पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २०

नारद उवाच-
ततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति १।
अस्यतीर्थस्य माहात्म्यं शृणु त्वं पांडुनंदन ।
तस्मिंस्तीर्थे तु राजेंद्र यान्यस्थीनि विनिक्षिपेत् २।
विलयं यांति सर्वाणि रूपवान्जायते नरः ।
गोतीर्थं तु ततो गच्छेद्दृष्ट्वा पापात्प्रमुच्यते ३।
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ४।
ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ५।
घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम् ।
सघृतं श्रीफलं दत्वा कृत्वा चांते प्रदक्षिणम् ६।
घंटाभरणसंयुक्तां कपिलां यः प्रयच्छति ।
शिवतुल्यो नरो भूत्वा न चेह जायते पुनः ७।
अंगारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम् ८।
अंगारकनवम्यां तु अमावस्यां तथैव च ।
स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत् ९।
घृतेन स्नापयेल्लिंगं पूजयेद्भक्तितो द्विजान् ।
पुष्पकेण विमानेन सहस्रैः परिवारितः १०।
शैवं पदमवाप्नोति नात्र चाभिगतं भवेत् ।
अक्षयं मोदते कालं यथा रुद्रस्तथैव च ११।
यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः ।
राजा भवति धर्मिष्ठो रूपवान्जायते बली १२।
ततो गच्छेत राजेंद्र ऋषितीर्थमनुत्तमम् ।
तृणबिंदुऋषिर्नाम शापदग्धो व्यवस्थितः १३।
तस्यतीर्थप्रभावेण पापमुक्तोऽभवद्द्विजः ।
ततो गच्छेत राजेंद्र गणेश्वरमनुत्तमम् १४।
श्रावणेमासि संप्राप्ते कृष्णपक्षे चतुर्दशीम् ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते १५।
पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ।
गणेश्वरसमीपे तु गंगावदनमुत्तमम् १६।
अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः १७।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् १८।
प्रयागे यत्फलं दृष्टं शंकरेण महात्मना ।
तदेव निखिलं पुण्यं गंगाराह्वर्कसंगमे १९।
तस्यैवं पश्चिमे स्थाने समीपेनातिदूरतः ।
दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम् २०।
उपोष्य रजनीमेकां मासि भाद्रपदे तथा ।
अमावस्यां नरः स्नात्वा व्रजेद्वै यत्र शंकरः २१।
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत् २२।
दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः ।
दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासत २३।
वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् ।
आश्चर्यं च महज्जातमुमायाः शंकरस्य च २४।
गौरी तु पृच्छते देवं कोयमत्र तु संस्थितः ।
देवो वा दानवो वाथ कथयस्व महेश्वर २५।
ईश्वर उवाच-।
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः ।
ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये २६।
तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत ।
धूमावर्तशिखा जाता ततोऽद्यापि न तुष्यसि ।
दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा २७।
देव उवाच-।
न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः ।
दर्शयामि यथातथ्यं प्रियं ते च करोम्यहम् २८।
स्मारितो देवदेवेन धर्मरूपो वृषस्तदा ।
स्मरणादेव देवस्य वृषः शीघ्रमुपस्थितः २९।
प्राहासौ मानुषीं वाचमादेशो दीयतां प्रभो ।
वल्मीकैश्छादितो विप्र एनं भूमौ निपातय ३०।
योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः ।
तत्क्षणात्क्रोधसंतप्तो हस्तमुत्क्षिप्तवान्वृषम् ३१।
एवं संभाषमाणस्तु कुत्र गच्छसि भो वृष ।
अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष ३२।
धर्षितस्तु तदा विप्रो ह्यंतरिक्षं गतं वृषम् ।
आकाशे प्रेक्षते भूय एतदद्भुतमुत्तमम् ३३।
ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः ।
तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि ३४।
प्रणम्य दंडवद्भूमौ स्तुवते परमेश्वरम् ।
प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम् ।
भवभीतो भुवनपते भूतं विज्ञापये किंचित् ३५।
त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ ।
वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य ३६।
भक्त्या तवापि शंकरभुवनपते त्वत्स्तुतौ तु मुखरस्य ।
वंद्य क्षमस्व भवन्प्रसीद मे तव चरणपतितस्य ३७।
सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव ।
त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित् ३८।
यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगात् ।
त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन ३९।
उत्कृष्टरसरसायनखड्गांजनपादुकादि सिद्धिर्वा ।
चिह्नानि भवत्प्रणतानां दृश्यंत इह जन्मनि प्रकटम् ४०।
शाठ्येन नमति यद्यपि ददासि त्वं धर्ममिच्छतां देव ।
भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ ४१।
परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम् ।
परवदनवीक्षणपरं परमेश्वर मां परित्राहि ४२।
अलीकाभिमानदग्धं क्षणभंगुरविभवविलसितं देव ।
क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश ४३।
दीनेंद्रियगणसार्थैर्बंधुजनैरेव पूरिता आशा ।
तुच्छा तथापि शंकर किं मूढं मां विडंबयसि ४४।
तृष्णां हरस्व शीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्याम् ।
छिंधि मदमोहपाशानुत्तारय मां महादेव ४५।
करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यम् ।
यः पठति भक्तियुक्तस्तस्य तु तुष्येद्भृगोर्यथाहि शिवः ४६।
ईश्वर उवाच-।
अहं तुष्टोस्मि ते विप्र वरं प्रार्थय स्वेप्सितम् ।
उमया सहितो देवो वरं तस्य हि दापयेत् ४७।
भृगुरुवाच-।
यदि तुष्टोसि देवेश यदि देयो वरो मम ।
रुद्रवेदी भवेदेवमेतत्संपादयस्व मे ४८।
ईश्वर उवाच-।
एवं भवतु विप्रेंद्र क्रोधस्थानं भविष्यति ।
न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति ४९।
तदाप्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः ।
उपासंतो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ५०।
दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते ।
अवशाः स्ववशाश्चापि म्रियंते तत्र जंतवः ५१।
गुह्यातिगुह्यस्य गतिस्तेषां निःसंशया भवेत् ।
एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ५२।
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।
औपानहं तदा छत्रं देयमन्नं च कांचनम् ५३।
भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत् ।
सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया ५४।
तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेत् ।
चंद्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमम् ५५।
न जानंति नरा मूढा विष्णुमायाविमोहिताः ।
नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप ५६।
भृगुतीर्थस्य माहात्म्यं यः शृणोति नरः सकृत् ।
विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ५७।
ततो गच्छेत राजेंद्र गौतमेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन्नुपवासपरायणः ५८।
कांचनेन विमानेन ब्रह्मलोके महीयते ।
धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ५९।
नर्मदायां स्थितं राजन्सर्वपातकनाशनम् ।
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ६०।
तस्मिन्तीर्थे महाराज प्राणत्यागं करोति यः ।
चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेत् ६१।
वसेत्कल्पायुतं साग्रं रुद्रतुल्यपराक्रमः ।
कालेन महता प्राप्तः पृथिव्यामेकराड्भवेत् ६२।
ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् ।
प्रयागे यत्फलं दृष्टं मार्कंडेयेन भाषितम् ६३।
तत्फलं लभते राजन्स्नातमात्रस्तु मानवः ।
मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम् ६४।
उपोष्य रजनीमेकां तत्र स्नानं समाचरेत् ।
यमदूतैर्न बाध्येत इंद्रलोकं स गच्छति ६५।
ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः ।
हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम् ६६।
तत्र स्नात्वा नरो राजन्धनवान्रूपवान्भवेत् ।
ततो गच्छेत राजेंद्र तीर्थं कनखलं महत् ६७।
गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ।
विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति ६८।
क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति ।
तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ६९।
ततो गच्छेत राजेंद्र ईशतीर्थमनुत्तमम् ।
ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः ७०।
ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः ।
वाराहं रूपमास्थाय अचिंत्यः परमेश्वरः ७१।
वराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः ।
विष्णुलोकमवाप्नोति नरकं तु न गच्छति ७२।
ततो गच्छेत राजेंद्र सोमतीर्थमनुत्तमम् ।
पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेत् ७३।
प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति ।
हरिश्चन्द्रपुरं दिव्यमंतरिक्षे तु दृश्यते ७४।
चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने ।
नर्मदातोयवेगेन रुरुकच्छोपसेवितम् ७५।
तस्मिन्स्थाने निवासं च विष्णुः शंकरमब्रवीत् ।
द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम् ७६।
ततो गच्छेत राजेंद्र रुद्रकन्यां तु संगमे ।
स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात् ७७।
देवतीर्थं ततो गच्छेत्सर्वदेवनमस्कृतम् ।
तत्र स्नात्वा तु राजेंद्र दैवतैः सह मोदते ७८।
ततो गच्छेत राजेंद्र शिखितीर्थमनुत्तमम् ।
तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत् ७९।
अपरपक्षे अमावास्यां स्नानं तत्र समाचरेत् ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ८०।
भृगुतीर्थे तु राजेंद्र तीर्थकोटिर्व्यवस्थिता ।
अकामो वा सकामो वा तत्र स्नायीत मानवः ८१।
अश्वमेधमवाप्नोति दैवतैः सह मोदते ।
तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुंगवः ।
अवतारः कृतस्तेन शंकरेण महात्मना ८२।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे विंशतितमोऽध्यायः २०