पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१५

← अध्यायः ०१४ पद्मपुराणम्
अध्यायः ०१५
वेदव्यासः
अध्यायः ०१६ →

सुमतिरुवाच।
अथर्षिः स्वाश्रमं गत्वा मानव्या सह भार्यया ।
मुदं प्राप हताशेष पातको योगयुक्तया १।
सा मानवी तं वरमात्मनः पतिं ।
नेत्रेणहीनं जरसा गतौजसम् ।
सिषेव एनं हरिमेधसोत्तमं ।
निजेष्टदात्रीं कुलदेवतां यथा २।
शूश्रूषती स्वं पतिमिंगितज्ञा ।
महानुभावं तपसां निधिं प्रियम् ।
परां मुदं प्राप सती मनोहरा ।
शची यथा शक्रनिषेवणोद्यता ३।
चरणौ सेवते तन्वी सर्वलक्षणलक्षिता ।
राजपुत्री सुंदरांगी फलमूलोदकाशना ४।
नित्यं तद्वाक्यकरणे तत्परा पूजने रता ।
कालक्षेपं प्रकुरुते सर्वभूतहिते रता ५।
विसृज्य कामं दंभं च द्वेषं लोभमघं मदम् ।
अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत् ६।
एवं तस्य प्रकुर्वाणा सेवां वाक्कायकर्मभिः ।
सहस्राब्दं महाराज सा च कामं मनस्यधात् ७।
कदाचिद्देवभिषजावागतावाश्रमे मुनेः ।
स्वागतेन सुसंभाव्य तयोः पूजां चकार सा ८।
शर्यातिकन्याकृतपूजनार्घ-।
पाद्यादिना तोषितचित्तवृत्ती ।
तावूचतुः स्नेहवशेन सुंदरौ ।
वरं वृणुष्वेति मनोहरांगीम् ९।
तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने ।
मतिं चकार नृपतेः पुत्री मतिमतां वरा १०।
पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा ।
दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ ११।
इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरम् ।
सतीत्वं च विलोक्येदमूचतुर्भिषजां वरौ १२।
त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ ।
आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम् १३।
च्यवनोऽप्योमिति प्राह भागदाने वरौजसोः ।
तदा हृष्टावश्विनौ तमूचतुस्तपतां वरम् १४।
निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते ।
इत्युक्तो जरयाग्रस्त देहो धमनिसंततः १५।
ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां ह्रदे ।
पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः १६।
रुक्मस्रजः कुंडलिनस्तुल्यरूपाः सुवाससः ।
तान्निरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः १७।
अजानती पतिं साध्वी ह्यश्विनौ शरणं ययौ ।
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ १८।
ऋषिमामंत्र्य ययतुर्विमानेन त्रिविष्टपम् ।
यक्ष्यमाणे क्रतौ स्वीयभागकार्याशयायुतौ १९।
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् २०।
तुष्टोऽहमद्य तव भामिनि मानदायाः ।
शुश्रूषया परमया हृदि चैकभक्त्या ।
यो देहिनामयमतीव सुहृत्स्वदेहो ।
नावेक्षितः समुचितः क्षपितुं मदर्थे २१।
ये मे स्वधर्मनिरतस्य तपः समाधि-।
विद्यात्मयोगविजिता भगवत्प्रसादाः ।
तानेव ते मदनुसेवनयाऽविरुद्धान् ।
दृष्टिं प्रपश्य वितराम्यभयानशोकान् २२।
अन्ये पुनर्भगवतो भ्रुव उद्विजृंभ-।
विस्रंसितार्थरचनाः किमुरुक्रमस्य ।
सिद्धासि भुंक्ष्व विभवान्निजधर्मदोहान् ।
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः २३।
एवं ब्रुवाणमबलाखिलयोगमाया ।
विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।
संप्रश्रयप्रणयविह्वलया गिरेषद् ।
व्रीडाविलोकविलसद्धसिताननाह २४।
सुकन्योवाच।
राद्धं बत द्विजवृषैतदमोघयोग-।
मायाधिपे त्वयि विभो तदवैमि भर्तः ।
यस्तेऽभ्यधायि समयः सकृदंगसंगो ।
भूयाद्गरीयसि गुणः प्रसवः सतीनाम् २५।
तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं ।
येनैष कर्शिततमोति रिरंसयात्मा ।
सिध्येत ते कृतमनोभव धर्षिताया ।
दीनस्तदीशभवनं सदृशं विचक्ष्व २६।
सुमतिरुवाच।
प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः ।
विमानं कामगं राजंस्तर्ह्येवाविरचीकरत् २७।
सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम् ।
सर्वार्थोपचयोदर्कं मणिस्तंभैरुपस्कृतम् २८।
दिव्योपस्तरणोपेतं सर्वकालसुखावहम् ।
पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम् २९।
स्रग्भिर्विचित्रमालाभिर्मंजुसिंजत्षडंघ्रिभिः ।
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ३०।
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् ।
कॢप्तैः कशिपुभिः कांतं पर्यंकव्यजनादिभिः ३१।
तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम् ।
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ३२।
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम् ।
शिखरेष्विंद्रनीलेषु हेमकुंभैरधिश्रितम् ३३।
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः ।
जुष्टं विचित्रवैतानैर्मुक्ताहारावलंबितैः ३४।
हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।
कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च ३५।
विहारस्थानविश्राम संवेश प्रांगणाजिरैः ।
यथोपजोषं रचितैर्विस्मापनमिवात्मनः ३६।
एवं गृहं प्रपश्यंतीं नातिप्रीतेन चेतसा ।
सर्वभूताशयाभिज्ञः स्वयं प्रोवाच तां प्रति ३७।
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह ।
सुभ्रूर्भर्तुः समादाय वचः कुवलयेक्षणा ३८।
सरजो बिभ्रती वासो वेणीभूतांश्च मूर्द्धजान् ।
अंगं च मलपंकेन संछन्नं शबलस्तनम् ३९।
आविवेश सरस्तत्र मुदा शिवजलाशयम् ।
सांतःसरसि वेश्मस्थाः शतानि दशकन्यकाः ४०।
सर्वाः किशोरवयसो ददर्शोत्पलगंधयः ।
तां दृष्ट्वा शीघ्रमुत्थाय प्रोचुः प्रांजलयः स्त्रियः ४१।
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ।
स्नानेन ता महार्हेण स्नापयित्वा मनस्विनीम् ४२।
दुकूले निर्मले नूत्ने ददुरस्यै च मानद ।
भूषणानि परार्घ्यानि वरीयांसि द्युमंति च ४३।
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ।
अथादर्शे स्वमात्मानं स्रग्विणं विरजोंबरम् ४४।
ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ।
हारेण च महार्हेण रुचकेन च भूषितम् ४५।
निष्कग्रीवं वलयिनं क्वणत्कांचननूपुरम् ।
श्रोण्योरध्यस्तया कांच्या कांचन्या बहुरत्नया ४६।
सुभ्रुवा सुदता शुक्लस्निग्धापांगेन चक्षुषा ।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ४७।
यदा सस्मार दयितमृषीणां वल्लभं पतिम् ।
तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः ४८।
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ४९।
सतां कृत मलस्नानां विभ्राजंतीमपूर्ववत् ।
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ५०।
विद्याधरी सहस्रेण सेव्यमानां सुवाससम् ।
जातभावो विमानं तदारोहयदमित्रहन् ५१।
तस्मिन्नलुप्तमहिमा प्रिययानुषक्तो ।
विद्याधरीभिरुपचीर्णवपुर्विमाने ।
बभ्राज उत्कचकुमुद्गणवानपीच्य ।
स्ताराभिरावृत इवोडुपतिर्नभःस्थः ५२।
तेनाष्टलोकपविहारकुलाचलेंद्र -।
द्रोणीष्वनंगसखमारुतसौभगासु ।
सिद्धैर्नुतोद्युधुनिपातशिवस्वनासु ।
रेमे चिरं धनदवल्ललनावरूथी ५३।
वैश्रंभके सुरवने नंदने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च सरे मे रामया रतः ५४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे।
च्यवनस्य तपोभोगवर्णनं नाम पंचदशोऽध्यायः १५ ।