पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १५
← अध्यायः १४ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः १५ [[लेखकः :|]] |
अध्यायः १६ → |
शौनक उवाच।
कथयस्व महाभाग माहात्म्यं पापनाशनम् ।
एकादश्याः फलं किं वा किल्बिषं स्यादकुर्वतः १।
सूत उवाच।
एकादश्यास्तु माहात्म्यं किमहं वच्मि सांप्रतम् ।
श्रुत्वा चैकादशीनाम यमदूताश्च शंकिताः २।
भवंति नात्र संदेहो सर्वप्राणिभयंकराः ।
व्रतानां चैव सर्वेषां श्रेष्ठां चैकादशीं शुभाम् ३।
उपोष्य जागृयाद्विष्णोः कुर्य्याच्च मंडनं महत् ।
तुलसीदलैस्तु यो मर्त्यो हरिपूजां करोति वै ४।
दलेनैकेन लभते कोटियज्ञफलं द्विज ।
अगम्यागमने चैव यत्पापं समुदाहृतम् ५।
तत्पापं याति विलयं चैकादश्यामुपोषणात् ।
घृतपूर्णं प्रदीपं यो दद्याद्विष्णुदिने द्विज ६।
अंते विष्णुपुरं याति तमो हत्वा स्वतेजसा ।
धन्या जनपदास्ते वै धन्यः स च महीपतिः ७।
हरेर्दिने यस्य राज्ये चैकादश्या महोत्सवः ।
नारायणस्य शयने पार्श्वस्य परिवर्त्तने ८।
विशेषेण प्रबोधिन्या निराहारा भवंति ये ।
मदंति कं नानयध्वंप्राणिनःपुण्यभागिनः ९।
अहर्निशं पितृपतिः समादिशति दूतकान् ।
एकादशी जगन्नाथ वल्लभा पुण्यवर्धिनी १०।
विष्णुर्देहं दोहत्येव तस्यामन्नस्य भक्षणे ।
तेषां धिग्जीवनं संपत्धिक्सौंदर्यं च वर्तनम् ११।
येऽन्नमश्नंति पापिष्ठाश्चैकादश्यां हि विड्भुजः ।
एकादश्यां द्विजश्रेष्ठ भुक्तिमाश्रित्य केवलम् १२।
बहूनि विविधान्येव तिष्ठंति दुरितानि च ।
अमावास्यां यथा स्त्रीणां संगमे कलुषं महत् १३।
एकादश्यां तथैवान्नभक्षणे वृजिनं भवेत् ।
रोगिणश्च तथा खंज काससोदरकुष्ठकाः १४।
भवंति प्राणिनस्ते वै तस्यामन्नस्य भक्षणे ।
ग्रामशूकरतां यांति दारिद्र्यं च प्रयांति वै १५।
राजबद्धा द्विजश्रेष्ठ तस्यामन्नस्य भक्षणे ।
संसारे यानि पापानि तानि विप्र हरेर्दिने १६।
भुक्तिमाश्रित्य तिष्ठंति जलभक्षणमाज्ञया ।
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् १७।
न निष्कृतिर्भवेन्नॄणां भुंजतां च हरेर्दिने ।
नरा यावंति चान्नानि भुंजते च हरेर्दिने १८।
प्रत्यन्नं च ब्रह्महत्याकोटिजं वृजिनं भवेत् ।
पुनर्वच्मि पुनर्वच्मि श्रूयतां श्रूयतां नराः १९।
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने ।
गंगादिषु च तीर्थेषु स्नात्वा यत्फलमाप्यते २०।
चंद्रसूर्योपरागे च चैकादश्यामुपोषितः ।
अर्चित्वोत्पलमालाभिस्तस्यां च कमलापतिम् २१।
विधिवत्पारणं कृत्वा न मातुर्गर्भभाजनम् ।
एकादश्यां हरेर्गेहे करोति मंडनं द्विज २२।
परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने ।
एकादशीं समासाद्य निराहारा भवंति ये २३।
तेषां विष्णुपुरे शश्वन्निवासोऽपि न संशयः ।
तुलसीभक्तिसंलीनं मनो येषां विराजते २४।
ते यांति परमं विष्णोः स्थानमेव न संशयः ।
परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते २५।
संतुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवम् ।
दुर्भिक्षकालमासाद्य प्राणिभ्यो ये नरोत्तमाः २६।
ददत्यन्नं हरेः सद्म तेषां चैव न संशयः ।
गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा २७।
प्राणान्मुंचंति ये मर्त्त्यास्तेषां विष्णुपुरं ध्रुवम् ।
प्राणिभिर्दशमीविद्धा न चोपोष्या कदाचन २८।
परिहार्यं द्विजश्रेष्ठ दुर्जनस्यांतिकं यथा ।
अरुणोदयवेलायां दशमी संगता यदि २९।
तत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम् ।
दशमीशेषसंयुक्तो यदि स्यादरुणोदयः ३०।
वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम् ।
चतस्रो घटिकाः प्रातररुणोदय उच्यते ३१।
यतीनां स्नानकालोयं गंगांभः सदृशः स्मृतः ।
अरुणोदयकाले तु दशमी यदि दृश्यते ३२।
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी ।
स्वल्पां च दशमीविद्धां त्यजेदेकादशीं बुधः ३३।
सुराबिंदोस्तु संपर्कात्घृतकुंभं त्यजेद्यथा ।
संपूर्णैकादशी यत्र द्वादश्यां पुनरेव सा ३४।
उत्तरा यतिभिः कार्या पूर्वामुपवसेद्गृही ।
एकादशीकला यत्र द्वादशीपरतो न चेत् ३५।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ।
एकादशी विलुप्ता चेत्परतो द्वादशीयुता ३६।
उपोष्या द्वादशी पूर्णा यदीच्छेत्परमां गतिम् ।
संपूर्णैऽकादशी यत्र प्रभाते पुनरेव सा ३७।
सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि ।
एकादशीव्रते येषां मनः संलीयते नृणाम् ३८।
तेषां स्वर्गो हि वासोऽथ यांति ते सदनं हरेः ।
एकादश्याः परं नास्ति परलोकस्य साधनम् ३९।
बहुपापसमायुक्तः करोति हरिवासरम् ।
सर्वपापविनिर्मुक्तः स याति हरिमंदिरम् ४०।
पतिसहिता या योषित्करोति हरिवासरम् ।
सुपुत्रा स्वामिसुभगा याति प्रेत्य हरेर्गृहम् ४१।
यो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः ।
हरेर्द्दिने र्द्विजश्रेष्ठ पुण्यसंख्या न विद्यते ४२।
यांगना भर्तृसहिता कुरुते जागरं हरेः ।
हरेर्निकेतने तिष्ठेच्चिरं पत्या सह द्विज ४३।
यत्किञ्चिद्धरये वस्तु भक्त्या यच्छति यो द्विज ।
हरेर्दिने तस्य पुण्यमक्षयं चैव सर्वदा ४४।
पुरासीद्वल्लभो नाम्ना नगरे कांचनाह्वये ।
धनेन पुष्कलेनापि राजते स धनेश्वरः ४५।
तस्य प्रिया महारूपा नाम्ना हेमप्रभा द्विज ।
गरीयान्मुखरस्तत्र बाधते च कलेर्गुणः ४६।
सा सदा कलहं कुर्यात्पत्या सह तपोधन ।
शश्वद्गुरुजनान्कामं भर्त्सनान्नीचभाषया ४७।
पाकपात्रे सदाश्नीयात्गुप्ता सैकांतिकेमला ।
उच्छिष्टं गुरुजनेभ्यश्च दद्याद्वै प्रतिवासरम् ४८।
जारे सदा स्थितं चित्तमहं साध्वीति सा वदेत् ।
स्वामिनः कलहैर्ब्रह्मन्मनोद्वेगकरा सदा ४९।
एकदा चागतां दृष्ट्वा चकार भर्त्सनां च ताम् ।
भर्त्ता तस्याः प्रहारं च सर्वपापयुतां द्विज ५०।
सैव रोषसमायुक्ता गता शून्यगृहे तु वै ।
सुप्ताऽज्ञाता स्थिता कस्मिन्जलान्नं न चखाद ह ५१।
दैवात्तत्र दिने विष्णोः पार्श्वस्य परिवर्त्तनम् ।
एकादशीव्रतं विप्र सर्वपापप्रणाशनम् ५२।
ततः प्रभाते रजनी द्वादशी श्रवणान्विता ।
आगता तत्र सा नारी रोषनिर्भरमानसा ५३।
निराहारौ कृतौ द्वौ च निर्मला सा बभूव ह ।
रात्रौ च पंचतां याता जयंतीवासरे द्विज ५४।
यमाज्ञया ततो दूता आगतास्तां तथाविधाम् ।
नेतुं भयंकरास्ते च पाशमुद्गरपाणयः ५५।
बद्ध्वा नेतुं मनश्चक्रे कृतांतसदनं यदा ।
तदागता विष्णुदूताः शंखचक्रगदाधराः ५६।
छित्त्वा पाशं ततो दिव्ये स्यंदने तां गतैनसम् ।
ते वै चारोहयामासु निर्मलां भवनं हरेः ५७।
गता तैर्वेष्टिता साथ दुर्ल्लभं निर्जरैः शुभम् ।
विष्णोर्दिवसमाहात्म्यं कथितं ते द्विजर्षभ ५८।
अनिच्छयापि यः कुर्यात्स याति हरिमंदिरम् ।
एकादश्यादिने मर्त्यो दीपं दातुं हरेर्गृहे ५९।
गच्छेत्प्रतिपदं सोऽपि चाश्वमेधफलाधिकम् ।
शृण्वंति च पुराणानि पठंति च हरेर्दिने ।
प्रत्यक्षरं लभंते ते कपिलादानजं फलम् ६०।
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे हरिवासरमाहात्म्यकथनंनाम पंचदशोऽध्यायः १५।