पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१३

← अध्यायः ०१२ पद्मपुराणम्
अध्यायः ०१३
वेदव्यासः
अध्यायः ०१४ →

शेष उवाच।
इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः ।
जगदुः कामसेनास्तं रंभाद्यप्सरसो मुदा १।
त्वत्तपोभिर्वयं कांत प्राप्ताः सर्ववरांगनाः ।
तासां यौवनसर्वस्वं भुंक्ष्व त्यज तपःफलम् २।
इयं घृताची सुभगा चंपकाभशरीरभृत् ।
कर्पूरगंधललितं भुनक्तु त्वन्मुखामृतम् ३।
एतां महाभाग सुशोभिविभ्रमां ।
मनोहरांगीं घनपीनसत्कुचाम् ।
कांतोपभुंक्ष्वाशु निजोग्रपुण्यतः ।
प्राप्तां पुनस्त्वं त्यज दुःखजातम् ४।
मामप्यनर्घ्याभरणोपशोभितां ।
मंदारमालापरिशोभिवक्षसम् ।
नानारताख्यानविचारचंचुरां ।
दृढं यथा स्यात्परिरंभणं कुरु ५।
पिबामृतं मामकवक्त्रनिर्गतं ।
विमानमारुह्य वरं मया सह ।
सुमेरुशृंगं बहुपुण्यसेवितं ।
संप्राप्य भोगं कुरु सत्तपः फलम् ६।
तिलोत्तमा यौवनरूपशोभिता ।
गृह्णातु ते मूर्धनि तापवारणम् ।
सुचामरौ संततधारयांकितौ ।
गंगाप्रवाहाविव सुंदरोत्तम ७।
शृणुष्व भोः कामकथां मनोहरां ।
पिबामृतं देवगणादिवांछितम् ।
उद्यानमासाद्य च नंदनाभिधं ।
वरांगनाभिर्विहरं कुरु प्रभो ८।
इत्युक्तमाकर्ण्य महामतिर्नृपो ।
विचारयामास कुतो ह्युपस्थिताः ।
मया सुसृष्टास्तपसा सुरांगनाः ।
प्रत्यूह एवात्र विधेयमेष किम् ९।
इति चिंतातुरो राजा स्वांते संचिंतयन्सुधीः ।
जगाद मतिमान्वीरः सुमदो देवताङ्गनाः १०।
यूयं तु ममचित्तस्था जगन्मातृस्वरूपकाः ।
मया संचिंत्यते या हि सापि त्वद्रूपिणी मता ११।
इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकम् ।
मत्स्वामिनी मया भक्त्या सेविता दास्यते वरम् १२।
यत्कृपातो विधिः सत्यलोकं प्राप्तो महानभूत् ।
सा मे दास्यति सर्वं हि भक्तदुःखांतकारिणी १३।
किं नंदनं किं तु गिरिः कनकेन सुमण्डितः ।
किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखदा १४।
इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः ।
प्राहरन्नरदेवस्य कर्तुं किंचिन्न वै प्रभुः १५।
कटाक्षैर्नूपुरारावैः परिरंभैर्विलोकनैः ।
न तस्य चित्तं विभ्रांतं कर्तुं शक्ता वरांगनाः १६।
गत्वा यथागतं शक्रं जगदुर्धीरधीर्नृपः ।
तच्छ्रुत्वा मघवा भीतः सेवामारभतात्मनः १७।
अथ निश्चितमालोक्य पादपद्मे स्वकेंऽबिका ।
जितेंद्रियं महाराजं प्रत्यक्षाभूत्सुतोषिता १८।
पंचास्यपृष्ठललिता पाशांकुशधरावरा ।
धनुर्बाणधरा माता जगत्पावनपावनी १९।
तां वीक्ष्य मातरं धीमान्सूर्यकोटिसमप्रभाम् ।
धनुर्बाणसृणीपाशान्दधानां हर्षमाप्तवान् २०।
शिरसा बहुशो नत्वा मातरं भक्तिभाविताम् ।
हसंतीं निजदेहेषु स्पृशंतीं पाणिना मुहुः २१।
तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः ।
गद्गदस्वरसंयुक्तः कंटकांगोपशोभितः २२।
जय देवि महादेवि भक्तवृंदैकसेविते ।
ब्रह्मरुद्रादिदेवेंद्र सेवितांघ्रियुगेऽनघे २३।
मातस्तव कलाविद्धमेतद्भाति चराचरम् ।
त्वदृते नास्ति सर्वं तन्मातर्भद्रे नमोस्तु ते २४।
मही त्वयाऽधारशक्त्या स्थापिता चलतीह न ।
सपर्वतवनोद्यान दिग्गजैरुपशोभिता २५।
सूर्यस्तपति खे तीक्ष्णैरंशुभिः प्रतपन्महीम् ।
त्वच्छक्त्या वसुधासंस्थं रसं गृह्णन्विमुंचति २६।
अंतर्बहिः स्थितो वह्निर्लोकानां प्रकरोतु शम् ।
त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते २७।
त्वं विद्या त्वं महामाया विष्णोर्लोकैकपालिनः ।
स्वशक्त्या सृजसीदं त्वं पालयस्यपि मोहिनि २८।
त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयंति वै ।
मां पालय कृपानाथे वंदिते भक्तवल्लभे २९।
रक्ष मां सेवकं मातस्त्वदीयचरणारणम् ।
कुरु मे वांछितां सिद्धिं महापुरुषपूर्वजे ३०।
सुमतिरुवाच।
एवं तुष्टा जगन्माता वृणीष्व वरमुत्तमम् ।
उवाच भक्तं सुमदं तपसा कृशदेहिनम् ३१।
इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः ।
वव्रे निजं हृतं राज्यं हतदुर्जनकंटकम् ३२।
महेशीचरणद्वंद्वे भक्तिमव्यभिचारिणीम् ।
प्रांते मुक्तिं तु संसारवारिधेस्तारिणीं पुनः ३३।
कामाक्षोवाच।
राज्यं प्राप्नुहि सुमद सर्वत्रहतकंटकम् ।
महिलारत्नसंजुष्टपादपद्मद्वयो भव ३४।
ततवैरिपराभूतिर्माभूयात्सुमदाभिध ।
यदा तु रावणं हत्वा रघुनाथो महायशाः ३५।
करिष्यत्यश्वमेधं हि सर्वसंभारशोभितम् ।
तस्य भ्राता महावीरः शत्रुघ्नः परवीरहा ३६।
पालयन्हयमायास्यत्यत्र वीरादिभिर्वृतः ।
तस्मै सर्वं समर्प्य त्वं राज्यमृद्धं धनादिकम् ३७।
पालयिष्यसि योधैः स्वैर्धनुर्धारिभिरुद्भटैः ।
ततः पृथिव्यां सर्वत्र भ्रमिष्यसि महामते ३८।
ततो रामं नमस्कृत्य ब्रह्मेंद्रेशादिसेवितम् ।
मुक्तिं प्राप्स्यसि दुष्प्रापां योगिभिर्यमसाधनैः ३९।
तावत्कालमिहस्थास्ये यावद्रामहयागमः ।
पश्चात्त्वां तु समुद्धृत्य गंतास्मि परमं पदम् ४०।
इत्युक्त्वांतर्दधे देवी सुरासुरनमस्कृता ।
सुमदोऽप्यहिच्छत्रायां शत्रून्हत्वा नृपोऽभवत् ४१।
एष राजा समर्थोऽपि बलवाहनसंयुतः ।
न ग्रहीष्यति ते वाहं महामायासुशिक्षितः ४२।
श्रुत्वा प्राप्तं पुरी पार्श्वे हयमेधहयोत्तमम् ।
त्वां च सर्वैर्महाराजैः सेवितांघ्रिं महामतिम् ४३।
सर्वं दास्यति सर्वज्ञ राजा सुमदनामधृक् ।
अधुनातन्महाराज रामचंद्र प्रतापतः ४४।
शेष उवाच।
इति वृत्तं समाकर्ण्य सुमदस्य महायशाः ।
साधुसाध्विति चोवाच जहर्ष मतिमान्बली ४५।
अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः ।
सभायां सुखमास्ते यो बहुराजन्यसेवितः ४६।
ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः ।
राजानं पर्युपासंते सुमदंशो भयान्वितम् ४७।
वेदविद्याविनोदेन न्यायिनो ब्राह्मणा वराः ।
आशीर्वदंति तं भूपं सर्वलोकैकरक्षकम् ४८।
एतस्मिन्समये कश्चिदागत्य नृपतिं जगौ ।
स्वामिन्न जाने कस्यास्ति हयः पत्रधरोंऽतिके ४९।
तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः ।
जानीहि कस्य राज्ञोऽयमश्वो मम पुरांतिके ५०।
गत्वाथ सेवकस्तत्र ज्ञात्वा वृत्तांतमादितः ।
निवेदयामास नृपं महाराजन्यसेवितम् ५१।
स श्रुत्वा रघुनाथस्य हयं नित्यमनुस्मरन् ।
आज्ञापयामास जनं सर्वं राजाविशारदः ५२।
लोका मदीयाः सर्वे ये धनधान्यसमाकुलाः ।
तोरणादीनि गेहेषु मंगलानि सृजंत्विह ५३।
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः ।
गजोपरिसमारूढा यांतु शत्रुघ्नसंमुखम् ५४।
इत्यादिसर्वमाज्ञाप्य ययौ राजा स्वयं ततः ।
पुत्रपौत्रमहिष्यादिपरिवारसमावृतः ५५।
शत्रुघ्नः सुमहामात्यैः सुभटैः पुष्कलादिभिः ।
संयुतो भूपतिं वीरं ददर्श सुमदाभिधम् ५६।
हस्तिभिः सादिसंयुक्तैः पत्तिभिः परतापनैः ।
वाजिभिर्भूषितैर्वीरैः संयुतं वीरशोभितम् ५७।
अथागत्य महाराजः शत्रुघ्नं नतवान्मुदा ।
धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः ५८।
इदं राज्यं गृहाणाशु महाराजोपशोभितम् ।
महामाणिक्यमुक्तादि महाधनसुपूरितम् ५९।
स्वामिंश्चिरं प्रतीक्षेऽहं हयस्यागमनं प्रति ।
कामाक्षाकथितं पूर्वं जातं संप्रति तत्तथा ६०।
विलोकय पुरं मह्यं कृतार्थान्कुरु मानवान् ।
पावयास्मत्कुलं सर्वं रामानुज महीपते ६१।
इत्युक्त्वारोहयामास कुंजरं चंद्रसुप्रभम् ।
पुष्कलं च महावीरं तथा स्वयमथारुहत् ६२।
भेरीपणवतूर्याणां वीणादीनां स्वनस्तदा ।
व्याप्नोति स्म महाराज सुमदेन प्रणोदितः ६३।
कन्याः समागत्य महानरेंद्रं -।
शत्रुघ्नमिंद्रादिकसेवितांघ्रिम् ।
करिस्थिता मौक्तिकवृंदसंघै-।
र्वर्धापयामासुरिनप्रयुक्ताः ६४।
शनैःशनैः समागत्य पुरीमध्ये जनैर्मुदा ।
वर्धापितो गृहं प्राप तोरणादिकभूषितम् ६५।
हयरत्नेन संयुक्तस्तथा वीरैः सुशोभितः ।
राज्ञा पुरस्कृतो राजा शत्रुघ्नः प्राप मंदिरम् ६६।
अर्घादिभिः पूजयित्वा रघुनाथानुजं तदा ।
सर्वं समर्पयामास रामचंद्राय धीमते ६७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नाहिच्छत्रापुरीप्रवेशोनाम त्रयोदशोऽध्यायः १३ ।