पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३९
नारद उवाच-
अथ संध्यां समासाद्य स विद्यांतीर्थमुत्तमम् ।
उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः १।
रामस्य च प्रसादेन तीर्थराजं कृतं पुरा ।
तल्लौहित्यं समासाद्य विंद्याद्बहुसुवर्णकम् २।
करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ३।
गंगायास्त्वथ राजेंद्र सागरस्य च संगमे ।
अश्वमेधं दशगुणं प्रवदंति मनीषणः ४।
गंगायास्तु परं द्वीपं प्राप्य यः स्नाति भारत ।
त्रिरात्रोपोषितो राजन्सर्वकाममवाप्नुयात् ५।
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् ।
विरजं तीर्थमासाद्य विराजति यथा शशी ६।
प्रभावे च कुलं पूत्वा सर्वपापं व्यपोहति ।
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ७।
शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्छुचिः ।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ८।
शोणस्य नर्मदायाश्च प्रभवे कुरुपुंगव ।
वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत् ९।
ऋषभं तीर्थमासाद्य कोशलायां नराधिप ।
वाजिमेधमवाप्नोति त्रिरात्रोपोषितो नरः १०।
कोशलायां समासाद्य कालतीर्थमुपस्पृशेत् ।
वृषभैकादशगुणं लभते नात्र संशयः ११।
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विंद्यात्कुलं चैव समुद्धरेत् १२।
ततो बदारिकातीर्थे स्नात्वा प्रयतमानसः ।
दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति १३।
ततो महेंद्रमासाद्य जामदग्न्यनिषेवितम् ।
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् १४।
मतंगस्य तु केदारं तत्रैव भरतर्षभ ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् १५।
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् ।
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति १६।
श्रीपर्वते महादेवो देव्या सह महाद्युतिः ।
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः १७।
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः ।
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति १८।
ऋषभं पर्वतं गत्वा भांडेषु सुरपूजितम् ।
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते १९।
ततो गच्छेत कावेरीं वृतामृप्सरसां गणैः ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् २०।
तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत् ।
तत्रोपस्पृश्य राजेंद्र सर्वपापैः प्रमुच्यते २१।
अथ गोकमर्णमासाद्य त्रिषुलोकेषु विश्रुतम् ।
समुद्रमध्ये राजेंद्र सर्वलोकनमस्कृतम् २२।
यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः ।
भूतयक्षाः पिशाचाश्च किन्नराः समहोरगाः २३।
सिद्धचारणगंधर्वा मानुषाः पन्नगास्तथा ।
सरितः सागराः शैला उपासंते उमापतिम् २४।
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः ।
दशाश्वमेधमाप्नोति गाणपत्यं च विंदति २५।
उपोष्य द्वादशरात्रं कृतार्थो जायते नरः ।
तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् २६।
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ।
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप २७।
गायत्रीं पठते यस्तु योनिसंकरजो द्विजः ।
गाथा वा गीतिका वाणी तस्य संपद्यते नृप २८।
अब्राह्मणस्य पठतः सावित्री तूपनश्यति ।
संवर्तस्य तु विप्रर्षे वापीमासाद्य दुर्ल्लभाम् २९।
रूपस्य भागी भवति सुभगश्चाभिजायते ।
ततो वेणां समासाद्य तर्पयेत्पितृदेवताः ३०।
मयूरहंससंयुक्तं विमानं लभते नरः ।
ततो गोदावरीं प्राप्य नित्यसिद्धनिषेविताम् ३१।
गवामयमवाप्नोति वायुलोकं च गच्छति ।
वेणायाः संगमे स्नात्वा वाजपेयफलं लभेत् ३२।
वरदासंगमं स्नात्वा गोसहस्रफलं लभेत् ।
ब्रह्मस्थूणां समासाद्य त्रिरात्रोपोषितो नरः ३३।
गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति ।
कुब्जावनं समासाद्य ब्रह्मचारी समाहितः ३४।
त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत् ।
ततो देवह्रदे स्नात्वा कृष्णवेणा जलोद्भवे ३५।
ज्योतिर्मात्र ह्रदे चैव तथा कन्याश्रमे नृप ।
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ३६।
अग्निष्टोमशतं विंद्याद्गमनादेव तत्र तु ।
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् ३७।
जातिमात्र ह्रदे स्नात्वा भवेज्जातिस्मरो नरः ।
शरभंगाश्रमं गत्वा शुकस्य च महात्मनः ३८।
पितृदेवार्चनरतो गोसहस्रफलं लभेत् ।
दंडकारण्यमासाद्य महाराज उपस्पृशेत् ३९।
शरभंगाश्रमं गत्वा शुकस्य च महात्मनः ।
न दुर्गतिमवाप्नोति पुनाति स्वकुलं नरः ४०।
ततः सूर्यारकं गच्छेज्जमदग्निनिषेवितम् ।
रामतीर्थं नरः स्नात्वा विंद्याद्बहुसुवर्णकम् ४१।
सप्तगोदावरीं स्नात्वा नियतो नियताशनः ।
महापुण्यमवाप्नोति देवलोकं च गच्छति ४२।
ततो देवपथं गच्छेन्नियतो नियताशनः ।
देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ४३।
तुंगकारण्यमासाद्य ब्रह्मचारी जितेंद्रियः ।
वेदानध्यापयत्तत्र मुनीन्सारस्वतः पुरा ४४।
तत्र वेदान्प्रणष्टांस्तु मुनेरांगिरसः सुतः ।
उपविष्टो महर्षीणामुत्तरीयेषु भारत ४५।
ॐकारेण यथान्यायं सम्यगुच्चारितेन ह ।
येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम् ४६।
ऋषयस्तत्र देवाश्च वरुणोऽग्निप्रजापतिः ।
हरिर्नारायणो देवो महादेवस्तथैव च ४७।
पितामहश्च भगवान्देवैस्सह महाद्युतिः ।
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ४८।
ततः स चक्रे भगवानृषीणां विधिवत्तदा ।
सर्वेषां पुनराधानं देवदृष्टेन कर्मणा ४९।
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि ।
देवास्त्रिभुवनं याता ऋषयश्च यथासुखम् ५०।
तदरण्यं प्रविष्टस्य तुंगकं राजसत्तम ।
पापं विनश्यते सद्यः स्त्रिया वै पुरुषस्य वा ५१।
तत्र मासं वसेद्धीरो नियतो नियताशनः ।
ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः ५२।
मेधावनं समासाद्य पितृदेवांश्च तर्पयेत् ।
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विंदति ५३।
तत्र कालंजरं गत्वा गोसहस्रफलं लभेत् ।
आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप ५४।
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ।
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते ५५।
मंदाकिनीं समासाद्य नदीं पापविमोचनीम् ।
अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ५६।
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ।
ततो गच्छेत राजेंद्र गुहस्थानमनुत्तमम् ५७।
यत्र देवो महासेनो नित्यं सन्निहितो नृप ।
पुमांस्तत्र नरःश्रेष्ठ गमनादेव सिध्यति ५८।
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।
प्रदक्षिणमुपावृत्य यशःस्थानं व्रजेन्नरः ५९।
अभिगम्य महादेवं विराजति यथा शशी ।
तत्र कूपो महाराज विश्रुतो भरतर्षभ ६०।
समुद्रा यत्र चत्वारो निवसंति युधिष्ठिर ।
ततोपस्पृश्य राजेंद्र कृत्वा चापि प्रदक्षिणम् ६१।
नियतात्मा नरः पूतो गच्छेत परमां गतिम् ।
ततो गच्छेत्कुरुश्रेष्ठ शृंगवेरपुरं महत् ६२।
यत्र तीर्णो महाप्राज्ञो रामो दाशरथिः पुरा ।
गंगायां तु नरः स्नात्वा ब्रह्मचारी जितेंद्रियः ६३।
विधूतपाप्मा भवति वाजपेयं च विंदति ।
ततो मुंजवटं गछेत्स्थानं देवस्य धीमतः ६४।
अभिगम्य महादेवमभ्यर्च्य च नराधिप ।
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ६५।
ततो गच्छेत राजेंद्र प्रयागमृषिसंस्तुतम् ।
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ६६।
लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा ।
सनत्कुमारप्रमुखास्तथैव च महर्षयः ६७।
तथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा ।
सरितः सागराश्चैव गंधर्वाप्सरसस्तथा ६८।
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।
तत्र त्रीण्यपि कुंडानि तयोर्मध्येन जाह्नवी ६९।
प्रयागात्समतिक्रांता सर्वतीर्थपुरस्कृता ।
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ७०।
यमुनागंगया सार्द्धं संगता लोकभाविनी ।
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ७१।
प्रयागं जघनस्यांतमुपस्थमृषयो विदुः ।
प्रयागं सुप्रतिष्ठानं कंबलाश्वतरावुभौ ७२।
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ।
तत्र वेदाश्च यज्ञाश्च मूर्त्तिमंतो युधिष्ठिर ७३।
प्रजापतिमुपासंत ऋषयश्च महानघाः ।
यजंते क्रतुभिर्देवांस्तथा चक्रधरा नृप ७४।
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ।
प्रयागं सर्वतीर्थेभ्यः प्रभावेणाधिकं प्रभो ७५।
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि ।
मूर्धका नमनाद्वापि सर्वपापैः प्रमुच्यते ७६।
तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः ।
पुण्यं सुमहदाप्नोति राजसूयाश्वमेधयोः ७७।
एषा यजनभूमिर्हि देवानामपि तत्कथा ।
दत्तं तत्र स्वल्पमपि महद्भवति भारत ७८।
न देववचनात्तात न लोकवचनादपि ।
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ७९।
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।
येषां सान्निध्यमत्रैव कीर्त्तितं कुरुनंदन ८०।
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् ।
स्नातएवतदाप्नोतिगंगायामुनसंगमे ८१।
ततो भोगवती नाम वासुकेस्तीर्थमुत्तमम् ।
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ८२।
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् ।
दशाश्वमेधिकं चैव गंगायां कुरुनंदन ८३।
कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता ।
विशेषो वै कनखले प्रयागं परमं महत् ८४।
यद्यकार्यशतं कृत्वा कृतं गंगावसेवनम् ।
सर्वं तत्तस्य गंगापो दहत्यग्निरिवेंधनम् ८५।
सर्वं दहति गंगापस्तूलराशिमिवानलः ।
सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ८६।
द्वापरे तु कुरुक्षेत्रं गंगा कलियुगे स्मृता ।
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ८७।
मलये त्वग्निमारोहेद्भृगुतुंगे त्वनाशनम् ।
पुष्करे तु कुरुक्षेत्रे गंगापो मध्यगेषु च ८८।
सद्यस्तारयते जंतुः सप्तसप्तावरांस्तथा ।
पुनाति कीर्त्तिता पापं दृष्ट्वा पुण्यं प्रयच्छति ८९।
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् ।
यावदस्थि मनुष्यस्य गंगायाः स्पृशते जलम् ९०।
तावत्स पुरुषो राजन्स्वर्गलोके महीयते ।
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ९१।
उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक् ।
न गंगा सदृशं तीर्थं न देवः केशवात्परः ९२।
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ।
यत्र गंगा महाराज स देशस्तत्र योजनम् ९३।
सिद्धक्षेत्रं च विज्ञेयं गंगातीरसमाश्रितम् ।
इदं सत्यं द्विजातीनां साधूनां मानसेषु च ९४।
मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च ।
इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् ९५।
इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम् ।
महीशीर्षमिदं गुह्यं सर्वपापप्रमोचनम् ९६।
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ।
श्रीमत्स्वर्ग्यं महापुण्यं सपत्नशमनं शिवम् ९७।
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्त्तनम् ।
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ९८।
महीं विजयते राजा वैश्यो धनमवाप्नुयात् ।
शूद्रो यातीप्सितान्कामान्ब्राह्मणः पारगः पठन् ९९।
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचि ।
जातिस्मरत्वमाप्नोति नाकपृष्ठे च मोदते १००।
गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि ।
मनसाप्यभिगच्छेत सर्वतीर्थमनीषया १०१।
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।
ऋषिभिर्देवकल्पैश्च कृतानि सुकृतैषिभिः १०२।
एवं त्वमपि कौरव्य विधिनानेन सुव्रत ।
व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्द्धते १०३।
भावितैः करणैः पूर्वमास्तिक्याछ्रुतिदर्शनात् ।
प्राप्यंते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः १०४।
नाकृतो नाकृतात्मा च नाशुचिर्न च तस्करः ।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः १०५।
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना ।
पितरस्तर्पितास्तात सर्वे च प्रपितामहाः ।
पितामहपुरोगाश्च देवाः सर्षिगणास्तथा १०६।
वसिष्ठ उवाच-
त्वं च धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ।
दिलीपकीर्तिं महतीं प्राप्स्यसे भुवि शाश्वतीम् १०७।
नारद उवाच-
एवमुक्त्वाभ्यनुज्ञाप्य वसिष्ठो भगवानृषिः ।
प्रीतः प्रीतेनमनसा तत्रैवांतरधीयत १०८।
दिलीपः कुरुशार्दूल शास्त्रतत्त्वार्थदर्शनात् ।
वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे १०९।
एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता ।
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ११०।
अनेन विधिना यस्तु पृथिवीं पर्यटिष्यति ।
अश्वमेधशतं साग्रं फलं प्रेत्यैष भोक्ष्यते १११।
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् ।
दिलीपः पार्थ नृपतिर्यथापूर्वमवाप्तवान् ११२।
नेता च त्वमृषीन्यस्मात्तस्मात्तेष्टगुणं फलम् ।
रक्षोगणविकीर्णानि तीर्थान्येतानि भारत ११३।
न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनंदन ।
इदं देवर्षिचरितं सर्वतीर्थानुसंश्रितम् ११४।
यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ।
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः ११५।
आत्रेयस्त्वथ कौंडिन्यो विश्वामित्रोऽथ गौतमः ।
असितो देवलश्चैव मार्कंडेयोऽथ गालवः ११६।
भरद्वाजस्य शिष्यश्च मुनिरुद्दालकस्तथा ।
शौनकः सह पुत्रेण व्यासश्च तपतां वरः ११७।
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः ।
एते ऋषिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः ११८।
एभिः सह महाभाग तीर्थान्येतान्यनुव्रज ।
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ११९।
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः ।
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे १२०।
यथा भगीरथो राजा यथा रामश्च विश्रुतः ।
यथा वै वृत्रहा सर्वान्सपत्नानदहत् पुरा १२१।
त्रैलोक्यं पालयामास देवराट्विगतज्वरः ।
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि १२२।
स्वधर्मेणार्जितामुर्वीं प्राप्य राजीवलोचन ।
ख्यातिं यास्यसि वीर्येण कार्त्तवीर्यार्जुनो यथा १२३।
सूत उवाच-
एवमाभाष्य राजानं नारदो भगवानृषिः ।
अनुज्ञाप्य महाराजं तत्रैवांतरधीयत १२४।
युधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः ।
जगामाखिलतीर्थानि सादरः पृथिवीपतिः १२५।
मयोक्तामृषयः सर्वे तीर्थयात्राश्रयां कथाम् ।
यः पठेच्छृणुयाद्वापि स मुक्तः सर्वपातकैः १२६।
मयोक्तमखिलं तत्त्वं किं भूयः श्रोतुमिच्छथ ।
ऋषीणां पुण्यकीर्तीनां नावक्तव्यं ममास्ति वै १२७।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे नानाविधतीर्थकथनं।
नाम नवत्रिंशोऽध्यायः ३९।