पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५७

व्यास उवाच-
अथातः संप्रवक्ष्यामि दानधर्म्ममनुत्तमम् ।
ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् १।
अर्थानामुचितं पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् २।
यो ददाति विशिष्टेभ्यः श्रद्धया परया युतः ।
तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति ३।
नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ४।
अहन्यहनि यत्किंचिद्दीयते नुपकारिणे ।
अनुद्दिश्यफलं तस्माद्ब्राह्मणाय तु नित्यकम् ५।
यत्तु पापोपशांत्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् ६।
अपत्यविजयैश्वर्य सुखार्थं यत्प्रदीयते ।
दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिंतकैः ७।
यदीश्वरस्य प्रीत्यर्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ८।
दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।
उपास्यते तु तत्पात्रं यत्तारयति सर्वतः ९।
कुटुंबभुक्तिवसनाद्देयं यदतिरिच्यते ।
अन्यथा दीयते यद्वै न तद्दानं फलप्रदम् १०।
श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ११।
यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।
स याति परमं स्थानं यत्र गत्वा न शोचति १२।
इक्षुभिः संयुतां भूमिं यवगोधूमशालिनीम् ।
ददाति वेदविदुषे यः स भूयो न जायते १३।
गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति ।
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते १४।
भूमिदानात्परं दानं विद्यते नेह किंचन ।
अन्नदानं तेन तुल्यं विद्यादानं ततोधिकम् १५।
यो ब्राह्मणाय शांताय शुचये धर्मशीलिने ।
ददाति विद्यां विधिना ब्रह्मलोके महीयते १६।
दद्यादहरहः स्वर्णं श्रद्धया ब्रह्मचारिणे ।
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् १७।
गृहस्थायान्नदानेन फलमाप्नोति मानवः ।
अन्नमेवास्य दातव्यं दत्वाप्नोति परां गतिम् १८।
वैशाख्यां पूर्णमास्यां तु ब्राह्मणान्सप्त पंच वा ।
उपोष्य विधिना शांतः शुचिः प्रयतमानसः १९।
पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।
प्रीयतां धर्मराजेति यदा मनसि वर्त्तते २०।
यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति ।
कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी २१।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ।
घृतान्नमुदकुंभं च वैशाख्यां तु विशेषतः २२।
निर्द्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ।
सुवर्णतिलयुक्तैस्तु ब्राह्मणान्सप्त पंच वा २३।
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ।
माघमासे तमिस्रे तु द्वादश्यां समुपोषितः २४।
शुक्लांबरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।
प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः २५।
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ।
अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने २६।
यत्किंचिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम् ।
प्रीयतामीश्वरो विष्णुर्हृषीकेशः सनातनः २७।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।
यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् २८।
आराधयेद्द्विजमुखेन तस्यास्ति पुनर्भवः ।
कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये २९।
स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ।
प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ३०।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ।
द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ३१।
अमावास्यां तथा भक्तैः पूजनीयस्त्रिविक्रमः ।
एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ३२।
अर्चयेद्ब्राह्मणमुखे स गच्छेत्परमं पदम् ।
एषा तिथिर्वैष्णवी स्याद्द्वादशी शुक्लपक्षतः ३३।
तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम् ।
यत्किंचिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ३४।
दीयते विष्णुमेवापि तदनंतफलं स्मृतम् ।
यो हि यां देवतामिच्छेत्समाराधयितुं नरः ३५।
ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः ।
द्विजानां वपुरास्थाय नित्यं तिष्ठंति देवताः ३६।
पूज्यंते ब्राह्मणा लाभे प्रतिमादिषु तैः क्वचित् ।
प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सता ३७।
द्विजेषु देवता नित्यं पूजनीया विशेषतः ।
विभूतिकामः सततं पूजयेद्धि पुरंदरम् ३८।
ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः ।
आरोग्यकामोथ रविं धनकामो हुताशनम् ३९।
कर्म्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् ।
भोगकामस्तु शशिनं बलकामः समीरणम् ४०।
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् ।
यस्तु योगं तथा मोक्षमन्विच्छेऽज्ज्ञानमैश्वरम् ४१।
अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम् ।
ये वांच्छंति महाभोगान्ज्ञानानि च महेश्वरम् ४२।
ते पूजयंति भूतेशं केशवं चापि भोगिनः ।
वारिदस्तृप्तिमाप्नोति जलदानं ततोधिकम् ४३।
तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ४४।
गृहदाताग्र्यवेश्मानि रूप्यदो रूपमुत्तमम् ।
वासोदश्चंद्रसालोक्यमश्वदो यानमुत्तमम् ४५।
अन्नदाता श्रियं स्वेष्टां गोदो ब्राह्मणविष्टपम् ।
यानशय्याप्रदो भार्य्यामैश्वर्यमभयप्रदः ४६।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम् ।
धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ४७।
वेदविद्याविशिष्टेषु प्रेत्य स्वर्गं समश्नुते ।
गवां चान्नप्रदानेन सर्वपापैः प्रमुच्यते ४८।
इंधनानां प्रदानेन दीप्ताग्निर्जायते नरः ।
फलमूलानि पानानि शाकानि विविधानि च ४९।
प्रदद्याद्ब्राह्मणेभ्यस्तु मुदायुक्तः सदा भवेत् ।
औषधं स्नेहमाहारं रोगिणो रोगशांतये ५०।
ददानो रोगरहितः सुखी दीर्घायुरेव च ।
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ५१।
तीक्ष्णतापं च तरति छत्रोपानत्प्रदो नरः ।
यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे ५२।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ।
अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः ५३।
संक्रांत्यादिषु कालेषु दत्तं भवति चाक्षयम् ।
प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ५४।
दत्वा चाक्षयमाप्नोति नदीप्रस्रवणेषु च ।
दानधर्मात्परो धर्मो भूतानां नेह विद्यते ५५।
तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ।
स्वर्गाय भूतिकामेन तथा पापोपशांतये ५६।
मुमुक्षुणा तु दातव्यं ब्राह्मणेभ्यस्तथान्वहम् ।
दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च ५७।
निवारयत्यधर्मात्मा तिर्यग्योनिं व्रजेत सः ।
यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्ब्राह्मणान्सुरान् ५८।
सर्वस्वमपहृत्यैनं राजा राष्ट्रात्प्रवासयेत् ।
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ५९।
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ।
न तस्मात्प्रतिगृह्णीयुः न वसेयुश्च तेन हि ६०।
आज्ञायित्वा स्वकाद्राष्ट्राद्राजा तं विप्रवासयेत् ।
पश्चात्सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् ६१।
सपूर्वाभ्यधिकः पापी नरके पच्यते नरः ।
स्वाध्यायवंतो ये विप्रा विद्यावंतो जितेंद्रियाः ६२।
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्द्विजोत्तमाः ।
प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् ६३।
न च मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ।
सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ६४।
स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ।
यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ६५।
तस्मै यत्नेन दातव्यमतिक्रम्य च सन्निधिम् ।
योर्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च ६६।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ।
न वार्यपि प्रयच्छेत नास्तिके हैतुकेपि च ६७।
न पाखंडेषु सर्वेषु नावेदविदिधर्मवित् ।
रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान् ६८।
अविद्वान्प्रतिगृह्णीयाद्भस्मी भवति काष्ठवत् ।
द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोतमः ६९।
अपि राजन्यवैश्याभ्यां न तु शूद्रात्कथंचन ।
वृत्तिसंकोचमन्विच्छेन्नेहेत धनविस्तरम् ७०।
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ।
वेदानधीत्य सकलान्यज्ञांश्चावाप्य सर्वशः ७१।
न तां गतिमवाप्नोति संतोषाद्यामवाप्नुयात् ।
प्रतिग्रहरुचिर्न स्याच्छूद्रान्न तु समाहरेत् ७२।
स्थित्यर्थादधिकं गृह्णन्ब्राह्मणो यात्यधोगतिम् ।
यस्तु याति न संतोषं न स स्वर्गस्य भाजनम् ७३।
उद्वेजयति भूतानि यथा चौरस्तथैव सः ।
गुरुं भृत्यांश्चोज्जिहीर्षुस्तर्पयन्देवतातिथीन् ७४।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ।
एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः ७५।
वर्तमानः संयतात्मा याति तत्परमं पदम् ।
पुत्रेषु भार्यां निक्षिप्य गत्वारण्यं तु तत्त्ववित् ७६।
एकाकी विचरेन्नित्यमुदासीनः समाहितः ।
एष वः कथितो धर्म्मो गृहस्थानां द्विजोत्तमाः ।
ज्ञात्वा तु तिष्ठेन्नियतं तथानुष्ठापयेद्द्विजान् ७७।
इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम् ।
समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ७८।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे गृहस्थधर्मनिर्णयो नाम सप्तपंचाशत्तमोऽध्यायः ५७।