पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३६

← अध्यायः ०३५ पद्मपुराणम्
अध्यायः ०३६
वेदव्यासः
अध्यायः ०३७ →

शेषउवाच।
एतच्छ्रुत्वा तु विप्रेन्द्रो लोमशात्परमं महत् ।।
पुनः पप्रच्छ तमृषिं सर्वज्ञं योगिनां वरम् ॥१।
आरण्यक उवाच।
मुनिश्रेष्ठ वदैतन्मे पृच्छामि त्वां महामते ।।
गुरवः कृपया युक्ता भाषंते सेवकेऽखिलम् ॥२।
कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया ।।
तस्य कानि चरित्राणि वदस्व त्वं द्विजर्षभ ॥३।
किमर्थमवतीर्णोऽसौ कस्मान्मानुषतां गतः ।।
तत्सर्वं कथयाशु त्वं मम संशयनुत्तये ॥४।
शेष उवाच।
इति वाक्यं समाकर्ण्य मुनेः परमशोभनम् ।।
लोमशः कथयामास रामचारित्रमद्भुतम् ॥५।
लोकान्निरयसंमग्नाञ्ज्ञात्वा योगेश्वरेश्वरः ।।
कीर्तिं प्रथयितुं लोके यया घोरं तरिष्यति ॥६।
एवं ज्ञात्वा दयावार्धिः परमेशो मनोहरः ।।
अवतारं चकारात्र चतुर्धा सश्रियान्वितः ॥७।
पुरा त्रेतायुगे प्राप्ते पूर्णांशो रघुनन्दनः ।।
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः ॥८।
स रामो लक्ष्मणसखः काकपक्षधरो युवा ।।
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ ॥९।
यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ।।
दांतौ धनुर्धरौ वीरौ विश्वामित्रमनुव्रतौ ॥१०।
पथि प्रव्रजतोस्तत्र ताटका नाम राक्षसी ।।
संगता च वने घोरे तयोर्वै विघ्नकारणात् ॥११।
ऋषेरनुज्ञया रामस्ताटकां यमयातनाम् ।।
प्रावेशयद्धनुर्वेदविद्याभ्यासेन राघवः ॥१२।
यस्य पादतलस्पर्शाच्छिला वासवयोगजा ।।
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी ॥१३।
विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघूत्तमः ।।
मारीचं च सुबाहुं च जघान परमेषुभिः ॥१४।
ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ।।
रामः पंचदशे वर्षे षड्वर्षामथ मैथिलीम् ॥१५।
उपयेमे विवाहेन रम्यां सीतामयोनिजाम् ।।
कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः ॥१६।
ततो द्वादश वर्षाणि रेमे रामस्तया सह ।।
सप्तविंशतिमे वर्षे यौवराज्यमकल्पयत् ॥१७।
राजानमथ कैकेयी वरद्वयमयाचत ।।
तयोरेकेन रामस्तु ससीतः सह लक्ष्मणः ॥१८।
जटाधरः प्रव्रजतुवर्षाणीह चतुर्दश ।।
भरतस्तु द्वितीयेन यौवराज्याधिपोऽस्तु मे ॥१९।
जानकी लक्ष्मणसखं रामं प्राव्राजयन्नृपः ।।
त्रिरात्रमुदकाहारश्चतुर्थेऽह्नि फलाशनः ॥२०।
पंचमे चित्रकूटे तु रामस्थानमकल्पयत् ।।
अथ त्रयोदशे वर्षे पंचवट्यां महामुने ॥२१।
रामो विरूपयामास शूर्पणखां निशाचरीम् ।।
वने विचरतस्तस्य जानक्या सहितस्य च ॥२२।
आगतो राक्षसस्तां तु हर्तुं पापविपाकतः ।।
ततो माघासिताष्टम्यां मुहूर्ते वृंदसंज्ञिते ॥२३।
राघवाभ्यां विना सीतां जहार दशकंधरः ।।
तेनैवं ह्रियमाणा सा चक्रंद कुररी यथा ॥२४।
रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम् ।।
यथा श्येनः क्षुधाक्रांतः क्रंदंतीं वर्तिकां नयेत् ॥२५।
तथा कामवशं प्राप्तो रावणो जनकात्मजाम् ।।
नयत्येवं जनकजां जटायुः पक्षिराट्तदा ॥२६।
युयुधे राक्षसेंद्रेण स रावणहतोऽपतत् ।।
मार्गशुक्लनवम्यां तु वसंतीं रावणालये ॥२७।
संपातिर्दशमे मास आचख्यौ वानरेषु ताम् ।।
एकादश्यां महेंद्राद्रे पुःप्लुवे शतयोजनम् ॥२८।
हनूमान्निशि तस्यां तु लंकायां पर्यकालयत् ।।
तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥२९।
द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः ।।
तस्यां निशायां जानक्या विश्वासाय च संकथा ॥३०।
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत ।।
ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः ॥३१।
वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम् ।।
पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः ॥३२।
मार्गासितप्रतिपदः पंचभिः पथिवासरैः ।।
पुनरागत्य षष्ठेऽह्नि ध्वस्तं मधुवनं किल ॥३३।
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् ।।
अष्टम्युत्तरफल्गुन्यां मुहूर्ते विजयाभिधे ॥३४।
मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ।।
रामः कृत्वा प्रतिज्ञां तु प्रयातो दक्षिणां दिशम् ॥३५।
तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ।।
दक्षिणाशां प्रयातस्य सुग्रीवोऽप्यभवत्सखा ॥३६।
वासरैः सप्तभिः सिंधोः स्कंधावारनिवेशनम् ।।
पौषशुक्लप्रतिपदस्तृतीयायावदंबुधेः ॥३७।
उपस्थानं ससैन्यस्य राघवस्य बभूव ह ।।
बिभीषणश्चतुर्थ्यां तु रामेण सह संगतः ॥३८।
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतः ।।
प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ॥३९।
समुद्रवरलाभश्च सहोपायप्रदर्शनम् ।।
ततो दशम्यामारंभस्त्रयोदश्यां समापनम् ॥४०।
चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत् ।।
पौर्णमास्यां द्वितीयां तं त्रिदिनैः सैन्यतारणम् ॥४१।
तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान् ।।
रुरोध च पुरीं लंकां सीतार्थं सह लक्ष्मणः ॥४२।
तृतीयादि दशम्यंतं निवेशश्च दिनाष्टकम् ।।
शुकसारणयोस्तत्र प्राप्तिरेकादशे दिने ॥४३।
पौषासिताख्यद्वादश्यां सैन्यसंख्यानमेव च ।।
शार्दूलेन कपींद्राणां सहसारोपवर्णनम् ॥४४।
त्रयोदश्या अमावास्यां लंकायां दिवसैस्त्रिभिः ।।
रावणः सैन्यसंख्यानं रणोत्साहं तदाकरोत् ॥४५।
प्रययावंगदो दौत्यं माघशुक्लाद्यवासरे ।।
सीतायाश्च ततो भर्तुर्मायामूर्द्धादिदर्शनम् ॥४६।
माघद्वितीयादि दिनैः सप्तभिर्यावदष्टमी ।।
रक्षसां वानराणां च युद्धमासीच्च संकुलम् ॥४७।
माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे ।।
रामलक्ष्मणयोर्नागपाशबंधः कृतः किल ॥४८।
आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः ।।
नागपाशविमोक्षार्थं दशम्यां पवनोऽजपत् ॥४९।
कर्णे स्वरूपं रामस्य गरुडागमनं ततः ।।
एकादश्यां च द्वादश्यां धूम्राक्षस्य वधः कृतः ॥५०।
त्रयोदश्यां तु तेनैव निहतः कंपनो रणे ।।
माघशुक्लचतुर्दश्या यावत्कृष्णादिवासरम् ॥५१।
त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ।।
माघकृष्णद्वितीयायाश्चतुर्थ्यं तं त्रिभिर्दिनैः ॥५२।
रामेण तुमुले युद्धे रावणो द्रावितो रणात् ।।
पंचम्या अष्टमीयावद्रावणेन प्रबोधितः ॥५३।
कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ।।
कुंभकर्णो दिनैः षड्भिर्नवम्यास्तु चतुर्दशीम् ॥५४।
रामेण निहतो युद्धे बहुवानरभक्षकः ।।
अमावास्यादिने शोकादवहारो बभूव ह ॥५५।
फाल्गुनादिप्रतिपदश्चतुर्थ्यंतं चतुर्दिनैः ।।
बिसतंतुप्रभृतयो निहताः पंचराक्षसाः ॥५६।
पंचम्याः सप्तमी यावदतिकायवधस्तथा ।।
अष्टम्याद्वादशी यावन्निहतौ दिनपंचकात् ॥५७।
निकुंभकुंभावूर्ध्वं तु मकराक्षस्त्रिभिर्दिनैः ।।
फाल्गुनासितद्वितीयायां दिने शक्रजिता जितम् ॥५८।
तृतीयादिसप्तम्यंतं दिनपंचकमेव च ।।
ओषध्यानयनव्यग्रादवहारो बभूव ह ॥५९।
ततस्त्रयोदशीयावद्दिनैः पंचभिरिंद्रजित् ।।
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः ॥६०।
चतुर्दश्यां दशग्रीवो दीक्षां प्रापावहारतः ।।
अमावास्यादिने प्रायाद्युद्धाय दशकंधरः ॥६१।
चैत्रशुक्लप्रतिपदः पंचमीदिनपंचकैः ।।
रावणे युद्ध्यमाने तु प्रचुरो रक्षसां वधः ॥६२।
चैत्रषष्ठ्याष्टमी यावन्महापार्श्वादि मारणम् ।।
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदनम् ॥६३।
कोपाविष्टेन रामेण द्रावितो दशकंधरः ।।
द्रोणाद्रिरांजनेयेन लक्ष्मणार्थमुपाहृतः ॥६४।
दशम्यामवहारोभूद्रात्रौ युद्धे तु रक्षसाम् ।।
एकादश्यां तु रामाय रथं मातलिसारथिः ॥६५।
प्रेरितो वासवेनाजावर्पयामास भक्तितः ।।
कोपवानथ द्वादश्या यावत्कृष्णचतुर्दशी ॥६६।
अष्टादशदिनै रामो रावणं द्वैरथेऽवधीत् ।।
संग्रामे तुमुले जाते रामो जयमवाप्तवान् ॥६७।
माघशुक्लद्वितीयायाश्चैत्रकृष्ण चतुर्दशीम् ।।
सप्ताशीतिदिनेष्वेव मध्यं पंचदशाहकम् ॥६८।
युद्धावहारः संग्रामो द्वासप्तति दिनान्यभूत् ।।
संस्कारो रावणादीनाममावस्या दिनेऽभवत् ॥६९।
वैशाखादि तिथौ राम उवास रणभूमिषु ।।
अभिषिक्तो द्वितीयायां लंकाराज्ये विभीषणः ॥७०।
सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ।।
हत्वा चिरेण लंकेशं लक्ष्मणाग्रज एव सः ॥७१।
गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु ।।
आदाय परया प्रीत्या जानकीं स न्यवर्तत ॥७२।
वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमाश्रितः ।।
विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ॥७३।
पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य तु ।।
भरद्वाजाश्रमे रामः सगणः समुपाविशत् ॥७४।
नंदिग्रामे तु षष्ठ्यां स भरतेन समागतः ।।
सप्तम्यामभिषिक्तोऽसावयोध्यायां रघूद्वहः ॥७५।
दशैकाधिकमासांस्तुचतुर्दशाहानि मैथिली ।।
उवास राम रहिता रावणस्य निवेशने ॥७६।
द्विचत्वारिंशक वर्षे रामो राज्यमकारयत् ।।
सीतायाश्च त्रयस्त्रिंशद्वत्सराश्च तदाभवन् ॥७७।
स चतुर्दशवर्षांते प्रविश्य च पुरीं प्रभुः ।।
अयोध्यां मुदितो रामो हत्वा रावणमाहवे ॥७८।
भ्रातृभिः सहितस्तत्र रामो राज्यमथाकरोत् ।।
राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ॥७९।
अगस्त्यः कुंभसंभूतिस्तमागंता रघोः पतिम् ।।
तद्वाक्याद्रघुनाथोऽसौ करिष्यति हयक्रतुम् ॥८०।
तस्यागमिष्यति हयो ह्याश्रमे तव सुव्रत ।।
तस्य योधाः प्रमुदिता आयास्यंति तवाश्रमम् ॥८१।
तेषामग्रे रामकथाः करिष्यसि मनोहराः ।।
तैः साकं त्वमयोध्यायां गंतासि वै द्विजर्षभ ॥८२।
दृष्ट्वा राममयोध्यायां पद्मपत्रनिभेक्षणम् ।।
तत्क्षणादेव संसारवार्धिनिस्तारवान्भव ॥८३।
इत्युक्त्वा मां मुनिवरो लोमशः सर्वबुद्धिमान् ।।
उवाच ते किं प्रष्टव्यं तदाहमवदं हि तम् ॥८४।
ज्ञातं त्वत्कृपया सर्वं रामचारित्रमद्भुतम् ।।
त्वत्प्रसादादवाप्स्येऽहं रामस्य चरणांबुजम् ॥८५।
मया नमस्कृतः पश्चाज्जगाम स मुनीश्वरः ।।
तत्प्रसादान्मयावाप्तं रामस्य चरणार्चनम् ॥८६।
सोऽहं स्मरामि रामस्य चरणावन्वहं मुहुः ।।
गायामि तस्य चरितं मुहुर्मुहुरतंद्रितः ॥८७।
पावयामि जनानन्यान्गानेन स्वांतहारिणा ।।
हृष्यामि तन्मुनेर्वाक्यं स्मारंस्मारं तदीक्षया ॥८८।
धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं महीतले ।।
रामचंद्र पदांभोज दिदृक्षा मे भविष्यति ॥८९।
तस्मात्सर्वात्मना रामो भजनीयो मनोहरः ।।
वंदनीयो हि सर्वेषां संसाराब्धितितीर्षया ॥९०।
तस्माद्यूयं किमर्थं वै प्राप्ताः को वानराधिपः ।।
यागं करोति धर्मात्मा हयमेधं महाक्रतुम् ॥९१।
तत्सर्वं कथयंत्वत्र यां तु वाहस्य पालने ।।
स्मरंतु रघुनाथांघ्रिं स्मृत्वा स्मृत्वा पुनः पुनः ॥९२।
इति वाक्यं समाकर्ण्य मुनेर्विस्मयमागताः ।।
रघुनाथं स्मरंतस्ते प्रोचुरारण्यकं मुनिम् ॥९३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे लोमशारण्यकसंवादे रामचरित्रकथनंनाम षट्त्रिंशत्तमोऽध्यायः ३६ ।