पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२५

← अध्यायः ०२४ पद्मपुराणम्
अध्यायः ०२५
वेदव्यासः
अध्यायः ०२६ →

शेष उवाच।
अथ वीक्ष्य भटान्निजान्नृपो रुधिरौघेण परिप्लुतांगकान् ।
सुखमाप न वै शुशोच तान्परिपप्रच्छ सुतस्य चेष्टितम् १।
गदताखिलकर्म तस्य वै स कथं चाहरदश्ववर्यकम् ।
कथयंतु पुनः कियद्बलं बत वीराः कति योद्धुमागताः २।
अथ शत्रुबलोन्मुखः कथं मम वीरो दमनो रणं व्यधात् ।
विजयं च विधाय दुर्जयं किल वीरं बत कोऽप्यशातयत् ३।
इत्याकर्ण्य वचो राज्ञः प्रत्यूचुस्तेऽस्य सेवकाः ।
क्षतजेन परिक्लिन्न गात्रवस्त्रादिधारिणः ४।
राजन्नश्वं समालोक्य पत्रचिह्नाद्यलंकृतम् ।
ग्राहयामास गर्वेण तृणीकृत्य रघूत्तमम् ५।
ततो हयानुगः प्राप्तः स्वल्पसैन्यसमावृतः ।
तेन साकमभूद्युद्धं तुमुलं रोमहर्षणम् ६।
तं मूर्च्छितं ततः कृत्वा तव पुत्रः स्वसायकैः ।
यावत्तिष्ठत्यथायातः शत्रुघ्नः स्वबलैर्वृतः ७।
ततो युद्धं महदभूच्छस्त्रास्त्रपरिबृंहितम् ।
बहुशो जयमापेदे तव पुत्रो महाबलः ८।
इदानीं तेन मुक्त्वास्त्रं शत्रुघ्नभ्रातृसूनुना ।
मूर्च्छितः प्रधने राजन्कृतो वीरः सुतस्तव ९।
इति वाक्यं समाकर्ण्य रोषशोकसमन्वितः ।
स्थगितांग इवासीत्स समुद्र इव पर्वणि १०।
उवाच सेनाधिपतिं रोषप्रस्फुरिताधरः ।
दन्तैर्दताँल्लिहन्नोष्ठं जिह्वया शोककर्शितः ११।
सेनापते कुरुष्वारान्मम सेनां तु सज्जिताम् ।
योत्स्ये रामस्य सुभटैर्ममपुत्रोपघातकैः १२।
अद्याहं मम पुत्रस्य दुःखदं निशितैः शरैः ।
पातयिष्ये यदि ह्येनं रक्षितापि महेश्वरः १३।
सेनापतिरिदं वाक्यं प्रोक्तं सुभुजभूपतेः ।
निशम्य च तथा कृत्वा सज्जीभूतो भवत्स्वयम् १४।
राज्ञे निवेदयामास ससज्जां चतुरंगिणीम् ।
सेनां कालबलप्रख्यां हतदुर्जनकोटिकाम् १५।
श्रुत्वा सेनापतेर्वाक्यं सुबाहुः परवीरहा ।
निर्जगाम ततो यत्र शत्रुघ्नः स्वसुतार्दनः १६।
कुंजरैश्च मदोन्मत्तैर्हयैश्चापि मनोजवैः ।
रथैश्च सर्वशस्त्रास्त्रपूरितै रिपुजेतृभिः १७।
भूश्चकंपे तदा तत्र सैन्यभारेण भूरिणा ।
संमर्दः सुमहानासीत्तत्र सैन्ये विसर्पति १८।
राजानं निर्गतं दृष्ट्वा रथेन कनकांगिना ।
शत्रुघ्नबलमुद्युक्तं सर्ववैरिप्रहारकम् १९।
सुकेतुस्तस्य वै भ्राता गदायुद्धविशारदः ।
रथेनाश्वा जगामायं सर्वशस्त्रास्त्रपूरितः २०।
चित्रांगस्तु सुतो राज्ञः सर्वयुद्धविचक्षणः ।
जगाम स्वरथेनाशु शत्रुघ्नबलमुन्मदम् २१।
तस्यानुजो विचित्राख्यो विचित्ररणकोविदः ।
ययौ रथेन हैमेन भ्रातृदुःखेन पीडितः २२।
अन्ये शूरा महेष्वासाः सर्वशस्त्रास्त्रकोविदाः ।
ययुर्नृपसमादिष्टाः प्रधनं वीरपूरितम् २३।
राजा सुबाहुः संरोषादागतः प्रधनांगणे ।
विलोकयामास सुतं मूर्च्छितं शरपीडितम् २४।
रथोपस्थस्थितं मूढं स्वसुतं दमनाभिधम् ।
वीक्ष्य दुःखं मुहुः प्राप वीजयामास पल्लवैः २५।
जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना ।
संज्ञामाप शनैर्वीरो दमनः परमास्त्रवित् २६।
उत्थितः क्व धनुर्मेऽस्ति क्व पुष्कल इतो गतः ।
संसज्य समरं त्यक्त्वा मद्बाणव्रणपीडितः २७।
इति वाक्यं समाकर्ण्य सुबाहुः पुत्रभाषितम् ।
परमं हर्षमापेदे परिरभ्य सुतं स्वकम् २८।
दमनो वीक्ष्य जनकं नृपं नम्रशिरोधरः ।
पपात पादयोर्भक्त्या क्षतदेहोऽस्त्रराजिभिः २९।
स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः ।
जगाद सेनाधिपतिं रणकर्मविशारदः ३०।
व्यूहं रचय संग्रामे क्रौंचाख्यं रिपुदुर्जयम् ।
यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपतेः ३१।
तद्वाक्यमाकर्ण्य सुबाहुभूपतेः ।
क्रौंचाख्यसद्व्यूहविशेषमादधात् ।
यन्नो विशंते सहसा रिपोर्गणा ।
महाबलाः शस्त्रसमूहधारिणः ३२।
मुखे सुकेतुस्तस्यासीद्गले चित्रांगसंज्ञकः ।
पक्षयो राजपुत्रौ द्वौ पुच्छे राजा प्रतिष्ठितः ३३।
मध्ये सैन्यं महत्तस्य चतुरंगैस्तु शोभितम् ।
कृत्वा न्यवेदयद्राज्ञे क्रौंचव्यूहं विचित्रितम् ३४।
राजा दृष्ट्वा सुसन्नद्धं क्रौंचव्यूहं सुनिर्मितम् ।
रणाय स्वमतिं चक्रे शत्रुघ्नकटके स्थितैः ३५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुबाहुसैन्यसमागमोनाम पंचविंशोऽध्यायः २५ ।