पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २१
← अध्यायः २० | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः २१ [[लेखकः :|]] |
अध्यायः २२ → |
शौनक उवाच।
कथयस्व मुने सूत सर्वमासोत्तमस्य च ।
कार्तिकस्य विधिं सम्यङ्नियमान्वक्तुमर्हसि १।
सूत उवाच।
आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः ।
कार्तिकस्य व्रतं कुर्याद्यावदुद्बोधिनी भवेत् २।
दिवा विप्र नरः कुर्यान्मलमूत्रमुदङ्मुखः ।
भवेन्मौनी च सर्वज्ञ रात्रौ चेद्दक्षिणामुखः ३।
पथ्यंभसि च गोष्ठेषु श्मशाने वल्मिके द्विज ।
कुर्यादुत्सर्जनं नैव व्रती मूत्रपुरीषयोः ४।
अत्युत्तमेषु स्थानेषु मलमूत्रं न कारयेत् ।
शुद्धां मृदं गृहीत्वाथ वामं प्रक्षालयेत्करम् ५।
अद्भिर्मृदापि शुद्ध्यर्थं पूर्वं विंशतिसंख्यया ।
एका लिंगे गुदे पंच तथा वामकरे दश ६।
उभयोर्दश दातव्या पादयोश्च त्रिभिस्त्रिभिः ।
मुखशुद्धिं ततः कुर्य्यात्संकल्पं स्नपनस्य च ७।
हृदि दामोदरं ध्यात्वा इमं मंत्रं ततो वदेत् ।
कार्तिकेहं करिष्यामि प्रातःस्नानं जनार्द्दन ८।
दामोदरस्य प्रीत्यर्थं राधया पापनाशनं ।
नमः पंकजनाभाय श्रीकृष्णजलशायिने ९।
नमस्ते राधया सार्द्धं गृहाणार्घं प्रसीद मे ।
स्नानं कुर्य्यात्ततो विप्र तिलकं तु यथाविधि १०।
ऊर्ध्वपुंड्रविहीनस्तु किंचित्कर्मकरोति यः ।
निष्फलं कर्म तत्सर्वं सत्यमेतन्मयोच्यते ११।
यच्छरीरं मनुष्याणामूर्ध्वपुंड्रं विना कृतम् ।
तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् १२।
ऊर्ध्वपुंड्रं मृदा शुभ्रं ललाटे यस्य दृश्यते ।
चांडालोऽपि विशुद्धात्मा पूज्य एव न संशयः ।
अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति नराधमाः १३।
तेषां ललाटे सततं शुनःपादो न संशयः ।
प्रातःकालोदितं कर्म्म समाप्य हरिवल्लभाम् १४।
पूजयेद्भक्तितो विप्र तुलसीं पापनाशिनीम् ।
पौराणीं तु कथां श्रुत्वा श्रीहरेः स्थिरमानसः १५।
ततो विप्रं व्रती भक्त्या पूजयेत्तं यथाविधि ।
परासनं परान्नं च परशय्यां परांगनाम् १६।
सर्वदा वर्जयेद्विप्र कार्त्तिके च विशेषतः ।
सौवीरकं तथा माषानामिषं च तथा मधु १७।
राजमाषादिकं नित्यं वर्जयेत्कार्तिके व्रती ।
जंबीरमामिषं चूर्णमन्नं पर्य्युषितं द्विज १८।
धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषम् ।
लवणं भूमिजं विप्र प्राण्यङ्गमामिषं खलु १९।
द्विजक्रीता रसाः सर्वे जलं चाल्पसरः स्थितम् ।
ब्रह्मचर्यं तुर्यकाले पत्रावल्यां च भोजनम् २०।
कुर्याद्वै द्विजशार्दूल तैलाभ्यंगं च वर्जयेत् ।
छत्राकं नालिकं हिंगुं पलांडुं पूतिकादलम् २१।
लशुनं मूलकं शिग्रुं तथैव तुंबिकाफलम् ।
कपित्थं चैव वृंताकं कूष्मांडं कांस्यभोजनम् २२।
द्विपाचितं सूतिकान्नं मत्स्यं शय्यां रजस्वलाम् ।
द्विस्त्रिश्चान्नं स्त्रियः संगं वर्जयेत्कार्तिकव्रती २३।
धात्रीफलं गृही विप्र रवौ तत्सर्वदा त्यजेत् ।
कूष्मांडे धनहानिः स्यात्बृहत्यां न स्मरेद्धरिम् २४।
पटोले तु न वृद्धिः स्याद्बलहानिश्च मूलके ।
कलंकी जायते बिल्वे तिर्यग्योनिश्च निंबुके २५।
ताले शरीरनाशः स्यान्नारिकेले च मूर्खता ।
तुंबी गोमांसतुल्या स्याद्गोवधं स्यात्कलिंदके २६।
शिंबी पापकरा प्रोक्ता पूतिका ब्रह्मघातिका ।
वार्ताक्यां सुतनाशः स्याच्चिररोगी च माषके २७।
मांसे च बहुपापं स्याद्वर्जयेत्प्रतिपदादिषु ।
यत्किंचिद्वर्जयेद्योऽन्नं श्रीहरे प्रीतये द्विज २८।
तत्पुनर्भूसुरे दत्वा व्रतांते तस्य भोजनम् ।
कार्तिकव्रतिनं विप्र यथोक्तकारिणं नरम् २९।
यमदूताः पलायंते सिंहं दृष्ट्वा यथा गजाः ।
श्रेष्ठं विष्णुव्रतं विप्र तत्तुल्या न शतं मखाः ३०।
कृत्वा क्रतुं व्रजेत्स्वर्गं वैकुंठं कार्तिकव्रती ।
यत्किंचिद्दुष्कृतं विप्र मनोवाक्कायकर्मजम् ३१।
दृष्ट्वा तु विलयं याति कार्तिकव्रतिनं क्षणात् ।
कार्त्तिकव्रतिनः पुण्यं ब्रह्मा चैव चतुर्मुखः ३२।
न समर्थो भवेद्वक्तुं यथोक्तव्रतकारिणः ।
यत्कृत्वा कलुषं सर्वं व्रजेद्विप्र दशो दिशः ३३।
क्व गच्छामि क्व तिष्ठामि कार्त्तिकव्रतिनो भयात् ।
पौर्णमास्यां यथाशक्ति चान्नवस्त्रादिकं द्विज ३४।
दद्याद्वै श्रीहरेः प्रीत्यै ब्राह्मणानपि भोजयेत् ।
रात्रौ जागरणं कुर्यान्नृत्यगीतादिभिर्व्रती ।
य इदं शृणुयाद्भक्त्या तस्य पापं प्रणश्यति ३५।
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे एकविंशोऽध्यायः २१।