पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३८
नारद उवाच-
वाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो ।
कथितानि समासेन तीर्थान्यन्यानि संशृणु १।
ततो गयां समासाद्य ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति गमनादेव भारत २।
यत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः ।
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ३।
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ।
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ४।
ततो ब्रह्मसरो गच्छेद्ब्रह्मारण्योपसेवितम् ।
पुंडरीकमवाप्नोति प्रभातमिव शर्वरी ५।
सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः ।
यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ६।
ततो गच्छेत राजेंद्र धेनुकं लोकविश्रुतम् ।
एकारात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ७।
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ।
तत्र चिह्नं महाराज अद्यापि हि न संशयः ८।
कपिला सहवत्सा वै पर्वते विचरत्युतः ।
सवत्सायाः पदान्यस्या दृश्यंतेऽद्यापि भारत ९।
तेषूपस्पृश्य राजेंद्र पदेषु नृपसत्तम ।
यत्किंचिदशुभं पापं तत्प्रणश्यति भारत १०।
ततो गृध्रवटं गच्छेत्स्थानं देवस्य शूलिनः ।
स्नायात्तु भस्मना तत्र संगम्य वृषभध्वजम् ११।
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति १२।
गच्छेत तत उद्यंतं पर्वतं गीतनादितम् ।
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ १३।
तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः ।
उपास्ताहि भवेत्संध्या तेन द्वादशवार्षिकी १४।
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ ।
तत्राभिगम्य मुच्येत पुरुषो योनिसंकटात् १५।
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः ।
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः १६।
एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् १७।
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप ।
अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत् १८।
ततो गच्छेत राजेंद्र धर्मपृष्ठं समाहितः ।
यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर १९।
धर्म्मं तत्राभिसंगम्य वाजिमेधफलं लभेत् ।
ततो गच्छेत राजेंद्र ब्रह्मणस्तीर्थमुत्तमम् २०।
तत्राभिगम्य ब्रह्माणमर्चयेन्नियतव्रतः ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत २१।
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप ।
उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते २२।
यक्षिण्या नैत्यकं तत्र प्रागग्निपुरुषः शुचिः ।
यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया २३।
मणिनागं ततो गच्छेद्गोसहस्रफलं लभेत् ।
नैत्यकं भुंजते यस्तु मणिनागस्य मानवः २४।
दष्टस्याशीविषेणास्य न विषं क्रमते नृप ।
तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते २५।
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप ।
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् २६।
अभिगम्य श्रियं राजन्विंदते श्रियमुत्तमाम् ।
तत्रोदपानो धर्म्मज्ञ त्रिषु लोकेषु विश्रुतः २७।
तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात् ।
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः २८।
तत्राभिषेकं कृत्वा च विष्णुलोकमवाप्नुयात् ।
ततोऽविनाशनं गच्छेत्सर्वपापप्रमोचनम् २९।
वाजिमेधमवाप्नोति सोमलोकं च गच्छति ।
गंडकीं च समासाद्य सर्वतीर्थजलोद्भवाम् ३०।
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ।
ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम् ३१।
गुह्यकेषु महाभाग मोदते नात्र संशयः ।
कर्मदां तु समासाद्य नदीं सिद्धनिषेविताम् ३२।
पुंडरीकमवाप्नोति सोमलोकं च गच्छति ।
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ३३।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ।
अथ माहेश्वरीं धारां समासाद्य नराधिप ३४।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ३५।
न दुर्गतिमवाप्नोति वाजपेयं च विंदति ।
अथ माहेशपदं गच्छेद्ब्रह्मचारी समाहितः ३६।
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ।
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ३७।
कूर्मरूपेण राजेंद्र असुरेण दुरात्मना ।
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ३८।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां नराधिप ।
पुंडरीकमवाप्नोति विष्णुलोकं च गच्छति ३९।
ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च ।
सदा सन्निहितो यत्र हरिर्वसति भारत ४०।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
आदित्यावसवोरुद्रा जनार्दनमुपासते ४१।
शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ।
अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम् ४२।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः ४३।
समुद्रास्तत्रचत्वारः कूपे सन्निहिताः सदा ।
तत्रोपस्पृश्य राजेंद्र न दुर्गतिमवाप्नुयात् ४४।
अभिगम्य महादेवं वरदं विष्णुमव्ययम् ।
विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर ४५।
जातिस्मरं उपस्पृश्य शुचिः प्रयतमानसः ।
जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ४६।
वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम् ।
ईप्सिताँल्लभते लोकानुपवासान्न संशयः ४७।
ततस्तु वामनं गत्वा सर्वपापप्रणाशनम् ।
अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ४८।
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् ।
कौशिकीं तत्र सेवेत महापातकनाशिनीम् ४९।
राजसूयस्य यज्ञस्य फलं प्राप्नोतिमानवः ।
ततो गच्छेत धर्मज्ञ चंपकारण्यमुत्तमम् ५०।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
अथ गोविंदमासाद्य तीर्थं परमसम्मतम् ५१।
उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ।
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ५२।
मित्रावरुणयोर्लोकान्प्राप्नुयाद्भरतर्षभ ।
त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् ५३।
कन्यावसथमासाद्य नियतो नियताशनः (आवसथ्य)।
मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ५४।
कन्यायां ये प्रयच्छंति दानमण्वपि भारत ।
तदक्षयमिति प्राहुरृषयः संशितव्रताः ५५।
निष्ठावासं समासाद्य त्रिषु लोकेषु विश्रुतम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ५६।
ये तु दानं प्रयच्छंति निष्ठायाः संगमे नराः ।
ते यांति नरशार्दूल ब्रह्मलोकमनामयम् ५७।
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ५८।
देवकूटं समासाद्य देवर्षिगणसेवितम् ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ५९।
ततो गच्छेत राजेंद्र कौशिकस्य मुनेर्ह्रदम् ।
तत्र सिद्धिं परां प्राप विश्वामित्रोऽथ कौशिकः ६०।
यत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ ।
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ६१।
सर्वतीर्थवरं चैव यो वसेत महाह्रदम् ।
न दुर्गतिमवाप्नोति विंद्याद्बहुसुवर्णकम् ६२।
कुमारमभिगम्याथ वीराश्रमनिवासिनम् ।
अश्वमेधमवाप्नोति शक्रलोकं स गच्छति ६३।
नंदिन्यां च समासाद्य कूपं त्रिदशसेवितम् ।
नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ६४।
कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः ।
त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ६५।
उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः ।
कुंभकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ६६।
तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः ।
जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनैः ६७।
सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः ।
सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ६८।
ऋषभद्वीपमासाद्य सेव्य क्रौंचनिषूदनम् ।
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ६९।
औद्यानकं महाराज तीर्थं मुनिनिषेवितम् ।
तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ७०।
ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् ।
वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ७१।
ततश्चंपां समासाद्य भागीरथ्यां कृतोदकः ।
दंडार्पणं समासाद्य गोसहस्रफलं लभेत् ७२।
लाविढिकां ततो गच्छेत्पुण्यां पुण्यनिषेविताम् ।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ७३।
इति श्रीपाद्मेमहापुराणे स्वर्गखंडे गयादितीर्थमाहात्म्यकथनंनाम अष्टत्रिंशोऽध्यायः ३८।