पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ६०
व्यास उवाच-
एवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।
भैक्ष्येण वर्तनं प्रोक्तं फलमूलैरथापि वा १।
एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरम् ।
भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति २।
सप्तागारं चरेद्भैक्ष्यमलाभे न पुनश्चरेत् ।
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ३।
भिक्षेत्युक्त्वा सकृत्तूष्णीमादद्याद्वाग्यतः शुचिः ।
प्रक्ष्याल्य पाणी पादौ च समाचम्य यथाविधि ४।
आदित्यं दर्शयित्वान्नं भुंजीत प्राङ्मुखो नरः ।
हुत्वा प्राणाहुतीः पंच ग्रासानष्टौ समाहितः ५।
आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम् ।
आलाबुदारुपात्रे च मृण्मयं वैणवं तथा ६।
चत्वारि यतिपात्राणि मनुराह प्रजापतिः ।
प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च ७।
संध्यासूक्तिविशेषेण चिंतयेन्नित्यमीश्वरम् ।
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ८।
आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम् ।
सर्वस्याधारमव्यक्तमानंदं ज्योतिरव्ययम् ९।
प्रधानपुरुषातीतमाकाशं दहनं शिवम् ।
तदंतं सर्वभावानामीश्वरं ब्रह्मरूपिणम् १०।
ॐकारांतेथवात्मानं समाप्य परमात्मनि ।
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ११।
कारणं सर्वभावानामानंदैकसमाश्रयम् ।
पुराणपुरुषं विष्णुं ध्यायन्मुच्येत बंधनात् १२।
यद्वा गुहादौ प्रकृतौ जगत्संमोहनालये ।
विचिंत्य परमं व्योम सर्वभूतैककारणम् १३।
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।
आनंदं ब्रह्मणः सूक्ष्मं यत्पश्यंति मुमुक्षवः १४।
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
अनंतं सत्यमीशानं विचिंत्यासीत वाग्यतः १५।
गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।
योवतिष्ठेत्सदानेन सोश्नुते योगमैश्वरम् १६।
तस्माज्ज्ञानरतो नित्यमात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद्ब्रह्म येन मुच्येत बंधनात् १७।
मत्वा पृथक्त्वमात्मानं सर्वस्मादेव केवलम् ।
आनंदमक्षरं ज्ञानं ध्यायेत च ततः परम् १८।
यस्माद्भवंति भूतानि यज्ज्ञात्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्ताद्योधितिष्ठति १९।
यदंतरे तद्गमनं शाश्वतं शिवमव्ययम् ।
य इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः २०।
व्रतानि यानि भिक्षूणां तथैवायं व्रतानि च ।
एकैकातिक्रमेणैव प्रायश्चित्तं विधीयते २१।
उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः ।
प्राणायामसमायुक्तं कुर्य्यात्सांतपनं शुचिः २२।
ततश्चरेत नियमात्कृच्छ्रं संयतमानसः ।
पुनराश्रममागम्य चरेद्भिक्षुरतंद्रितः २३।
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि च न कर्तव्यः प्रसंगो ह्येष दारुणः २४।
एकरात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना २५।
परमापद्गतेनापि न कार्यं स्तेयमन्यतः ।
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः २६।
हिंसा चैवापरा तृष्णा याच्ञात्मज्ञाननाशिका ।
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः २७ द्रविण।
स तस्य हरते प्राणान्यो यस्य हरते धनम् ।
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रतच्युतः २८।
भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतंद्रितः ।
अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् २९।
कुर्यात्कृच्छ्रातिकृच्छ्रं तु चांद्रायणमथापि वा ।
स्कंदेतेंद्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि ३०।
तेन धारयितव्या वै प्राणायामास्तु षोडश ।
दिवास्कंदे त्रिरात्रं स्यात्प्राणायामशतं बुधाः ३१।
एकान्ने मधुमांसे च नवश्राद्धे तथैव च ।
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ३२।
ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।
तस्मान्नारायणं ध्यात्वा तस्य ध्यानपरो भवेत् ३३।
यद्ब्रह्मणः परं ज्योतिः प्रविष्टाक्षरमव्ययम् ।
योंतरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः ३४।
एष देवो महादेवः केवलः परमं शिवः ।
तदेवाक्षरमद्वैतं तदा नित्यं परं पदम् ३५।
तस्मान्महीयते देवे स्वधाम्नि ज्ञानसंज्ञिते ।
आत्मयोगात्परे तत्वे महादेवस्ततः स्मृतः ३६।
नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति ।
तमेवात्मानमन्वेति यः स याति परं पदम् ३७।
मन्यंते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यंति तं देवं वृथा तेषां परिश्रमः ३८।
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।
स देवस्तु महादेवो नैतद्विज्ञाय बध्यते ३९।
तस्माद्यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शांतो महादेवपरायणः ४०।
एष वः कथितो विप्रा यतीनामाश्रमः शुभः ।
पितामहेन मुनिना विभुना पूर्वमीरितः ४१।
नापुत्रशिष्ययोगिभ्यो दद्यादेवमनुत्तमम् ।
ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्म्माश्रयं शिवम् ४२।
इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः ।
न भवति पुनरेषामुद्भवो वा विनाशः प्रतिहितमनसो ये नित्यमेवाचरंति ४३।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्टितमोऽध्यायः ६०।