पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३८

← अध्यायः ०३७ पद्मपुराणम्
अध्यायः ०३८
वेदव्यासः
अध्यायः ०३९ →

सूत उवाच।
एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः ।
परमं हर्षमापेदे जगाद च फणीश्वरम् १।
वात्स्यायन उवाच।
कथां संशृण्वते मह्यं तृप्तिर्नास्ति फणीश्वर ।
रघुनाथस्य भक्तार्तिहारिकीर्तिकरस्य वै २।
धन्य आरण्यको नाम मुनिर्वेदधरः परः ।
रघुनाथं समालोक्य देहं तत्याज नश्वरम् ३।
ततो राज्ञो हयः कुत्र गतः केन नियंत्रितः ।
कथं तत्र रमानाथ कीर्तिर्जाता फणीश्वर ४।
सर्वं कथय मे तथ्यं सर्वज्ञोऽस्ति यतो भवान् ।
धराधरवपुर्धारी साक्षात्तस्य स्वरूपधृक् ५।
व्यास उवाच।
इति वाक्यं समाकर्ण्य प्रहृष्टेनांतरात्मना ।
उवाच रामचारित्रं तत्तद्गुणकथोदयम् ६।
शेष उवाच।
साधु पृच्छसि विप्रर्षे रघुनाथगुणान्मुहुः ।
श्रुता न श्रुतवत्कृत्वा तेषु लोलुपतां दधत् ७।
ततो निरगमद्वाहः सैनिकैर्बहुभिवृतः ।
रेवातीरे मनोज्ञे तु मुनिवृंदनिषेविते ८।
सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः ।
प्रसर्पंति निरीक्षंतस्तन्मार्गं रणकोविदाः ९।
वाजी गतोऽथ रेवाया ह्रदेऽगाधजलान्विते ।
भाले स्वर्णभवं पत्रं धारयन्पूजितांगकः १०।
ततो जले ममज्जासौ रामचंद्र हयो वरः ।
तदा सर्वे महाशूरास्तत्र विस्मयमागताः ११।
तैः परस्परमेवोचे कथं हयसमागमः ।
कोऽत्र गंता जले वाहमानेतुं तं महोदयम् १२।
इति यावत्समुद्विग्ना मंत्रयंते परस्परम् ।
तावद्वीरशतैः सार्धमाजगाम रघोः पतिः १३।
तान्सर्वान्विमनस्कान्स दृष्ट्वा शत्रुघ्नसंज्ञितः ।
पप्रच्छ मेघगंभीरवाचा वीरशिरोमणिः १४।
किं स्थितं निखिलैरद्य युष्माभिः संघशो जले ।
कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः १५।
जले किं विनिमग्नोऽसौ हृतो वा केन मानिना ।
तन्मे कथयत क्षिप्रं कथं यूयं विमोहिताः १६।
शेष उवाच।
इति वाक्यं समाकर्ण्य राज्ञो रघुवरस्य हि ।
कथयामासुस्ते सर्वं वीराः शूरशिरोमणिम् १७।
जना ऊचुः।
स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले ।
निममज्ज ततो नायाद्धयस्तव मनोहरः १८।
त्वमेव तत्र गत्वेमं वाहमानय वेगतः ।
अस्माभिस्तत्र गंतव्यं त्वया सार्द्धं महामते १९।
इति श्रुत्वा वचस्तेषां सैनिकानां रघूद्वहः ।
खेदं प्राप जनान्पश्यञ्जलसंतरणोद्यतान् २०।
उवाच मंत्रिमुख्यं स किं कर्तव्यमतः परम् ।
कथं वाहस्य संप्राप्तिर्भविष्यति वदस्व तत् २१।
के तत्र शूराः संयोज्या जलेऽन्वेषयितुं हयम् ।
को वा नयिष्यते वाहं केनोपायेन तद्वद २२।
इति राज्ञोवचः श्रुत्वा सुमतिर्मंत्रिसत्तमः ।
उवाच समये योग्यं शत्रुघ्नं हर्षयन्निव २३।
स्वामिन्नस्ति तव श्रीमञ्छक्तिरद्भुतकर्मणः ।
पातालगमने शक्तिर्जलमध्यादिह स्फुटम् २४।
अन्यच्च पुष्कलस्यापि शक्तिरस्ति महात्मनः ।
हनूमतोऽपि रामस्य पादसेवापरस्य च २५।
तस्माद्यूयं त्रयो गत्वा हयमानयत ध्रुवम् ।
यतो भवेद्वाहमेधो रघुनाथस्य धीमतः २६।
शेष उवाच।
इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरहा ।
स्वयं विवेश तोयांतर्हनुमत्पुष्कलान्वितः २७।
यावज्जलं विवेशासौ तावत्पुरमदृश्यत ।
अनेकोद्यानशोभाढ्यममेयं पुटभेदनम् २८।
तत्र माणिक्यरचिते स्तंभे स्वर्णमये हयम् ।
बद्धं ददर्श रामस्य स्वर्णपत्रसुशोभितम् २९।
स्त्रियस्तत्र मनोहारि रूपधारिण्य उत्तमाः ।
सेवंते सुंदरीमेकां पर्यंके सुखमास्थिताम् ३०।
तान्दृष्ट्वा ताः स्त्रियः सर्वाः प्रावोचन्स्वामिनीं प्रति ।
एतेऽल्पवर्ष्मवयसो मांसपुष्टकलेवराः ३१।
भविष्यंति तव श्रेष्ठमाहारस्य फलं महत् ।
एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम् ३२।
एतद्वचः समाकर्ण्य सेवकीनां वरांगना ।
जहास किंचिद्वदनं नर्तयंती भ्रुवानघा ३३।
तावत्त्रयस्ते संप्राप्ताः सन्नाहश्री विशोभिताः ।
शिरस्त्राणानि दधतः शौर्यवीर्यसमन्विताः ३४।
ता दृष्ट्वा महिलास्तत्र सौंदर्यश्रीसमन्विताः ।
प्रोचुस्ते विस्मयं विप्र किमिदं दृश्यते महत् ३५।
नमश्चक्रुर्महात्मानः सर्वे देववरांगनाः ।
किरीटमणिविद्योतद्योतितांघ्रियुगास्ततः ३६।
सा तान्पप्रच्छ पुरुषान्सर्वश्रेष्ठा तु भामिनी ।
के यूयमत्र संप्राप्ताः कथं चापधरा नराः ३७।
मत्स्थलं सर्वदेवानामगम्यं मोहनं महत् ।
अत्र प्राप्तस्य तु क्वापि निवृत्तिर्न भवत्युत ३८।
अश्वोऽयं कस्य राज्ञो वै कथं चामरवीजितः ।
स्वर्णपत्रेण शोभाढ्यः कथयंतु ममाग्रतः ३९।
शेष उवाच।
इति तस्या वचः श्रुत्वा मोहनाचारसंयुतम् ।
हनूमांस्तां प्रत्युवाच गतभीः प्रहसन्निव ४०।
वयं वै किंकरा राज्ञस्त्रैलोक्यस्य शिखामणेः ।
त्रिलोकीयं प्रणमते सर्वदेवशिरोमणिम् ४१।
रामभद्रस्य जानीहि हयमेधप्रवर्तितुः ।
प्रमुंच वाहमस्माकं कथं बद्धो वराङ्गने ४२।
वयं सर्वास्त्रकुशलाः सर्वशस्त्रास्त्रकोविदाः ।
नयिष्यामो बलाद्वाहं हत्वा तत्प्रतिरोधकान् ४३।
इति वाक्यं समाकर्ण्य प्लवङ्गस्य वराङ्गना ।
विवरस्था प्रत्युवाच हसंती वाक्यकोविदा ४४।
मयानीतमिमं वाहं न कोमोचयितुं क्षमः ।
वर्षायुतेन निशितैर्बाणकोटिभिरुच्छिखैः ४५।
परं रामस्य पादाब्जसैवकी कर्मकारिणी ।
न ग्रहीष्यामि तद्वाहं राजराजस्य धीमतः ४६।
महान विनयो जातो मम नेत्र्याः सुवाजिनः ।
क्षमताद्रामचंद्रस्तच्छरण्यो भक्तवत्सलः ४७।
यूयं क्लिष्टास्तत्पुरुषा हयार्थं तस्य रक्षितुः ।
याचध्वं वरमप्राप्यं देवानामपि सत्तमाः ४८।
यथा मेमीवमत्युग्रं क्षमेत पुरुषोत्तमः ।
व्रीडां त्यक्त्वाखिलां यूयं वृणुध्वं वरमुत्तमम् ४९।
तस्या वचः परं श्रुत्वा हनूमान्नि जगाद ताम् ।
रघुनाथप्रसादेन सर्वमस्माकमूर्जितम् ५०।
तथापि याचे वरमेकमुत्तमं ।
विधेहि तन्मे मनसः समीहितम् ।
भवे भवे नो रघुनायकः पति -।
र्वयं च तत्कर्मकराश्च किंकराः ५१।
एतद्वचनमाकर्ण्य प्लवगस्य तदांगना ।
उवाच वाक्यं मधुरं प्रहस्य गुणपूजितम् ५२।
भवद्भिः प्रार्थितं यद्वै दुर्ल्लभं सर्वदैवतैः ।
तद्भविष्यत्यसंदेहः सेवकास्तद्रघोः पतेः ५३।
अथापि वरमेकं वै दास्यामि कृतहेलना ।
रघुनाथस्य तुष्ट्यर्थं तदृतं मे भवेद्वचः ५४।
अग्रे वीरमणिर्भूपो महावीरसमन्वितः ।
ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः ५५।
तज्जयार्थे महास्त्रं मे गृह्णीत सुमहाबलाः ।
द्वैरथे स तु योद्धव्यः शत्रुघ्नेन त्वया महान् ५६।
इदमस्त्रं यदा त्वं तु क्षेपयिष्यसि संगरे ।
अनेन पूतो रामस्य स्वरूपं ज्ञास्यते पुनः ५७।
ज्ञात्वा तं वाजिनं दत्वा चरणे प्रपतिष्यति ।
तस्माद्गृह्णीध्वमस्त्रं तन्मम वैरिविदारणम् ५८।
तच्छ्रुत्वा रघुनाथस्य भ्राता जग्राह चास्त्रकम् ।
उदङ्मुखः पवित्रांगो योगिन्या दत्तमद्भुतम् ५९।
तत्प्राप्यास्त्रं महातेजा बभूव रिपुकर्शनः ।
दुष्प्रधर्ष्यो दुराराध्यो वैरिवारणसत्सृणिः ६०।
तां नत्वा राघवश्रेष्ठः शत्रुघ्नो हयसत्तमम् ।
गृहीत्वागाज्जलात्तस्माद्रेवातीरे सुखोचिते ६१।
तं दृष्ट्वा सैनिकाः सर्वे प्रहृष्टांगा मुदान्विताः ।
साधुसाधु प्रशंसंतः पप्रच्छुर्हयनिर्गमम् ६२।
हनूमान्कथयामास हयस्यागमनं महत् ।
वरप्राप्तिं च ताभ्यो वै तेऽपि श्रुत्वा मुदं गताः ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य योगिनीदर्शनजलमध्याद्वाहप्राप्तिर्नाम अष्टत्रिंशत्तमोऽध्यायः ३८ ।