पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/विषयानुक्रमणिका

अथ चतुर्थब्रह्मखंडस्थ विषयानुक्रमणिका प्रारभ्यते ।। ४ ।।

१-- कलिकालीन लोकोद्धरणाय प्रश्ने सूतेन व्यासजैमिनिसंवादवर्णनम्, विप्णुभ- क्तिवैष्णवलक्षणवर्णनम्। श्लोकांकाः ३४ ।।

२-- हरिमंदिरलेपनमार्जनादिमाहात्म्यदंडकनामकचौरवृत्तांतकथनम्। श्लो० ३७।।

३- कार्तिकमासमाहात्म्यवर्णनम्, तत्र कार्तिकव्रतनियमकथनम्, दीपदानमाहात्म्ये वैकुंठब्राह्मणवृत्तातवर्णनम्, दीपप्रोद्बोधनेन मूषिकस्योद्धारवर्णनम्। श्लोकांकाः ३५ ।।

४-- जयन्तीव्रतमाहात्म्यकथनम्, तत्र जयंतीषट्कम्, जयंतीदिने भोजननिषेधः, जयंतीव्रतकारिणां माहात्म्यम्। श्लोकांकाः ५३ ।।

५-- स्त्रीणांपुत्रराहित्यवंध्यात्व कन्याप्रसूत्व क्लीब संतानत्व मृतपुत्रात्व कारणविषयक प्रश्ने तत्तत्प्रापककर्मविपाकवर्णनम्, श्रीधरब्राह्मणस्य चरितम्। श्लोकांकाः ३८ ।।

६-- विष्णोर्ब्राह्मणस्य च मंदिरलेपनादिमहिमा तत्र वारांगनायाश्चरित्रम्। श्लोकांकाः ३७ ।।

७-- भाद्रपदशुक्लपक्षराधाजन्माष्टमीमाहात्म्यम्, तद्व्रतप्रभावेण कलावेश्या समुद्धारः। श्लोकांकाः ४४ ।।

८- समुद्रमथनकथानकवर्णनम, तत्र शक्रं प्रति दुर्वाससः शापः, विष्णोरनुज्ञया देवकृतसमुद्रमथनारंभवर्णनम्। श्लोकांकाः २३ ।।

९- विष्णुना कूर्मरूपं धृत्वा मंदरोद्धरणम्, विषोत्पत्तौ शंकरेण विषप्राशनम्, अलक्ष्म्युत्पत्तिः, तस्या निवासाय स्थाननिर्देशः। श्लोकांकाः २२ ।।

१०-- ऐरावतादीनामुत्पत्तिः, द्वादश्यां महालक्ष्म्युत्पत्तिः, अलक्ष्म्युद्दालकविवा- हानंतरं विष्णुकृतलक्ष्मीपरिणयनम् अमृतोत्पत्तौ विष्णुना मोहिनीरूपं धृत्वा दैत्य- विमोहनं कृत्वा देवानाममृतदानम्, राहोः शिरश्छेदनम्, चंद्रसूर्यग्रहणे स्नानदाना दिमाहात्म्यवर्णनम्। श्लो० २५ ।।

११-- गुरुवारव्रतमाहात्म्यवर्णनम्, तत्र भद्रश्रवोराज्ञः श्यामलानाम्न्यास्तत्कन्या- याश्च वृत्तांतकथनम्.। श्लो० ८६ ।।

१२-- ब्राह्मणप्राणरक्षणपुण्यकथने दीननाथराजवृत्तान्तवर्णनम्, तत्र दीननाथराज्ञा गालवं प्रति पुत्रप्राप्त्युपायप्रश्ने गालवेन नरमेधयज्ञकथनम्। श्लो० ६४ ।।

१३- कृष्णजन्माष्टमीव्रतमाहात्म्यवर्णनम्, तत्र दिलीपं प्रति वसिष्ठेन संक्षेपतः श्री- कृष्णजन्मबाललीलादिकथनम्, जन्माष्टमीनिर्णयः, चित्रसेनराजवृत्तांतवर्ण- नम्। श्लो० ८५ ।।

१४-- ब्राह्मणमाहात्म्यवर्णनम्, ब्राह्मणपादोदकमाहात्म्यम्, तत्र भीमनामकशूद्रवृ- त्तांतवर्णनम्। श्लो० ३३ ।।

१५-- एकादशीमाहात्म्यवर्णनम् तत्रैकादशीदिनेऽन्नभोजने दोषः, एकादशीनि- र्णयः, महारूपापत्नीसमेतस्य वल्लभनामकवैश्यस्य वृत्तांतवर्णनम्। श्लो० ६० ।।

१६- पौर्णमासीदिने विष्णुपूजनमाहात्म्यम्, आश्विनपौर्णमास्यां विष्णोर्ला- जादिदानम्। श्लो० २९ ।।

१७-- विष्णुपादोदकमाहात्म्यम्, तत्र सुदर्शनब्राह्मणवृत्तांतवर्णनम्। श्लो० २८ ।।

१८-- अगम्यागमनप्रायश्चित्तकथनम्। श्लो० २४ ।।

१९- अभक्ष्यभक्षणप्रायश्चित्तकथनम्। श्लो० ३० ।।

२०- कार्तिकमाहात्म्यवर्णनम्, तत्र नानाप्रकारनियमकथनम्, राधादामोदरपूजन- कथनम्. कलिप्रियासहितस्य शंकरवृषलस्य वृत्तांतवर्णनम्। श्लो० ३४ ।।

२१- कार्तिकमासव्रतविधाननियमकथनम्। श्लो० ३५ ।।

२२-- तुलसीधात्रीमाहात्म्यकथनम्। श्लो० ४२ ।।

२३-- विष्णुपंचकापरपर्याय कार्तिकांतिमपंचदिनमाहात्म्यम्, तत्र दंडकचौरवृत्तांत- वर्णनम्। श्लो० ३३ ।।

२४--- पृथिव्याद्यनेकविधदानमाहात्म्यफलवर्णनम्। श्लो० ५८ ।।

२५-- नारदसनत्कुमारसंवादे भगवन्नाममाहात्म्यवर्णनम्, नामापराधकथनम्, पुराणश्रवणफलकथनम्। श्लो० ३७ ।।

२६-- प्रतिज्ञापालनस्य फलम्, प्रतिज्ञात्यागे दोषः, अत्रार्थे सुंदरश्वपचवृत्तांतवर्णनम्। श्लो० ४२ ।।

इति ब्रह्मखंडस्थविषयानुक्रमणिका संपूर्णा ।। ४ ।।