पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३५
नारद उवाच-
अथान्यत्तत्र वै लिंगं कपर्दीश्वरमुत्तमम् ।
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन्नृप १।
मुच्यते सर्वपापेभ्यो मुक्तिं भुक्तिं च विंदति ।
पिशाचमोचनं नाम तीर्थमन्यत्ततः स्थितम् २।
तत्राश्चर्यमयो देवो मुक्तिदः सर्वदोषहः ।
कश्चिद्दैत्यो जगामेदं शार्दूलो घोररूपधृक् ३।
मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम् ।
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ४।
धावमाना सुसंभ्रांता व्याघ्रस्य वशमागता ।
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः स महाबलः ५।
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् ।
मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी ६।
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ।
त्रिनेत्रा नीलकंठा च शशांकांकित मूर्द्धजा ७।
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता ।
पुष्पवृष्टिं विमुंचंति खेचरास्तत्समंततः ८।
गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्ततः ।
दृष्ट्वा तदाश्चर्यवरं प्रशशंसुः सुरादयः ९।
तन्महेशस्य वै लिंगं कपर्दीश्वरमुत्तमम् ।
स्मृत्वैवाशेषपापौघात्क्षिप्रमस्य विमुंचति १०।
कामक्रोधादयो दोषा वाराणसी निवासिनाम् ।
विघ्नाः सर्वे विनश्यंति कपर्दीश्वरपूजनात् ११।
तस्मात्सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमम् ।
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैस्तवैः १२।
ध्यायतां चात्र नियतं योगिनां शांतचेतसाम् ।
जायते योगसिद्धिः स्यात्षण्मासेन न संशयः १३।
ब्रह्महत्यादयः पापा विनश्यंत्यस्य पूजनात् ।
पिशाचमोचने कुंडे स्नातः स्यात्प्रशमो यतः १४।
तस्मिन्क्षेत्रे पुरा विप्रस्तपस्वी संशितव्रतः ।
शंकुकर्ण इति ख्यातः पूजयामास शंकरम् १५।
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ।
पुष्पधूपादिभिस्तोत्रैः नमस्कारैः प्रदक्षिणैः १६।
उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम् ।
कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् १७।
अस्थिचर्म पिनद्धांगं निश्वसंतं मुहुर्मुहुः ।
तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः १८।
प्रोवाच को भवान्कस्माद्देशाद्देशमिमं श्रितः ।
तस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः १९।
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः ।
पुत्रपौत्रादिभिर्युक्तः कुटुंबभरणोत्सुकः २०।
न पूजिता महादेवा गावोऽप्यतिथयस्तथा ।
न कदाचित्कृतं पुण्यमल्पं वानल्पमेव च २१।
एकदा भगवान्देवो वृषभेश्वरवाहनः ।
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः २२।
तदाचिरेण कालेन पंचत्वमहमागतः ।
न दृष्टं तन्महाघोरं यमस्य सदनं मुने २३।
पिपासयाधुनाक्रांतो न जानामि हिताहितम् ।
यदि कंचित्समुद्धर्तुमुपायं पश्यसि प्रभो २४।
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ।
इत्युक्तः शंकुकर्णोऽथ पिशाचमिदमब्रवीत् २५।
तादृशो नहि लोकेस्मिन्विद्यते पुण्यकृत्तमः ।
यत्त्वया भगवान्पूर्वं दृष्टो विश्वेश्वरः शिवः २६।
संस्पृष्टो वंदितो भूयः कोऽन्यस्त्वत्सदृशो भुवि ।
तेन कर्मविपाकेन देशमेतं समागतः २७।
स्नानं कुरुष्व शीघ्रं त्वमस्मिन्कुंडे समाहितः ।
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि २८।
स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् ।
स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोवगाहम् २९।
तदावगाढो मुनिसन्निधाने ममार दिव्याभरणोपपन्नः ।
अदृश्यतार्कप्रतिमो विमाने शशांकचिह्नीकृतचारुमौलि ३०।
विभाति रुद्रैः सहितो दिविष्ठैः समाभृतो योगिरिभरप्रमेयैः ।
स वालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ३१।
स्तुवंति सिद्धादि विदेवसंघा नृत्यंति दिव्याप्सरसोऽभिरामाः ।
मुंचंति वृष्टिं कुसुमांबुमिश्रां गंधर्वविद्याधरकिन्नराद्याः ३२।
संस्तूयमानोऽथ मुनींद्रसंघैरवाप्य बोधं भगवत्प्रसादात् ।
समाविशन्मंडलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ३३।
दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् ।
विचिंत्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ३४।
शंकुकर्ण उवाच-।
कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम् ।
व्रजामि योगेश्वरमीप्सितारमादित्यमग्निं कपिलाधिरूढम् ३५।
त्वां ब्रह्मसारं हृदि संनिविष्टं हिरण्मयं योगिनमादिमं तम् ।
व्रजामि रुद्रं शरणं दिविष्ठं महामुनिं ब्रह्ममयं पवित्रम् ३६।
सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात् ।
तं ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ३७।
यत्र प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन ।
तं ब्रह्मपारं भगवंतमीशं प्रणम्य नित्यं शरणं प्रपद्ये ३८।
अलिंगमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमेकरूपम् ।
तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ३९।
यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः ।
पश्यंति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं परमस्वरूपम् ४०।
न यत्र नामादिविशेष कॢप्तिर्न संदृशे तिष्ठति यत्स्वरूपम् ।
तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ४१।
यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् ।
पश्यंत्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यम् ४२।
यतः प्रधानं पुरुषः पुराणो बिभर्ति तेजः प्रणमंति देवाः ।
नमामि तं ज्योतिषि सन्निविष्टं कालं बृहंतं भवतः स्वरूपम् ४३।
व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
शिवं प्रपद्ये हरिमिंदुमौलिं पिनाकिनं त्वां शरणं व्रजामि ४४।
स्तुत्वैवं शंकुकर्णोऽपि भगवंतं कपर्दिनम् ।
पपात दंडवद्भूमौ प्रोच्चरन्प्रणवं परम् ४५।
तत्क्षणात्परमं लिंगं प्रादुर्भूतं शिवात्मकम् ।
ज्ञानमानंदमत्यंतं कोटिज्वालाग्निसन्निभम् ४६।
शंकुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः ।
निलिल्ये विमले लिंगे तदद्भुतमिवाभवत् ४७।
एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्द्दिनः ।
न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ४८।
य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् ।
त्यक्तपापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ४९।
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात्परम् ५०।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये पंचत्रिंशोऽध्यायः ३५।