पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २९
नारदउवाच-।
ततो गच्छेत राजेंद्र कालिंदीतीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् १।
पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्त्ते पृथूदके ।
अविमुक्ते सुवर्णाख्ये यत्फलं लभते नरः २।
तत्फलं समवाप्नोति यमुनायां नरोत्तम ।
स्वर्गभोगेतिरागो वै येषां मनसि वर्तते ३।
यमुनायां विशेषेण स्नानदानेन सत्तम ।
आयुरारोग्यसंपत्तौ रूपयौवनता गुणे ४।
येषां मनोरथस्तैस्तु न त्याज्यं यमुनाजलम् ।
ये बिभ्यति नरकादेर्दारिद्र्योऽत्र संति च ५।
सर्वथा तैः प्रयत्नेन तत्र कार्यं निमज्जनम् ।
दारिद्र्य पाप दौर्भाग्य पंक प्रक्षालनाय वै ६।
ऋते वै यामुनं तोयं न चान्योस्ति युधिष्ठिर ।
श्रद्धाहीनानि कर्माणि मतान्यर्धफलानि वै ।
फलं ददाति संपूर्णं यामुनं स्नानमात्रतः ७।
अकामो वा सकामो वा यामुने सलिले नृप ।
इहामुत्र च दुःखानि मज्जनान्नैव पश्यति ८।
पक्षद्वये यथा चंद्र क्षीःयते वर्द्धते तथा ।
पातकं नश्यते तत्र स्नानात्पुण्यं विवर्द्धते ९।
यथाब्धौ सुखमायांति रत्नानि विविधानि च ।
आयुर्वित्तं कलत्राणि संपदः संभवंति च १०।
कामधेनुर्यथा कामं चिंतामणिर्विचिंतितम् ।
ददाति यमुनास्नानं तद्वत्सर्वं मनोरथम् ११।
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा ।
द्वापरे च कलौ दानं कालिंदी सर्वदा शुभा १२।
सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते ।
यामुने मज्जनं धर्मं धाराभिः खलु वर्षति १३।
अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः ।
कालिंद्यस्नायिनां नॄणां निष्फलं जन्मकीर्त्तितम् १४।
नैश्वर्यं गगने यद्वच्चांद्रे ऽमायां तु मंडले ।
तद्वन्न भाति सत्कर्म यमुनामज्जनं विना १५।
व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः ।
तत्र मज्जनमात्रेण यथा प्रीणाति केशवः १६।
न समं विद्यते किंचित्तेजः सौरेण तेजसा ।
तद्वन्न यमुनास्नानं समानाः क्रतुजाः क्रियाः १७।
प्रीतये वासुदेवस्य सर्वपापापनुत्तये ।
कालिंद्या मज्जनं कुर्य्यात्स्वर्गलाभाय मानवः १८।
किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।
अध्रुवेण सुदेहेन यमुना मज्जनं विना १९।
अस्थिस्तंभं स्नायुबंधं मांसक्षतज लेपनम् ।
चर्मावनद्ध दुर्गंधं पूर्णं मूत्रपुरीषयोः २०।
जराशोक विपद्व्याप्तं रोगमंदिरमातुरम् ।
रागमूलमनित्यं च सर्वदोषसमाश्रयम् २१।
परोपकारपापार्ति परद्रोहपरेर्षिकम् ।
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा २२।
निष्ठुरं दुर्धरं दुष्टं दोषत्रयविदूषितम् ।
अशुचितापि दुर्गंधि तापत्रयविमोहितम् २३।
निसर्गतो ऽधर्मरतं तृष्णाशतसमाकुलम् ।
कामक्रोधमहालोभ नरकद्वारसंस्थितम् २४।
कृमिवर्चस्तु भस्मादि परिणामगुणावहम् ।
ईदृक्शरीरं व्यर्थं हि यमुनामज्जनं विना २५।
बुद्बुदा इव तोयेषु प्रत्यंडा इव पक्षिषु ।
जायंते मरणायैव यमुनास्नान वर्जिताः २६।
अवैष्णवो हतो विप्रो हतं श्राद्धमपिंडकम् ।
अब्रह्मण्यं हतं क्षत्रमनाचार हतं कुलम् २७।
सदंभश्च हतो धर्म्मः क्रोधेनैव हतं तपः ।
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् २८।
परभक्त्या हता नारी ब्रह्मचारी स्त्रिया हतः ।
अदीप्तेऽग्नौ हतो होमो हता भक्तिः समायिका २९।
उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।
शूद्र भक्षो हतो योगः कृपणस्य हतं धनम् ३०।
अनभ्यासहता विद्या हतो बोधो विरोधकृत् ।
जीवितार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ३१।
असत्या च हता वाणी तथा पैशुन्यवादिनी ।
षट्कर्णगो हतो मंत्रो व्यग्रचित्तो हतो जपः ३२।
हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः ।
अश्रद्धया हतं सर्वं यत्कृतं पारलौकिकम् ३३।
इह लोको हतो नॄणां दरिद्राणां यथा नृप ।
मनुष्याणां हतं जन्म कालिदीमज्जनं विना ३४।
उपपातक सर्वाणि पातकानि महांति च ।
भस्मी भवंति सर्वाणि यमुनामज्जनान्नृप ३५।
वेपंते सर्वपापानि यमुनायां गते नरे ।
नाशके सर्वपापानां यदि स्नास्यति वारिणि ३६।
पावका इव दीप्यंते यमुनायां नरोत्तमाः ।
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ३७।
आर्द्र शुष्कलघुस्थूलं वाङ्मनः कर्मभिः कृतम् ।
तत्र स्नानं दहेत्पापं पावकः समिधो यथा ३८।
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ।
स्नानमात्रेण नश्येत यमुनायां नृपोत्तम ३९।
निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् ।
संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले ४०।
सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ तथा नृप ।
सर्वेषां सर्वदा देवी यमुना पापनाशिका ४१।
एष एव परो मंत्र एतच्च परमं तपः ।
प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम् ४२।
नृणां जन्मांतराभ्यासात्कालिंदी मज्जने मतिः ।
अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ४३।
संसारकर्दमालेप प्रक्षालन विशारदम् ।
पावनं पावनानां च यमुनास्नानमुत्तमम् ४४।
स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे ।
शुभांश्च भुंजते भोगांश्चंद्र सूर्यग्रहोपमान् ४५।
यमुना मोक्षदा प्रोक्ता मथुरासंगता यदि ।
मथुरायां च कालिंदी पुण्याधिकविवर्द्धिनी ४६।
अन्यत्र यमुना पुण्या महापातकहारिणी ।
विष्णुभक्तिप्रदा देवी मथुरा संगता भवेत् ४७।
भक्तिभावेन संयुक्ता कालिंद्यां यदि मज्जयेत् ।
कल्पकोटिसहस्राणि वसते सन्निधौ हरेः ४८।
मुक्तिं प्रयांति मनुजाः नूनं सांख्येन वर्जिताः ।
पितरस्तस्य तृप्यंति तृप्ताः कल्पशतैर्दिवि ४९।
ये पिबंति नरा राजन्यमुनासलिलं शुभम् ।
पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ५०।
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत् ५१।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे ऊनत्रिंशोऽध्यायः २९ ।