पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १८

← अध्यायः १७ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →

शौनक उवाच।
अगम्यागमनं सूत कुर्याद्यो वै विमोहितः ।
तस्य शुद्धिर्भवेत्केन कथयस्व समूलतः १।
सूत उवाच।
अभिगच्छति चांडालीं श्वपाकीं यो द्विजोत्तमः ।
उपवासत्रयं कुर्यात्प्राजापत्यं चरेत्ततः २।
सशिखं वपनं चैव दद्याद्गोद्वयमेव च ।
यथार्थदक्षिणां दत्वा शुद्धिमाप्नोति स द्विजः ३।
क्षत्त्रियो वापि चांडालीं वैश्यो वा यदि गच्छति ।
प्राजापत्यं सकृच्छ्रं च दद्याद्गोमिथुनद्वयम् ४।
अनुगच्छति शूद्रो हि श्वपाकीं च तपोधन ।
चतुर्गोमिथुनं दद्यात्प्राजापत्यं व्रतं चरेत् ५।
मातरं यदि वा गच्छेद्भगिनीं स्वसुतामपि ।
वधूं च मोहितो गच्छंस्त्रीणि कृच्छ्राण्यथाचरेत् ६।
चांद्रायणत्रयं कृत्वा दद्याद्गोमिथुनत्रयम् ।
सशिखं वपनं कृत्वा पंचगव्यं पिबेत्ततः ७।
हुते ह्यग्नौ तथाप्यत्र शुद्ध्यत्येवं तपोधन ।
पितृदारान्द्विजश्रेष्ठ मातुश्च भगिनीं तथा ८।
गुरुपत्नीं मातुलानीं भ्रातुर्भार्यां स्वगोत्रजाम् ।
यदि गच्छति मोहेन प्राजापत्यद्वयं चरेत् ९।
चांद्रायणत्रयं ब्रह्मन्पंचगोमिथुनानि च ।
विप्रेभ्यो दक्षिणां दद्याच्छुध्यते नात्र संशयः १०।
गां च गच्छति यो मूढ उपवासत्रयं चरेत् ।
धेनुं दत्त्वा तथा चान्नं शुद्ध्यत्यत्र न संशयः ११।
वेश्यां खरीं शूकरीं च कपिं तुं महिषीं द्विज ।
आकंठतः समाक्षिप्य गोमयोदककर्द्दमे १२।
तत्र तिष्ठेन्निराहारो त्रिरात्रेणैव शुद्ध्यति ।
सशिखं वपनं कृत्वा त्रिरात्रमुपवासयेत् १३।
एकरात्रं जले स्थित्वा शुद्ध्यत्येव न संशयः ।
ब्राह्मणीं तु यदा गच्छेत्यो नरः काममोहितः १४।
प्राजापत्यत्रयं कुर्य्याच्चांद्रायणत्रयं तथा ।
गोत्रयं तु तथा दद्याच्छुद्ध्यत्येव तपोधन १५।
ब्राह्मणी पंचगव्यं तु पंचरात्रं पिबेद्द्विज ।
गोद्वयं दक्षिणां दद्याच्छुध्यत्यत्र न संशयः १६।
परांगनां यदागच्छेत्कृच्छ्रं सांतपनं चरेत् ।
यथार्गला तथा योषित्तस्मात्तां परिवर्जयेत् १७।
वर्णबाह्यां तथा नीचामनुगच्छेत्सकृन्नरः ।
प्राजापत्यं चरेत्कृच्छ्रं शुद्ध्यत्येव न संशयः १८।
अंगारसदृशी योषित्सर्पिः कुंभसमः पुमान् ।
तस्याः परिसरे ब्रह्मन्न स्थातव्यं कदाचन १९।
जारेण जनयेद्गर्भं या च नारी कुलांतका ।
त्याज्या सा सर्वथा ब्रंह्मस्तत्र दोषो न विद्यते २०।
या च नारी गृहाद्गच्छेत्त्यक्त्वा बंधून्स्वकानपि ।
नष्टा सा च कुलभ्रष्टा न तस्याः संगमः पुनः २१।
या च नारी यदा गच्छेन्मोहिता परपूरुषम् ।
प्राजापत्यं चरेत्कृच्छ्रं पंचगव्यं पिबेत्ततः २२।
गोद्वयं तु ततो दद्याच्छुध्यत्येव न संशयः ।
ब्राह्मणी बालिशा ब्रह्मन्मोहिता परपूरुषम् २३।
यदा गच्छेत्तदा त्याज्या जनैर्दोषो न विद्यते ।
यो गच्छेद्ब्राह्मणीं विप्र भूसुरः काममोहितः ।
गो तिलांश्च तदा दद्याच्छुद्ध्यत्यत्र न संशयः २४।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे अष्टादशोऽध्यायः १८।