पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ६१
सूत उवाच-
एवमुक्ता पुरा विप्रा व्यासेनामिततेजसा ।
एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः १।
समाश्वास्य मुनीन्सर्वान्जगाम च यथागतम् ।
भवद्भ्यस्तु मया प्रोक्तं वर्णाश्रमविधानकम् २।
एवं कृत्वा प्रियो विष्णोर्भवत्येव न चान्यथा ।
रहस्यं तत्र वक्ष्यामि शृणुत द्विजसत्तमाः ३।
ये चात्र कथिता धर्मा वर्णाश्रमनिबंधनाः ।
हरिभक्तिकलांशांश समाना न हि ते द्विजाः ४।
पुंसामेकेह वै साध्या हरिभक्तिः कलौ युगे ।
युगांतरेण धर्मा हि सेवितव्या नरेण हि ५।
कलौ नारायणं देवं यजते यः स धर्म्मभाक् ।
दामोदरं हृषीकेशं पुरुहूतं सनातनम् ६।
हृदि कृत्वा परं शांतं जितमेव जगत्त्रयम् ।
कलिकालोरगादंशात्किल्बिषात्कालकूटतः ७।
हरिभक्तिसुधां पीत्वा उल्लंघ्यो भवति द्विजः ।
किं जपैः श्रीहरेर्नाम गृहीतं यदि मानुषैः ८।
किं स्नानैर्विष्णुपादांबु मस्तके येन धार्यते ।
किं यज्ञेन हरेः पादपद्मं येन धृतं हृदि ९।
किं दानेन हरेः कर्म सभायां वै प्रकाशितम् ।
हरेर्गुणगणान्श्रुत्वा यः प्रहृष्येत्पुनः पुनः १०।
समाधिना प्रहृष्टस्य सा गतिः कृष्णचेतसः ।
तत्र विघ्नकराः प्रोक्ताः पाखंडालापपेशलाः ११।
नार्यस्तत्संगिनश्चापि हरिभक्तिविघातकाः ।
नारीणां नयनादेशः सुराणामपि दुर्जयः १२।
स येन विजितो लोके हरिभक्तः स उच्यते ।
माद्यंति मुनयोप्यत्र नारीचरितलोलुपाः १३।
हरिभक्तिः कुतः पुंसां नारीभक्तिजुषां द्विजाः ।
राक्षस्यः कामिनीवेषाश्चरंति जगति द्विजाः ।
नराणां बुद्धिकवलं कुर्वंति सततं हिताः १४।
तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते ।
तावत्सुनिर्मला मेधा सर्वशास्त्रविधारिणी १५।
तावज्जपस्तपस्तावत्तावतीर्थनिषेवणम् ।
तावच्च गुरुशुश्रूषा तावद्धि तरणे मतिः १६।
तावत्प्रबोधो भवति विवेकस्तावदेव हि ।
तावत्सतां संगरुचिस्तावत्पौराणलालसा १७।
यावत्सीमंतिनी लोलनयनांदोलनं नहि ।
जनोपरि पतेद्विप्राः सर्वधर्मविलोपनम् १८।
तत्र ये हरिपादाब्जमधुलेशप्रसादिताः ।
तेषां न नारीलोलाक्षिक्षेपणं हि प्रभुर्भवेत् १९।
जन्मजन्म हृषीकेश सेवनं यैः कृतं द्विजाः ।
द्विजे दत्तं हुतं वह्नौ विरतिस्तत्र तत्र हि २०।
नारीणां किल किं नाम सौंदर्य्यं परिचक्षते ।
भूषणानां च वस्त्राणां चाकचक्यं तदुच्यते २१।
स्नेहात्मज्ञानरहितं नारीरूपं कुतः स्मृतम् ।
पूयमूत्रपुरीषासृक्त्वङ्मेदोस्थिवसान्वितम् २२।
कलेवरं हि तन्नाम कुतः सौंदर्य्यमत्र हि ।
तदेवं पृथगाचिंत्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत् २३।
तैः संहितं शंरीरं हि दृश्यते सुंदरं जनैः ।
अहोतिदुर्दशा नॄणां दुर्दैव घटिता द्विजाः २४।
कुचावृतेंगे पुरुषो नारी बुद्ध्वा प्रवर्त्तते ।
का नारी वा पुमान्को वा विचारे सति किंचन २५।
तस्मात्सर्वात्मना साधुर्नारीसंगं विवर्जयेत् ।
को नाम नारीमासाद्य सिद्धिं प्राप्नोति भूतले २६।
कामिनी कामिनीसंगि संगमित्यपि संत्यजेत् ।
तत्संगाद्रौरवमिति साक्षादेव प्रतीयते २७।
अज्ञानाल्लोलुपा लोकास्तत्र दैवेन वंचिताः ।
साक्षान्नरककुंडेस्मिन्नारीयोनौ पचेन्नरः २८।
यत एवागतः पृथ्व्यां तस्मिन्नेव पुना रमेत् ।
यतः प्रसरते नित्यं मूत्रं रेतो मलोत्थितम् २९।
तत्रैव रमते लोकः कस्तस्मादशुचिर्भवेत् ।
तत्रातिकष्टं लोकेस्मिन्नहो दैवविडंबना ३०।
पुनः पुना रमेत्तत्र अहो निस्त्रपता नृणाम् ।
तस्माद्विचारयेद्धीमान्नारीदोषगणान्बहून् ३१।
मैथुनाद्बलहानिः स्यान्निद्राति तरुणायते ।
निद्रयापहृतज्ञानः स्वल्पायुर्जायते नरः ३२।
तस्मात्प्रयत्नतो धीमान्नारीं मृत्युमिवात्मनः ।
पश्येद्गोविंदपादाब्जे मनो वै रमयेद्बुधः ३३।
इहामुत्र सुखं तद्धि गोविंदपदसेवनम् ।
विहाय को महामूढो नारीपादं हि सेवते ३४।
जनार्द्दनांघ्रिसेवा हि ह्यपुनर्भवदायिनी ।
नारीणां योनिसेवा हि योनिसंकटकारिणी ३५।
पुनःपुनः पतेद्योनौ यंत्रनिष्पाचितो यथा ।
पुनस्तामेवाभिलषेद्विद्यादस्य विडंबनम् ३६।
ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः ।
गोविंदे धेहि हृदयं न योनौ यातनाजुषि ३७।
नारीसंगं परित्यज्य यश्चापि परिवर्त्तते ।
पदेपदेश्वमेधस्य फलमाप्नोति मानवः ३८।
कुलांगना दैवयोगादूढा यदि नृणां सती ।
पुत्रमुत्पाद्य यस्तत्र तत्संगं परिवर्जयेत् ३९।
तस्य तुष्टो जगन्नाथो भवत्येव न संशयः ।
नारीसंगो हि धर्मज्ञैरसत्संगः प्रकीर्त्यते ४०।
तस्मिन्सति हरौ भक्तिः सुदृढा नैव जायते ।
सर्वसंगं परित्यज्य हरौ भक्तिं समाचरेत् ४१।
हरिभक्तिश्च लोकेत्र दुर्ल्लभा हि मता मम ।
हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः ४२।
तत्तदेवाचरेत्कर्म हरिः प्रीणाति येन हि ।
तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ४३।
हरौ भक्तिं विना नॄणां वृथा जन्म प्रकीर्तितम् ।
ब्रह्मेशादि सुरा यस्य यजंते प्रीतिहेतवे ४४।
नारायणमनाव्यक्तं न तं सेवेत को जनः ।
तस्य माता महाभागा पिता तस्य महाकृती ४५।
जनार्द्दनपदद्वंद्वं हृदये येन धार्यते ।
जनार्दनजगद्वंद्य शरणागतवत्सल ४६।
इतीरयंति ये मर्त्या न तेषां निरये गतिः ।
ब्राह्मणा हि विशेषेण प्रत्यक्षं हरिरूपिणः ४७।
पूजयेयुर्यथायोगं हरिस्तेषां प्रसीदति ।
विष्णुर्ब्राह्मणरूपेण विचरेत्पृथिवीमिमाम् ४८।
ब्राह्मणेन विना कर्म्म सिद्धिं प्राप्नोति नैव हि ।
द्विजपादांबुभक्त्या यैः पीत्वा शिरसि चार्पितम् ४९।
तर्पिता पितरस्तेन आत्मापि किल तारितः ।
ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितम् ५०।
साक्षात्कृष्णमुखे दत्तं तद्वै भुंक्ते हरिः स्वयम् ।
अहोतिदुर्ल्लभा लोका प्रत्यक्षे केशवे द्विजे ५१।
प्रतिमादिषु सेवंते तदभावे हि तत्क्रिया ।
ब्राह्मणानामधिष्ठानात्पृथ्वी धन्येति गीयते ५२।
तेषां पाणौ च यद्दत्तं हरिपाणौ तदर्पितम् ।
तेभ्यः कृतान्नमस्कारात्तिरस्कारो हि पाप्मताम् ५३।
मुच्यते ब्रह्महत्यादि पापेभ्यो विप्रवंदनात् ।
तस्मात्सतां समाराध्यो ब्राह्मणो विष्णुबुद्धितः ५४।
क्षुधितस्य द्विजस्यास्ये यत्किंचिद्दीयते यदि ।
प्रेत्य पीपूषधाराभिः सिंचते कल्पकोटिकम् ५५।
द्विजतुंडं महाक्षेत्रमनूषरमकंटकम् ।
तत्र चेदुप्यते किंचित्कोटिकोटिफलं लभेत् ५६।
सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते ।
नानासुमिष्टमन्नं यो ददाति द्विजतुष्टये ५७।
तस्य लोका महाभोगाः कोटिकल्पांतमुक्तिदाः ।
ब्राह्मणं च पुरस्कृत्य ब्राह्मणेनानुकीर्तितम् ५८।
पुराणं शृणुयान्नित्यं महापापदवानलम् ।
पुराणं सर्वतीर्थेषु तीर्थं चाधिकमुच्यते ५९।
यस्यैकपादश्रवणाद्धरिरेव प्रसीदति ।
यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः ६०।
सर्वेषां जगतामेव हरिरालोकहेतवे ।
तथैवांतःप्रकाशाय पुराणावयवो हरिः ६१।
विचरेदिह भूतेषु पुराणं पावनं परम् ।
तस्माद्यदि हरेः प्रीतेरुत्पादे धीयते मतिः ६२।
श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणम् ।
विष्णुभक्तेन शांतेन श्रोतव्यमपि दुर्लभम् ६३।
पुराणाख्यानममलममलीकरणं परम् ।
यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा ६४।
पुराणं निर्मितं विप्र तस्मात्तत्परमो भवेत् ।
पुराणे निश्चितो धर्मो धर्मश्च केशवः स्वयम् ६५।
तस्मात्कृते पुराणे हि श्रुते विष्णुर्भवेदिति ।
साक्षात्स्वयं हरिर्विप्रः पुराणं च तथाविधम् ६६।
एतयोः संगमासाद्य हरिरेव भेवन्नरः ।
तथा गंगांबुसेकेन नाशयेत्किल्बिषं स्वकम् ६७।
केशवो द्रवरूपेण पापात्तारयते महीम् ।
वैष्णवो विष्णुभजनस्याकांक्षी यदि वर्तते ६८।
गंगांबुसेकममलममलीकरणं चरेत् ।
विष्णुभक्तिप्रदा देवी गंगा भुवि च गीयते ६९।
विष्णुरूपा हि सा गंगा लोकविस्तारकारिणी ७०।
ब्राह्मणेषु पुराणेषु गंगायां गोषु पिप्पले ।
नारायणधिया पुंभिर्भक्तिः कार्या ह्यहैतुकी ७१।
प्रत्यक्षविष्णुरूपा हि तत्वज्ञैर्निश्चिता अमी ।
तस्मात्सततमभ्यर्च्या विष्णुभक्त्यभिलाषिणा ७२।
विष्णौ भक्तिं विना नॄणां निष्फलं जन्म उच्यते ।
कलिकालपयोराशिं पापग्राहसमाकुलम् ७३।
विषयामज्जनावर्तं दुर्बोधफेनिलं परम् ।
महादुष्टजनव्याल महाभीमं भयानकम् ७४।
दुस्तरं च तरंत्येव हरिभक्तितरि स्थिताः ।
तस्माद्यतेत वै लोको विष्णुभक्तिप्रसाधने ७५।
किं सुखं लभते जंतुरसद्वार्तावधारणे ।
हरेरद्भुतलीलस्य लीलाख्यानेन सज्जते ७६।
तद्विचित्रकथालोके नानाविषयमिश्रिताः ।
श्रोतव्या यदि वै नॄणां विषये सज्जते मनः ७७।
निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः ।
हेलया श्रवणाच्चापि तस्य तुष्टो भवेद्धरिः ७८।
निष्क्रियोपि हृषीकेशो नानाकर्म चकार सः ।
शुश्रूषूणां हितार्थाय भक्तानां भक्तवत्सलः ७९।
न लभ्यते कर्मणापि वाजपेयशतादिना ।
राजसूयायुतेनापि यथा भक्त्या स लभ्यते ८०।
यत्पदं चेतसा सेव्यं सद्भिराचरितं मुहुः ।
भवाब्धितरणे सारमाश्रयध्वं हरेः पदम् ८१।
रे रे विषयसंलुब्धाः पामरा निष्ठुरा नराः ।
रौरवे हि किमात्मानमात्मना पातयिष्यथ ८२।
विना गोविंदसौम्यांघ्रिसेवनं मा गमिष्यति ।
अनायासेन दुःखानां तरणं यदि वांछथ ८३।
भजध्वं कृष्णचरणावपुनर्भवकारणे ।
कुत एवागतो मर्त्यः कुत एव पुनर्व्रजेत् ८४।
एतद्विचार्य मतिमानाश्रयेद्धर्मसंग्रहम् ।
नानानरकसंपातादुत्थितो यदि पूरुषः ८५।
स्थावरादि तनुं लब्ध्वा यदि भाग्यवशात्पुनः ।
मानुष्यं लभते तत्र गर्भवासोतिदुःखदः ८६।
ततः कर्मवशाज्जंतुर्यदि वा जायते भुवि ।
बाल्यादिबहुदोषेण पीडितो भवति द्विजाः ८७।
पुनर्यौवनमासाद्य दारिद्र्येण प्रपीड्यते ।
रोगेण गुरुणा वापि अनावृष्ट्यादिना तथा ८८।
वार्द्धकेन लभेत्पीडामनिर्वाच्यामितस्ततः ।
मनसश्चलनाद्व्याधेस्ततो मरणमाप्नुयात् ८९।
न तस्मादधिकं दुःखं संसारेप्यनुभूयते ।
ततः कर्म्मवशाज्जंतुर्यमलोके प्रपीड्यते ९०।
तत्रातियातनां भुक्त्वा पुनरेव प्रजायते ।
जायते म्रियते जंतु म्रियते जायते पुनः ९१।
अनाराधित गोविंदचरणे त्वीदृशी दशा ।
अनायासेन मरणं विनायासेन जीवनम् ९२।
अनाराधितगोविंदचरणस्य न जायते ।
धनं यदि भवेद्गेहे रक्षणात्तस्य किं फलम् ९३।
यदासौ कृष्यते याम्यैर्दूतैः किं धनमन्वियात् ।
तस्माद्द्विजातिसत्कार्यं द्रविणं सर्वसौख्यदम् ९४।
दानं स्वर्गस्य सोपानं दानं किल्बिषनाशनम् ।
गोविंदभक्तिभजनं महापुण्यविवर्द्धनम् ९५।
बलं यदि भवेन्मर्त्ये न वृथा तद्व्ययं चरेत् ।
हरेरग्रे नृत्यगीतं कुर्यादेवमतंद्रितः ९६।
यत्किंचिद्विद्यते पुंसां तच्च कृष्णे समर्पयेत् ।
कृष्णार्पितं कुशलदमन्यार्पितमसौख्यदम् ९७।
चक्षुर्भ्यां श्रीहरेरेव प्रतिमादिनिरूपणम् ।
श्रोत्राभ्यां कलयेत्कृष्ण गुणनामान्यहर्निशम् ९८।
जिह्वया हरिपादांबु स्वादितव्यं विचक्षणैः ।
घ्राणेनाघ्राय गोविंदपादाब्जतुलसीदलम् ९९।
त्वचा स्पृष्ट्वा हरेर्भक्तं मनसाध्याय तत्पदम् ।
कृतार्थो जायते जंतुर्नात्र कार्या विचारणा १००।
तन्मना हि भवेत्प्राज्ञस्तथा स्यात्तद्गताशयः ।
तमेवांतेभ्येति लोको नात्र कार्या विचारणा १०१।
चेतसा चाप्यनुध्यातः स्वपदं यः प्रयच्छति ।
नारायणमनाद्यंतं न तं सेवेत को जनः १०२।
सतत नियतचित्तो विष्णुपादारविंदे वितरणमनुशक्ति प्रीतये तस्य कुर्यात् ।
नतिमतिरतिमस्यांघ्रिद्वये संविदध्यात्स हि खलु नरलोके पूज्यतामाप्नुयाच्च १०३।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकषष्टितमोऽध्यायः ६१।