पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २३

नारद उवाच-
एवं बहुतिथे काले लोमशो मुनिसत्तमः ।
आगतश्च महाभागस्तत्र यादृच्छिको मुनि १।
तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः ।
धावंतो ह्यत्तुकामास्ते मिलित्वा यूथवर्तिनः २।
दह्यमानास्तु तीव्रेण तेजसा लोमशस्य तु ।
असमर्थाः पुरः स्थातुं ते सर्वे दूरतः स्थिताः ३।
तत्र पूर्वकर्मबलात्पिशाचः सह वै द्विजः ।
समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य च ४।
उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम् ।
महाभाग्योदये विप्र साधूनां संगतिर्भवेत् ५।
गंगादिपुण्यतीर्थेषु यो नरः स्नाति सर्वथा ।
यः करोति सतां संगं तयोः सत्संगमो वरः ६।
गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि ।
स्वर्गदो रोगहारी च किं तमोपहरो मतः ७।
इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम् ।
इमा गंधर्वकन्यास्ता मुने सोऽहं द्विजात्मजः ८।
सर्वे पिशाचरूपेण मिथः शापविमोहिताः ।
दीनाननास्सुतिष्ठामस्तवाग्रे मुनिसत्तम ९।
त्वद्दर्शनेन बालानां निस्तारो नो भविष्यति ।
सूर्योदये तमस्तोमः किं नु लीयेत पुष्करे १०।
श्रुत्वैतल्लोमशो वाक्यं कृपार्द्रीकृतमानसः ।
प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम् ११।
मत्प्रसादाच्च सर्वेषां स्मृतिः सपदि जायताम् ।
धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत् १२।
पिशाच उवाच-
महर्षे कथ्यतां धर्मो मुच्येम येन किल्बिषात् ।
नायं कालो विलंबस्य शापाग्निर्दारुणो यतः १३।
लोमश उवाच-
मया सार्द्धं प्रकुर्वंतु रेवास्नानं विधानतः ।
शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत् १४।
शृणुष्वावहितो विप्र पापनाशो ध्रुवं नृणाम् ।
रेवास्नानेन जायेत इति मे निश्चिता मतिः १५।
सप्तजन्मकृतं पापं वर्तमानं च पातकम् ।
रेवास्नानं दहेत्सर्वं तूलराशिमिवानलः १६।
प्रायाश्चित्तं न पश्यंति यस्मिन्पापे पिशाचक ।
तत्सर्वं नर्मदातोये स्नानमात्रेण नश्यति १७।
ज्ञानकृन्नर्म्मदास्नानमतो मोक्षफला हि सा ।
हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै १८।
इंद्रलोकप्रदं हीदं निर्मितं ब्रह्मवादिभिः ।
सर्वकामफला रेवा मोक्षदा परिकीर्तिता १९।
पापघ्नी पापहारिणी सर्वकामफलप्रदा ।
विष्णुलोकदआप्लावो नार्मदः पापनाशनः २०।
यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः ।
सारस्वतोघविध्वंसी ब्रह्मलोकफलप्रदः २१।
विशालफलदा प्रोक्ता विशाला हि पिशाचक ।
पापेंधनदवाग्निस्तु गर्भहेतुक्रियापहः २२।
विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः ।
सरयूगंडकीसिंधुश्चंद्रभागा च कौशिकी २३।
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका ।
कावेरी तुंगभद्रा च अन्याश्चापि समुद्रगाः २४।
तासु रेवा परा प्रोक्ता विष्णुलोकप्रदायिनी ।
रेवा तु प्राप्यते पुण्यैः पूर्वजन्मकृतैर्द्विज ।
अपुनर्भवदं तत्र मज्जनं मुनिपुत्रक २५।
गायंति देवाः सततं दिविष्ठा रेवा कदा दृष्टिगता हि नो भवेत् ।
स्नाता नरा यत्र न गर्भवेदनां पश्यंति तिष्ठंति च विष्णुसन्निधौ २६।
मज्जंति ये प्रत्यहमत्र मानवा रेवासुतो ये बहुपापकंचुकाः ।
मज्जंति ते नो निरयेषु धर्म्मतः स्वर्गे तु ते चारुचरंति देववत् २७।
तीव्रैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा ।
रेवापिशाचाशु तयोर्द्वयोरभूद्रेवा वरा तत्र च मोक्षसाधिका २८।
नारद उवाच-
एतच्छ्रुत्वा वचस्तस्य लोमशस्य पिशाचकाः ।
तेन सार्द्धं ययुः शीघ्रं रेवामज्जनहेतवे २९।
ततो दैवात्समुत्पन्नो रेवारोधसि मारुतः ।
तेषां प्रवाहस्पृष्टानां गात्रे जलकणप्रदः ३०।
रेवाजलकणस्पर्शात्पैशाच्यात्ते विमोचिताः ।
तत्क्षणाद्दिव्यवपुषः प्रशशंसुश्च नर्मदाम् ३१।
ततो लोमशवाक्येन ताश्च गंधर्वकन्यकाः ।
परिणीताः सुखं तेन विप्रेण नर्मदातटे ३२।
उवास सुचिरं कालं स्नानपानावगाहनैः ।
अर्चित्वा नर्मदामत्र विष्णुलोकं गताश्च ते ३३।
एवं ते कथितो राजन्नर्मदागुणसंश्रयः ।
इतिहासो महापुण्यः श्रवणात्पापनाशनः ३४।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रयोविंशोऽध्यायः २३ ।