पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१९

← अध्यायः ०१८ पद्मपुराणम्
अध्यायः ०१९
वेदव्यासः
अध्यायः ०२० →

ब्राह्मण उवाच।
इति श्रुत्वा तु तद्वाक्यं भिल्लानामहमद्भुतम् ।
अत्याश्चर्यमिदं मत्वा प्रहृष्टोऽभवमित्युत १।
गंगासागरसंयोगे स्नात्वा पुण्यकलेवरः ।
शृंगमारुरुहे तत्र मणिमाणिक्यचित्रितम् २।
तत्रापश्यं महाराज देवं देवादिवंदितम् ।
नमस्कृत्वा कृतार्थोऽहं जातोन्नप्राशनेन च ३।
चतुर्भुजत्वं संप्राप्तः शंखचक्रादिचिह्नितम् ।
पुरुषोत्तमदर्शनेन न पुनर्गर्भमाविशम् ४।
राजंस्त्वमपि तत्राशु गच्छ नीलाभिधं गिरिम् ।
कृतार्थं कुरु चात्मानं गर्भदुःखविवर्जितम् ५।
इत्याकर्ण्य वचस्तस्य वाडवाग्र्यस्य धीमतः ।
पप्रच्छ हृष्टगात्रस्तु तीर्थयात्राविधिं मुनिम् ६।
राजोवाच।
साधु विप्राग्र्य हे साधो त्वया प्रोक्तं ममानघ ।
पुरुषोत्तममाहात्म्यं शृण्वतां पापनाशनम् ७।
ब्रूहि तत्तीर्थयात्रायां विधिं श्रुतिसमन्वितम् ।
विधिना केन संपूर्ण फलप्राप्तिर्नृणां भवेत् ८।
ब्राह्मण उवाच।
शृणु राजन्प्रवक्ष्यामि तीर्थयात्राविधिं शुभम् ।
येन संप्राप्यते देवः सुरासुरनमस्कृतः ९।
वलीपलितदेहो वा यौवनेनान्वितोऽपि वा ।
ज्ञात्वा मृत्युमनिस्तीर्यं हरिं शरणमाव्रजेत् १०।
तत्कीर्तने तच्छ्रवणे वंदने तस्य पूजने ।
मतिरेव प्रकर्तव्या नान्यत्र वनितादिषु ११।
सर्वं नश्वरमालोक्य क्षणस्थायि सुदुःखदम् ।
जन्ममृत्युजरातीतं भक्तिवल्लभमच्युतम् १२।
क्रोधात्कामाद्भयाद्द्वेषाल्लोभाद्दंभान्नरः पुनः ।
यथाकथंचिद्विभजन्न स दुःखं समश्नुते १३।
स हरिर्जायते साधुसंगमात्पापवर्जितात् ।
येषां कृपातः पुरुषा भवंत्यसुखवर्जिताः १४।
ते साधवः शांतरागाः कामलोभविवर्जिताः ।
ब्रुवंति यन्महाराज तत्संसारनिवर्तकम् १५।
तीर्थेषु लभ्यते साधू रामचंद्र परायणः ।
यद्दर्शनं नृणां पापराशिदाहाशुशुक्षणिः १६।
तस्मात्तीर्थेषु गंतव्यं नरैः संसारभीरुभिः ।
पुण्योदकेषु सततं साधुश्रेणिविराजिषु १७।
तानि तीर्थानि विधिना दृष्टानि प्रहरंत्यघम् ।
तं विधिं नृपशार्दूल कुरुष्व श्रुतिगोचरम् १८।
विरागं जनयेत्पूर्वं कलत्रादि कुटुंबके ।
असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेत् १९।
क्रोशमात्रं ततो गत्वा रामरामेति च ब्रुवन् ।
तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानवित् २०।
मनुष्याणां च पापानि तीर्थानि प्रति गच्छताम् ।
केशानाश्रित्य तिष्ठंति तस्माद्वपनमाचरेत् २१।
ततो दंडं तु निर्ग्रन्थिं कमंडलुमथाजिनम् ।
बिभृयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः २२।
विधिना गच्छतां नॄणां फलावाप्तिर्विशेषतः ।
तस्मात्सर्वप्रयत्नेन तीर्थयात्राविधिं चरेत् २३।
यस्य हस्तौ च पादौ च मनश्चैव सुसंहितम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते २४।
हरेकृष्ण हरेकृष्ण भक्तवत्सल गोपते ।
शरण्य भगवन्विष्णो मां पाहि बहुसंसृतेः २५।
इति ब्रुवन्रसनया मनसा च हरिं स्मरन् ।
पादचारी गतिं कुर्यात्तीर्थं प्रति महोदयः २६।
यानेन गच्छन्पुरुषः समभागफलं लभेत् ।
उपानद्भ्यां चतुर्थांशं गोयाने गोवधादिकम् २७।
व्यवहर्ता तृतीयांशं सेवयाष्टमभागभाक् ।
अनिच्छया व्रजंस्तत्र तीर्थमर्धफलं लभेत् २८।
यथायथं प्रकर्तव्या तीर्थानामभियात्रिका ।
पापक्षयो भवत्येव विधिदृष्ट्या विशेषतः २९।
तत्र साधून्नमस्कुर्यात्पादवंदनसेवनैः ।
तद्द्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे ३०।
इति तीर्थविधिः प्रोक्तः समासेन न विस्तरात् ।
एवं विधिं समाश्रित्य गच्छ त्वं पुरुषोत्तमम् ३१।
तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः ।
यथा संसारनिर्वाहः क्षणादेव भविष्यति ३२।
तीर्थयात्राविधिं श्रुत्वा सर्वपातकनाशनम् ।
मुच्यते सर्वपापेभ्य उग्रेभ्यः पुरुषर्षभ ३३।
सुमतिरुवाच ।
इति वाक्यं समाकर्ण्य ववंदे चरणौ महान् ।
तत्तीर्थदर्शनौत्सुक्य विह्वलीकृतमानसः ३४।
आदिदेश निजामात्यं मंत्रवित्तममुत्तमम् ।
तीर्थयात्रेच्छया सर्वान्सह नेतुं मनो दधत् ३५।
मंत्रिन्पौरजनान्सर्वानादिश त्वं ममाज्ञया ।
पुरुषोत्तमपादाब्जदर्शनप्रीतिहेतवे ३६।
ये मदीये पुरे लोका ये च मद्वाक्यकारकाः ।
सर्वे निर्यांतु मत्पुर्या मया सह नरोत्तमाः ३७।
ये तु मद्वाक्यमुल्लंघ्य स्थास्यंति पुरुषा गृहे ।
ते दंड्या यमदंडेन पापिनोऽधर्महेतवः ३८।
किं तेन सुतवृंदेन बांधवैः किं सुदुर्नयैः ।
यैर्नदृष्टः स्वचक्षुर्भ्यां पुण्यदः पुरुषोत्तमः ३९।
सूकरीयूथवत्तेषां प्रसूतिर्विट्प्रभक्षिका ।
येषां पुत्राश्च पौत्रा वा हरिं न शरणं गताः ४०।
यो देवो नाममात्रेण सर्वान्पावयितुं क्षमः ।
तं नमस्कुरुत क्षिप्रं मदीयाः प्रकृतिव्रजाः ४१।
इति वाक्यं मनोहारि भगवद्गुणगुंफितम् ।
प्रजहर्ष महामात्य उत्तमः सत्यनामधृक् ४२।
हस्तिनं वरमारोप्य पटहेन व्यघोषयत् ।
यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छता ४३।
गच्छंतु त्वरिता लोका राज्ञा सह महागिरिम् ।
दृश्यतां पापसंहारी पुरुषोत्तमनामधृक् ४४।
क्रियतां सर्वसंसारसागरो गोष्पदं पुनः ।
भूष्यतां शंखचक्रादिचिह्नैः स्वस्व तनुर्नरैः ४५।
इत्यादिघोषयामास राज्ञादिष्टं यदद्भुतम् ।
सचिवो रघुनाथांघ्रि ध्याननिर्वारितश्रमः ४६।
तच्छ्रुत्वा ताः प्रजाः सर्वा आनंदरससंप्लुताः ।
मनो दधुः स्वनिस्तारे पुरुषोत्तमदर्शनात् ४७।
निर्ययुर्ब्राह्मणास्तत्र शिष्यैः सह सुवेषिणः ।
आशिषं वरदानाढ्यां ददतो भूमिपं प्रति ४८।
क्षत्त्रिया धन्विनो वीरा वैश्या वस्तुक्रयाञ्चिताः ।
शूद्राः संसारनिस्तारहर्षित स्वीयविग्रहाः ४९।
रजकाश्चर्मकाः क्षौद्राः किराता भित्तिकारकाः ।
सूचीवृत्त्या च जीवंतस्तांबूलक्रयकारकाः ५०।
तालवाद्यधरा ये च ये च रंगोपजीविनः ।
तैलविक्रयिणश्चैव वस्त्रविक्रयिणस्तथा ५१।
सूता वदंतः पौराणीं वार्तां हर्षसमन्विताः ।
मागधा बंदिनस्तत्र निर्गता भूमिपाज्ञया ५२।
भिषग्वृत्त्या च जीवंतस्तथा पाशककोविदाः ।
पाकस्वादुरसाभिज्ञा हास्यवाक्यानुरंजकाः ५३।
ऐंद्रजालिकविद्याध्रास्तथा वार्तासुकोविदाः ।
प्रशंसंतो महाराजं निर्ययुः पुरमध्यतः ५४।
राजापि तत्र निर्वर्त्य प्रातःसंध्यादिकाः क्रियाः ।
ब्राह्मणं तापसश्रेष्ठमानिनाय सुनिर्मलम् ५५।
तदाज्ञया महाराजो निर्जगाम पुराद्बहिः ।
लोकैरनुगतो राजा बभौ चंद्र इवोडुभिः ५६।
क्रोशमात्रं स गत्वाथ क्षौरं कृत्वा विधानतः ।
दंडं कमंडलुं बिभ्रन्मृगचर्म तथा शुभम् ५७।
शुभवेषेण संयुक्तो हरिध्यानपरायणः ।
कामक्रोधादिरहितं मनो बिभ्रन्महायशाः ५८।
तदा दुंदुभयो भेर्य आनकाः पणवास्तथा ।
शंखवीणादिकाश्चैवाध्मातास्तद्वादकैर्मुहुः ५९।
जय देवेश दुःखघ्न पुरुषोत्तमसंज्ञित ।
दर्शयस्व तनुं मह्यं वदंतो निर्ययुर्जनाः ६०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रत्नग्रीवस्य तीर्थप्रयाणंनामैकोनविंशोऽध्यायः १९ ।