पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०११

← अध्यायः ०१० पद्मपुराणम्
अध्यायः ०११
वेदव्यासः
अध्यायः ०१२ →

शेष उवाच।
एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः ।
वीरानालोकयन्भूयो जगाद शुभया गिरा १।
शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै ।
को गंता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः २।
यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसंघैः ।
गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम् ३।
इत्युक्तवति रामे तु पुष्कलो भरतात्मजः ।
जग्राह वीटकं तस्माद्रघुराजकरांबुजात् ४।
स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम् ।
सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो ५।
सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते ।
एते निमित्तभूता वै रामचंद्र महामते ६।
भवत्कृपातः सकलं ससुरासुरमानुषम् ।
उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम् ७।
सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात् ।
एष गंतास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः ८।
एवं ब्रुवंतं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः ।
शशंस सर्वान्कपिवीरमुख्यान्प्रभंजनोद्भूतमुखान्हरिः प्रभुः ९।
भो हनूमन्महावीर शृणु मद्वाक्यमादृतः ।
त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकंटकम् १०।
सीतया मम संयोगे यो भवाञ्जलधिं तरेः ।
चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर ११।
त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया ।
शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा १२।
यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते ।
तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते १३।
इति श्रुत्वा महद्वाक्यं रामचंद्रस्य धीमतः ।
शिरसा तत्समाधाय प्रणाममकरोत्तदा १४।
अथादिशन्महाराजो जांबवंतं कपीश्वरम् ।
रघुनाथस्य सेवायै कपिषूत्तमतेजसम् १५।
अंगदो गवयो मैंदस्तथा दधिमुखः कपिः ।
सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी १६।
नीलो नलो मनोवेगोऽधिगंता वानरांगजः ।
इत्येवमादयो यूयं सज्जीभूता भवंतु भोः १७।
सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः ।
कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः १८।
शेष उवाच।
सुमंत्रमाहूय सुमंत्रिणं तदा जगाद रामो बलवीर्यशोभनः ।
अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः १९।
तदुक्तमेवमाकर्ण्य जगाद परवीरहा ।
हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान् २०।
रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान् ।
धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान् २१।
प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम् ।
रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् २२।
राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः ।
स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः २३।
अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे ।
दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः २४।
प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत् ।
सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः २५।
एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने ।
सन्नद्धो रिपुनाशाय युवाको दंडदंडभृत् २६।
तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः ।
यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत् २७।
ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसंज्ञितम् ।
मायूरं नाकुलं रौद्रं वैष्णवं मेघसंज्ञितम् २८।
वज्रं पार्वतसंज्ञं च तथा वायव्यसंज्ञितम् ।
इत्यादिकानामस्त्राणां संप्रयोगविसर्गवित् २९।
स एष निजसैन्यानामक्षौहिण्यैकया युतः ।
प्रयातु शूरमुकुटः सर्ववैरिप्रभंजनः ३०।
रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम् ।
सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः ३१।
गच्छतात्सेनया बह्व्या चतुरंगसमेतया ।
शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः ३२।
उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च ।
सर्वे यांतु सुसंनद्धास्तव वाहस्य पालकाः ३३।
इति भाषितमाकर्ण्य मंत्रिणः प्रजहर्ष च ।
आज्ञापयामास च तान्सुमंत्रकथितान्भटान् ३४।
तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे ।
चिरकालं सांपरायं वांच्छंतो युद्धदुर्मदाः ३५।
सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः ।
ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः ३६।
शेष उवाच।
अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात् ।
आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः ३७।
आचार्याय ददौ रामो हस्तिनं षष्टिहायनम् ।
हयमेकं मनोवेगं रत्नमालाविभूषितम् ३८।
पौरटं रथमेकं च मणिरत्नविभूषितम् ।
चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम् ३९।
मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम् ।
विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम् ४०।
ग्राममेकं सुसंपन्नं नानाजनसमाकुलम् ।
विचित्रसस्यनिष्पन्नं विविधैर्मंदिरैर्वृतम् ४१।
ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ ।
ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः ४२।
सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः ।
चिरंजीव महाराज रामचन्द्र रघूद्वह ४३।
कन्यादानं भूमिदानं गजदानं तथैव च ।
अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् ४४।
अन्नदानं पयोदानमभयं दानमुत्तमम् ।
रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् ४५।
देहि देहि धनं देहि मानेति ब्रूहि कस्यचित् ।
ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम् ४६।
इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः ।
सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः ४७।
अथ रामानुजो गत्वा मातरं प्रणनाम ह ।
आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने ४८।
त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः ।
आयास्यामि महाराजैर्हयवर्यसमन्वितः ४९।
मातोवाच ।
पुत्र गच्छ महावीर शिवाः पंथान एव ते ।
सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते ५०।
पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम् ।
महाबलिनमद्यापि बालकं लीलयायुतम् ५१।
पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः ।
तदा मम प्रमोदः स्यादन्यथा शोकभागहम् ५२।
इति संभाष्यमाणां स्वां मातरं प्रत्युवाच सः ।
त्वदीयचरणद्वंद्वं स्मरन्प्राप्स्यामि शोभनम् ५३।
पुष्कलं पालयित्वाहं निजांगमिव शोभने ।
स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् ५४।
इत्युक्त्वा प्रययौ वीरो रामं स मखमंडपे ।
आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम् ५५।
उवाच मतिमान्वीरः सर्वशोभासमन्वितः ।
रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव ५६।
रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत् ।
बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम् ५७।
तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः ।
प्रहस्य किंचिन्नयने नर्तयन्राममब्रवीत् ५८।
लक्ष्मीनिधिरुवाच।
रामचंद्र महाबाहो सर्वधर्मपरायण ।
शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत् ५९।
कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा ।
गच्छेत्स परमं धाम तेजोबलसमन्वितम् ६०।
त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत् ।
पित्रा तव हतो विप्रः पितृभक्तिपरायणः ६१।
त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम् ।
अवध्यां महिलां यस्त्वं हतवान्नियतं ततः ६२।
अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम् ।
सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम् ६३।
एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव ।
यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत् ६४।
इत्युक्तवंतं तं रामः प्रत्युवाच हसन्निव ।
मेघगंभीरया वाचा सर्ववाक्यविशारदः ६५।
शृण्वंतु योगिनः शांताः समदुःखसुखाः पुनः ।
जानंत्यपारसंसारनिस्तारतरणादिकम् ६६।
ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः ।
ते च जानंति युद्धस्य वार्त्तां न तु भवादृशाः ६७।
परोपतापिनो ये वै ये चोत्पथविसारिणः ।
ते हंतव्या नृपैः सर्वैः सर्वलोकहितैषिभिः ६८।
इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिंदमस्य ।
कुंभोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ६९।
इमं मंत्रं समुच्चार्य वसिष्ठः कलशोद्भवः ।
कराग्रेण स्पृशन्नश्वं मुमोच जयकांक्षया ७०।
वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले ।
यागार्थे मोचितो येन पुनरागच्छ सत्वरः ७१।
अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः ।
परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः ७२।
प्रचचार बलं सर्वं कंपयद्धरणीतलम् ।
शेषोऽपि किंचिन्न तया फणया धृतवान्भुवम् ७३।
दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम् ।
वायवस्तं तु शत्रुघ्नं पृष्ठतो मंदगामिनः ७४।
शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत् ।
दक्षिणः शुभमाशंसी जयाय च बभूव ह ७५।
पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत् ।
वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम् ७६।
तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम् ।
किंचित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम् ७७।
मुखारविंदेन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती ।
नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकंकणे ७८।
कुचौ तु मालूरफलोपमौ वरौ नितंबबिंबं वरनीवि शोभितम् ।
पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम् ७९।
परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम् ।
तदुरोजपरीरंभनिर्भरीकृतदेहकाम् ८०।
उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः ।
रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः ८१।
त्वया मे मातरः पूज्याः पादसंवाहनादिमिः ।
तदुच्छिष्टं हि भुंजाना तत्कर्मकरणादरा ८२।
सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः ।
नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः ८३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन-पुष्कलभार्यासमागमोनाम एकादशोऽध्यायः ११ ।