पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०३
शौनक उवाच-
कार्त्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः ।
तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वतः १।
सूत उवाच-
पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम् ।
जैमिनिः पृष्टवानेतदारेभे कथितं मुनिः २।
व्यास उवाच-
तिलतैलं मैथुनं यः शुभदे कार्त्तिके त्यजेत् ।
बहुजन्मकृतैःपापैर्मुक्तो याति हरेर्गृहम् ३।
मत्स्यं च मैथुनं यो वै कार्त्तिके न परित्यजेत् ।
प्रतिजन्मनि संमूढः शूकरश्च भवेद्ध्रुवम् ४।
कार्त्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम् ।
पत्रेपत्रेऽश्वमेधस्य फलं प्राप्नोति मानवः ५।
कार्त्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम् ।
देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः ६।
कार्त्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः ।
संवत्सरकृतं पापं शाकेनैकेन नश्यति ७।
फलं तस्य नरोऽश्नाति चोर्जे यो वै हरिप्रिये ।
प्रदत्त्वा तु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजम् ८।
सुरसं सर्पिषायुक्तं दद्याद्यो हरयेपि च ।
सर्वपापैर्विनिर्मुक्तः स गच्छेद्धरिमंदिरम् ९।
कार्तिके यो नरो दद्यादेकपद्मं हरावपि ।
अंते विष्णुपदं गच्छेत्सर्वपापविवर्जितः १०।
प्रातःस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये ।
करोतिसर्वतीर्थेषुयत्स्नात्वातत्फलंलभेत् ११।
कार्तिके यो नरो दद्यात्प्रदीपं नभसि द्विजः ।
विप्रहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेर्गृहम् १२।
मुहूर्तमपि यो दद्यात्कार्त्तिके प्रीतये हरेः ।
दीपं नभसि विप्रेन्द्र तस्मिंस्तुष्टः सदा हरिः १३।
यो दद्याच्च गृहे दीपं कृष्णस्य सघृतं द्विजः ।
कार्तिके चाश्वमेधस्य फलं स्याद्वै दिनेदिने १४।
प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया ।
निशामय द्विजश्रेष्ठ सेतिहासं समाहितः १५।
पूर्वं त्रेतायुगे विप्रो वैकुंठो नामतः शुचिः ।
यस्य संगप्रभावेण मुक्तो भवति पातकी १६।
एकदा कार्तिके सोऽपि प्रदीपं पुरतो हरेः ।
दत्वा गृहं गतो विप्रो घृतपूर्णं द्विजर्षभः १७।
सर्पिस्तत्स्वादितु चाखुरागतोऽपि प्रदीपतः ।
यावत्खादितुमारेभे बोधितोऽसौ प्रदीपकः १८।
मूषकोऽग्निभयात्तत्र वेगेनापि पलायितः ।
आखोश्च सकलं पापं विनष्टं कृपया हरेः १९।
सर्पेण दंशितश्चाखुः प्राणत्यागं चकार ह ।
ततो यमाज्ञया दूताः पाशमुद्गरपाणयः २०।
आगतास्तं समानेतुं बबंधुश्चर्मरज्जुभिः ।
यावन्नेतुं मनश्चक्रुः शंखचक्रगदाधराः २१।
आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः ।
विमानं गगने चैव राजहंसयुतं शुभम् २२।
निर्मितं कनकैः शुद्धैः कामगं कृपया हरेः ।
पाशं छित्वा ततो दूताः प्रोचुस्ते यमकिंकरान् २३।
विष्णुभक्तोऽप्यसौ मूढा व्यर्थं तु बंधनं कृतम् ।
गच्छध्वं शमनप्रेष्या यदि वांछास्ति जीवितुम् २४।
श्रुत्वा प्रकंपितास्ते वै पृच्छंति विनयान्विताः ।
केन पुण्यप्रभावेण युष्माभिर्नीयते पुरम् २५।
असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ ।
विष्णुदूता ऊचुः-
पुरतो वासुदेवस्य प्रदीपबोधनं कृतम् २६।
तेनैव कर्मणा दूता नयामो विष्णुमंदिरम् ।
अनिच्छयापि यः कुर्याद्विष्णोर्दीपस्य बोधनम् २७।
कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेर्गृहम् ।
भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिनैः २८।
तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना ।
घृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेर्गृहे २९।
अश्वमेधसहस्रेण तस्य किं वा प्रयोजनम् ।
अश्वमेधप्रकर्ता यः स्वर्गं याति हरेर्दिने ३०।
कार्तिके दीपदाता च स गच्छेद्धरिमंदिरम् ।
व्यास उवाच-
इति श्रुत्वा ततो दूता गतास्ते वै यथागताः ३१।
विष्णुदूता रथे कृत्वा गतास्तं विष्णुमंदिरम् ।
विष्णुसान्निध्य एवास्य मन्वंतरशतं गतम् ३२।
ततो मर्त्ये राजकन्या बभूव कृपया हरेः ।
पुत्रपौत्रसमायुक्ता चिरं भोगं चकार सा ३३।
इतः पुनर्गता सा तु गोलोकं हरिसेवया ।
सूत उवाच-
भक्त्या शृणोति यो मर्त्यो दीपमाहात्म्यमुत्तमम् ३४।
सर्वपापविनिर्मुक्तः स याति विष्णुमंदिरम् ३५।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे दीपदानमाहात्म्यं।
नाम तृतीयोऽध्यायः ३।