पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०६

← अध्यायः ०५ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः ०६
[[लेखकः :|]]
अध्यायः ०७ →

शौनक उवाच-
केन पुण्येन भो सूत वैकुंठं समवाप्यते ।
तद्वदस्व शृण्वतो मे पोतो हि भवसागरे १।
सूत उवाच-
साधुसाधु मुनिश्रेष्ठ सर्वमंगलकारक ।
कथयामि समासेन शृण्वतां पापनाशनम् २।
विष्णवे ब्राह्मणायैव मृदावेश्मविनिर्मितम् ।
यो वै दद्याद्द्विजश्रेष्ठ तस्य पुण्यं निशामय ३।
विष्णुलोके च स विप्रः सर्वपापविवर्जितः ।
सौधवासी भवेन्नित्यं विष्णुलोके प्रपूज्यते ४।
विष्णवे सौधगेहं यो दद्याद्वै ब्राह्मणाय च ।
हरेर्न्निकेतनं प्राप्य स्वर्गवासी भवेद्ध्रुवम् ५।
अंते विष्णुपुरं गत्वा युक्तः कोटिकुलैर्द्विज ।
स्वर्णसौधे गृहे स्थित्वा कुर्याद्भोगं यथासुखम् ६।
ब्राह्मणस्थापने पुण्यं यद्वै भवति भो मुने ।
संख्यां कर्तुमशक्तस्तु तद्वेधाः सर्वकारकः ७।
गण्यंते रेणवश्चैव गण्यंते वृष्टिबिंदवः ।
न गण्यंते विधात्रापि ब्रह्मसंस्थापने फलम् ८।
नारदेन पुरा ब्रह्मा पृष्टः संसारसंभवः ।
वेधास्तं कथयामास तच्छृणुष्व महामुने ९।
पुरासीद्द्वापरे ब्रह्मन्वारनारी सुशोभना ।
सुकेशी हरिणीनेत्रा सुमध्या चारुहासिनी १०।
नाम्ना सा चंचलापांगी ययौ देशांतरं कदा ।
सर्वपापसमायुक्ता नरके पातयंति च ११।
संगेन सिंधुनाकांक्षी जनान्देवालयं गता ।
तत्र क्षणं सोपविष्टा तांबूलभक्षणं कृतम् १२।
शेषं चूर्णं सौधभित्तौ दत्वा निम्ने कुतूहलात् ।
ततो गता जारकांक्षी धनार्थं नगरं प्रति १३।
जारेण केनचित्सार्द्धं संकेतः सहसा कृतः ।
संकेतं तु गता वेश्या वनं रात्रौ विमोहिता १४।
संकेतं नागतो वैश्यो व्यशंकिष्टविलोकिता ।
कथं कांतो नागतो मे सर्पव्याघ्रैश्च भक्षितः १५।
संकेतनं कथं हित्वा गतः किं कामविह्वलः ।
अन्यया ज्ञातया सार्द्धमभिलाषी भवेत्किमु १६।
परामृष्यैतद्हृद्यंतः कोटपालभयाद्द्विज ।
नगरं नागता सा हि रुद्धे लोकपथे तमैः १७।
एतस्मिन्नंतरे व्याघ्रः कामरूपी बलात्क्षुधी ।
प्रेषितः कालदेवेनाग्रसदागत्य तां द्विज १८।
ततस्तु यमुनाभ्रातुर्दूतास्ते भीमवर्षिणः ।
आगता गिरिकूटांगा नेतुं तां पापकर्मणा १९।
वक्रपादा वक्रमुखा उन्नासा बहुदंष्ट्रिणः ।
चर्मरज्जूर्मुद्गरांश्च गृहीत्वा पांशुलां द्विज २०।
बंधयामासुरुन्मत्ता गणिकां चर्म्मरज्जुभिः ।
शंखचक्रगदापद्मधारिणो वनमालिनः २१।
प्रेषिता देवदेवेन तद्भक्तवत्सलेन च ।
कृष्णजीमूतसंकाशाः स्फुरद्वदनपंकजाः २२।
श्रेणीधराश्चारुनासा दिव्यकुंडलभूषिताः ।
ददृशुः पथि गच्छंतो विष्णोर्दूतामहात्मनः २३।
विष्णुदूता ऊचुः-
के यूयं विकृताकारा लक्ष्यंते कर्बुरा इव ।
इमां विष्णोः प्रियतमां नीत्वा क्व व्रजथोत्तमाम् ।
इदं वचनमाकर्ण्य तेषां ते तु द्रुतं ययुः २४।
अथ ते क्रोधसंपन्ना विष्णोर्दूता महाबलाः ।
जघ्नुस्ते संदेशहरान्यमस्य जगतः प्रभोः २५ ।
चक्रादिशस्त्रसंघैश्च सूर्यकोटिसमप्रभैः ।
कृतांतस्य भटाः सर्वे रुदंतस्ते पलायिताः २६।
यमं प्रोचुः सभीताश्च वृत्तांतं सकलं द्विज ।
यमोऽपि तत्कथां श्रुत्वा चित्रगुप्तमुवाच ह २७।
धर्म उवाच-
केन पुण्येन भो मंत्रिन्वेश्या मुक्तिं समागता ।
एतन्मे पृच्छत सर्वं कथयस्व यथार्हतः २८।
चित्रगुप्त उवाच-
तया पापान्यर्जितानि जन्मतः सुबहून्यपि ।
किंत्वाकर्णय लोकेश यदि स्यात्पुण्यमस्ति तत् २९।
गणिकैकदा धर्म्मराज सर्वालंकारभूषिता ।
कांचित्पुरीं जगामाशु जारकांक्षी धनार्थिनी ३०।
तत्र देवालये तस्मिन्स्थित्वा तांबूलभक्षणं ।
कृत्वा तच्छेषचूर्णं तु ददौ भित्तौ तु कौतुकात् ३१।
तेन पुण्यप्रभावेण गणिका गतपातका ।
वैकुंठं प्रति सा याति निर्गता तव दंडतः ३२।
सूत उवाच-
इति श्रुत्वा ततो दूता यमोऽपि वचनं द्विज ।
व्यापारे चान्यतश्चित्तं ददौ सा गणिकापि च ३३।
आरूढा स्यंदने दिव्ये राजहंसयुते तथा ।
विष्णुलोकं ययौ सा च वेष्टिता विष्णुकिंकरैः ३४।
श्रीविष्णोराज्ञया साथ कुलकोटियुतापि च ।
तस्थौ सौधगृहे विप्र नानाभोगं चकार ह ३५।
भक्त्या यो वै हरेर्गेहे दद्याच्चूर्णं प्रयत्नतः ।
पुण्यं किं वा भवेत्तस्य न जाने द्विजपुंगव ३६।
भक्त्याध्यायं पठेद्यो वै शृणोति सादरेण च ।
सर्वपापविनिर्मुक्तो यात्यसौ हरिमंदिरम् ३७।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे षष्ठोऽध्यायः ६।