पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३२

नारदउवाच-
ततो गच्छेत राजेंद्र सुगंधंलोकविश्रुतम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते १।
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप ।
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते २।
गंगायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे ।
स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ३।
तत्र कर्णह्रदे स्नात्वा देवमभ्यर्च्य शंकरम् ।
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ४।
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् ।
गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ५।
अरुंधतीवटं गच्छेत्तीर्थसेवी नराधिप ।
सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ६।
गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति ।
ब्रह्मावर्त्तं ततो गच्छेद्ब्रह्मचारी समाहितः ७।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।
यमुनाप्रभवं गच्छेत्समुपस्पृश्य यामुनम् ८।
अश्वमेधफलं लब्ध्वा ब्रह्मलोके महीयते ।
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् ९।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।
सिंधोश्च प्रभवं गत्वा सिद्धगंधर्वसेवितम् १०।
तत्रोष्य रजनीः पंच दद्याद्बहुसुवर्णकम् ।
अथ देवीं समासाद्य नरः परमदुर्गमाम् ११।
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ।
ऋषिकुल्यां समासाद्य वसिष्ठं चैव भारत १२।
वसिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ।
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते १३।
यदि तत्र वसेन्मासं शाकाहारो नराधिप ।
भृगुतुंगं समासाद्य वाजिमेधफलं लभेत् १४।
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ।
कार्तिकमाघयोश्चैव तीर्थमासाद्य दुर्लभम् १५।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ।
ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् १६।
उपस्पृशेत्स विद्यानां सर्वासां पारगो भवेत् ।
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने १७।
एककालं निराहारो लोकान्संवसते शुभान् ।
षष्ठकालोपवासेन मासमुष्य महालये १८।
तीर्णस्तारयते जंतून्दशपूर्वान्दशापरान् ।
दृष्ट्वा माहेश्वरं पुण्यं परं सुरनमस्कृतम् १९।
कृतार्थः सर्वकृत्येषु न शोचेन्मरणं क्वचित् ।
सर्वपापविशुद्धात्मा विंद्याद्बहुसुवर्णकम् २०।
अथ वेतसिकां गच्छेत्पितामहनिषेविताम् ।
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् २१।
अथ सुंदरिकां तीर्थं प्राप्य सिद्धनिषेविताम् ।
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः २२।
ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः ।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते २३।
ततश्च नैमिषं गच्छेत्पुण्यं द्विजनिषेवितम् ।
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह २४।
नैमिषं प्रार्थयानस्य पापस्यार्द्धं प्रणश्यति ।
प्रविष्टमानस्तु नरः सर्वपापात्प्रमुच्यते २५।