पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००२
← अध्यायः ००१ | पद्मपुराणम्/खण्डः ५ (पातालखण्डः) अध्यायः ००२ [[लेखकः :|]] |
अध्यायः ००३ → |
शेष उवाच।
अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा ।
पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः १।
उवाच च हनूमंतं बलवंतं समीरजम् ।
प्रस्फुरद्दशनव्याज चन्द्रकांतिहतांधकः २।
शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम् ।
चिरंतनवियोगेन गद्गदीकृतविह्वलाम् ३।
गच्छ तं भ्रातरं वीर समीरणतनूद्भव ।
मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ४।
यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे ।
फलानां भक्षणमपि न कुर्याद्विरहातुरः ५।
परस्त्री यस्य मातेव लोष्टवत्कांचनं पुनः ।
प्रजाः पुत्रानिवोद्रक्षेद्बांधवो मम धर्मवित् ६।
मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम् ।
मदागमनसंदेश पयोवृष्ट्याशु सिंचतम् ७।
सीतया सहितं रामं लक्ष्मणेन समन्वितम् ।
सुग्रीवादिकपींद्रैश्च रक्षोभिः सबिभीषणैः ८।
प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम् ।
येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ९।
इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः ।
जगाम भरतावासं नंदिग्रामं निदेशकृत् १०।
गत्वा स नंदिग्रामं तु मंत्रिवृद्धैः सुसंयतम् ।
भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ११।
कथयंतं मंत्रिवृद्धान्रामचंद्रकथानकम् ।
तदीय पदापाथोज मकरंदसुनिर्भरः १२।
नमश्चकार भरतं धर्मं मूर्तियुतं किल ।
विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम् १३।
तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृतांजलि ।
स्वागतं चेति होवाच रामस्य कुशलं वद १४।
इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत् ।
हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः १५।
विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः ।
निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् १६।
रामागमनसंदेशामृतसिक्तकलेवरः ।
प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम् १७।
जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया ।
दासोऽस्मि जन्मपर्यंतं रामसंदेशहारकः १८।
वसिष्ठोऽपि गृहीत्वार्घ्यं मंत्रिवृद्धाः सुहर्षिताः ।
जग्मुस्ते रामचंद्रं च हनुमद्दर्शिताध्वना १९।
दृष्ट्वा दूरात्समायांतं रामचंद्रं मनोरमम् ।
पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् २०।
रामोऽपि दृष्ट्वा भरतं पादचारेण संगतम् ।
जटावल्कलकौपीन परिधानसमन्वितम् २१।
अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान् ।
नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह २२।
रामोऽपि चिंतयामास दृष्ट्वा वै तादृशं नृपम् ।
अहो दशरथस्यायं राजराजस्य धीमतः २३।
पुत्रः पदातिरायाति जटावल्कलवेषभृत् ।
न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि २४।
यादृशं मद्वियोगेन चैतस्य परिवर्त्तते ।
अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा २५।
श्रुत्वा मां निकटे प्राप्तं मंत्रिवृद्धैः सुहर्षितैः ।
द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः २६।
इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात् ।
बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः २७।
यानादवतताराशु विरहात्क्लिन्नमानसः ।
भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः २८।
दृष्ट्वा समुत्तीर्णमिमं रामचंद्रं सुरैर्युतम् ।
भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ।
हर्षाश्रूणि प्रमुंचंश्च दंडवत्प्रणनाम ह २९।
रघुनाथोऽपि तं दृष्ट्वा दंडवत्पतितं भुवि ।
उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः ३०।
उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः ।
रामचंद्रपदांभोजग्रहणासक्तबाहुभृत् ३१।
भरत उवाच।
दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु ।
रामचंद्र महाबाहो कारुण्यात्करुणानिधे ३२।
यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत ।
स एव चरणो राम वने बभ्राम मत्कृते ३३।
इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः ।
प्रांजलिः पुरतस्तस्थौ हर्षविह्वलिताननः ३४।
रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः ।
प्रणम्य च महामंत्रिमुख्यानापृच्छ्य सादरम् ३५।
भरतेन समं भ्रात्रा पुष्पकासनमास्थितः ।
सीतां ददर्श भरतो भ्रातृपत्नीमनिंदिताम् ३६।
अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः ।
पतिव्रतां जनकजाममन्यतननाम च ३७।
मातः क्षमस्व यदघं मया कृतमबुद्धिना ।
त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ३८।
जानक्यापि महाभागा देवरं वीक्ष्य सादरम् ।
आशीर्भिरभियुज्याथ समपृच्छदनामयम् ३९।
विमानवरमारूढास्ते सर्वे नभसोंऽगणे ।
क्षणादालोकयांचक्रे निकटे स्वपितुः पुरीम् ४०।
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे रामराजधानीदर्शनोनाम द्वितीयोऽध्यायः २।
।
।