पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २३
← अध्यायः २२ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः २३ [[लेखकः :|]] |
अध्यायः २४ → |
शौनक उवाच।
कथयस्व मुने सूत माहात्म्यं कलुषक्षयम् ।
शेषपंचदिनस्यापि कार्त्तिकस्यानुकंपया १।
सूत उवाच।
शृणु शौनक यत्पृष्टं माहात्म्यं पापनाशनम् ।
वक्ष्याम्यहं वै चोर्जस्य शेषपंचदिनस्य च २।
व्रतानां मुनिशार्दूल प्रवरं विष्णुपंचकम् ।
तस्मिन्यः पूजयेद्भक्त्या श्रीहरिं राधया सह ३।
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः ।
स याति विष्णुसदनं सर्वपापविवर्जितः ४।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।
न प्राप्नोति परं स्थानमकृत्वा विष्णुपंचकम् ५।
सर्वपापहरं पुण्यं विख्यातं विष्णुपंचकम् ।
तत्र स्नानं तु यः कुर्यात्सर्वतीर्थफलं लभेत् ६।
श्रीहरेः पुरतो विप्र तुलस्याश्च समीपतः ।
प्रदीपं सर्पिषा पूर्णं दद्याद्यो भक्तिभावतः ७।
नभसि श्रीहरेः प्रीत्यै याति स विष्णुमंदिरम् ।
पापी याति हरेर्धाम सत्यमेतन्मयोदितम् ८।
स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतादिभिः ।
दद्यात्किं नो हरिः प्रीतस्तस्मै साधुजनाय वै ९।
नैवेद्यं देवदेवेशं परमान्नं निवेदयेत् ।
तस्य पुण्यं प्रसंख्यातुं न शक्तो वै चतुर्मुखः १०।
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः ।
निष्प्राप्य गोमयं सम्यक्मंत्रवत्समुपासते ११।
गोमूत्रं मंत्रवद्भूयो द्वादश्यां प्राशयेद्व्रती ।
क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि १२।
संप्राप्य पापशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ।
पंचमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् १३।
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।
ततो नक्तं समश्नीयात्पंचगव्यं सुमंत्रितम् १४।
एवं कर्तुमशक्तो यः फलमूलं च भोजनम् ।
कुर्याद्धविष्यं वा विप्र यथोक्तविधिना ह वै १५।
श्रीहरेः पंचकं विप्र कुर्याद्यस्तुलसीदलैः ।
पूजयेत्तं स विज्ञेयः स्वयं नारायणः प्रभुः १६।
पुरा त्रेतायुगे शूद्रो दस्युवृत्तिपरायणः ।
नाम्ना दंडकरो नित्यं धर्मनिंदां करोति यः १७।
असत्यभाषी मित्रघ्नो वेश्याविभ्रम लोलुपः ।
ब्रह्मस्वहारी क्रूरश्च परस्त्रीगमने रतः १८।
शरणागतहंता च पाखंडजनसंगभाक् ।
गोमांसाशी सुरापश्च परनिंदाकरः सदा १९।
विश्वासघाती ज्ञातीनां वृत्तिच्छेदी द्विजोत्तम ।
दुष्टं सर्वे समालोक्य तादृशं तद्गृहे द्विजः २०।
आगता ज्ञातयः क्रुद्धास्तस्य पापपरायणम् ।
ज्ञातय ऊचुः।
रे रे मूढ दुराचार विनाशं प्रतिनीयते ।
या प्रतिष्ठार्जिता पूर्वैरस्माकं निर्मलेऽन्वये २१।
इति क्रुद्धा द्विजश्रेष्ठ अपकीर्तिभयादपि ।
पापिनां प्रवरं सर्वे तत्यजुस्तं कुलादरम् २२।
ततो गतो महारण्यं विनष्टाखिल वैभवः ।
कुर्यात्स दस्युभिः सार्द्धं दस्युकर्म निरंतरम् २३।
पथि प्रगच्छतां तेषां भयाद्विप्र न खादितुम् ।
प्राप्तं किंचित्क्षुधार्त्तास्ते गताश्चान्य स्थलं प्रति २४।
तत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान्बहून् ।
धात्रीमूले स्थितान्ब्रह्मन्वैष्णवान्द्विजसत्तमान् २५।
सर्वे ते दस्यवो विप्र गता दंडकरोऽपि सः ।
तेषां परिसरं गत्वा प्रणामं वै चकार ह २६।
दंडकर उवाच।
क्षुधार्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यंति मे ध्रुवम् ।
ददध्वं खादितुं किंचिद्युष्माकं शरणं गतः २७।
आकर्ण्य वचनं तस्य चोचुस्ते धर्मतत्पराः ।
सर्वपापहरे त्वं च विख्याते विष्णुपंचके २८।
कथमन्नं खादितुं ते वांछा त्वद्य हरेर्दिने ।
विशेषं ते ब्रूहि संज्ञा काते भवति सांप्रतम् २९।
स उवाच मुदा विप्रा नाम्ना दंडकरोप्यहम् ।
सर्वपापसमायुक्तश्चोद्धारो मे कथं भवेत् ३०।
ऊचुस्ते वै व्रतं श्रेष्ठं कुरुष्व विष्णुपंचकम् ।
विप्राणामाज्ञया विप्र चकार विष्णुपंचकम् ३१।
स प्रेत्य च हरेः स्थानमारुह्य स्यंदने वरे ।
आसाद्य श्रीहरेरूपं तस्थौ जन्मविवर्जितः ३२।
य इदं शृणुयाद्भक्त्या चाख्यानं पापनाशनम् ।
कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ३३।
इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे विष्णुपंचकमाहात्म्यंनाम त्रयोविंशोऽध्यायः २३।