।
तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् ।
लोकानुग्राहकं शांतं गणवृंदैः समावृतम् ५।
स्कंदनंदिमहाकालैर्वीरभद्र गणादिभिः ।
उमया सहितं देवं मार्कंडः परिपृच्छति ६।
देवदेव महादेव इन्द्र कामादि संस्तुत ।
संसारभवभीतोहं सुखोपायं ब्रवीहि मे ७।
भगवन्भूतभव्येश सर्वपापप्रणाशनम् ।
तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर ८।
ईश्वर उवाच-
शृणुविप्र महाभाग सर्वशास्त्रविशारद ।
स्नानादि कुरु गच्छ त्वं ऋषिसंघैस्समावृतः ९।
मन्वत्रि याज्ञवल्क्याश्च काश्यपश्चैव अंगिराः ।
यमापस्तंब संवर्ताः कात्यायनबृहस्पती १०।
नारदो गौतमश्चैव पृच्छंति धर्मकांक्षिणः ।
गंगाकनखले पुण्या प्रयागं पुष्करं गया ११।
कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे ।
दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् १२।
दर्शनात्स्पर्शनाच्चैव स्नानाद्ध्यानात्तपोर्जनात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महत् १३।
शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितम् ।
चाणिक्योनाम राजर्षिः सिद्धिं तत्र समागतः १४।
एतत्क्षेत्रं समुत्पन्नं योजनावृत्तिसंस्थितम् ।
शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् १५।
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह १६।
वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी ।
कैलासाच्चापि निर्गत्य तत्र संनिहितो ह्यहम् १७।
देवकिन्नरगंधर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः १८।
गगनस्थास्तु तिष्ठंति विमानैः सर्वकामकैः ।
शुक्लतीर्थे तु राजेंद्र आगता धर्मकांक्षिणः १९।
रजकेन यथा वस्त्रं शुक्लं भवति वारिणा ।
आजन्मसंचितं पापं शुक्लतीर्थे व्यपोहति २०।
स्नानं दानं महापुण्यं मार्कंड ऋषिसत्तम ।
शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति २१।
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति २२।
तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ।
देवदानेन या पुष्टिर्न सा क्रतुशतैरपि २३।
कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी ।
घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् २४।
एकविंशत्कुलोपेतो न च्यवेच्चैश्वरात्पदात् ।
शुक्लतीर्थं परं तीर्थमृषिसिद्धनिषेवितम् २५।
तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते ।
स्नात्वा वै शुक्लतीर्थेपि अर्चयेद्वृषभध्वजम् २६।
जागरं कारयेत्तत्र नृत्यगीतादिमंगलैः ।
प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् २७।
आचार्यं भोजयेत्पश्चाच्छिवव्रतपरः शुचिः ।
भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत् २८।
प्रदक्षिणं ततः कृत्वा शनैर्देवांतिकं व्रजेत् ।
एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु २९।
दिव्ययानसमारूढस्तूयमानोऽप्सरोगणैः ।
शिवतुल्यबलोपेतस्तिष्ठत्याभूतसंप्लवम् ३०।
शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् ।
घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत् ३१।
एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु ।
मोदते देवलोकस्था यावदिंद्राश्चतुर्दश ३२।
अयने वा चतुर्दश्यां संक्रांतौ विषुवे तथा ।
स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः ३३।
दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ ।
शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम् ३४।
अनाथं दुर्गतं विप्रं नाथवंतमथापि वा ।
उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु ३५।
यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ।
तावद्वर्षसहस्राणि शिवलोके महीयते ३६।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे ऊनविंशोध्यायः १९