पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४१

← अध्यायः ०४० पद्मपुराणम्
अध्यायः ०४१
वेदव्यासः
अध्यायः ०४२ →

शेष उवाच
युद्धाय ते सुसंनद्धाः शत्रुघ्नस्य महाबलाः ।
ययुर्वीरमणेः सैन्यमध्ये शौर्यसमन्विताः॥ १
शरान्विमुंचमानास्ते भिंदंतः सैनिकान्बहून् ।
व्यदृश्यंत रणांतःस्थाः शरासनधरा नराः॥ २
अनेके निहतास्तत्र गजा मणिमया रथाः ।
भग्ना वाहसमेताश्च दृश्यंते रणमंडले॥ ३
विहितं कदनं तेषां श्रुत्वा रुक्मांगदो बली ।
रथे मणिमये तिष्ठन्ययौ योद्धुं ससैनिकान् ॥४
शरासने शरान्धास्यन्निषुधी अक्षयौ दधत् ।
शोणनेत्रांतरो भीमो महाकोपसमन्वितः॥ ५
अनेकबाणसंविग्नान्कुर्वञ्छूरान्सहस्रशः ।
हाहाकारं कारयंस्तद्ययौ रुक्मांगदो बली॥ ६
राजपुत्रः स्वसदृशं बलेन यशसा श्रिया ।
आह्वयामास शत्रुघ्नं भारतिं पुष्कलं बली॥ ७
रुक्मांगद उवाच
आगच्छ वीरकर्मा त्वं महाबलपराक्रम ।
मया योद्धुं तु बलिना राजपुत्रेण भास्वता ॥८
किमन्यैस्त्रासितैर्वीर निहतैः कोटिभिर्नरैः ।
मया समं महायुद्धं विधाय जयमाप्नुहि ॥९
इत्युक्तवं तं तरसा प्रहसन्पुष्कलो बली ।
जघान विपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः ॥१०
तदमृष्यन्राजपुत्रो महाचापे दधच्छरान् ।
जघान दशभिर्वीरं पुष्कलं वक्षसोंऽतरे ॥११
उभौ समरसंरब्धावुभावपि जयैषिणौ ।
रेजाते समरे तौ हि कुमारतारकौ यथा ॥१२
बाणान्धनुषि संधाय दशसंख्यान्महाशितान् ।
अकरोत्पुष्कलो वीरो विरथं राजपुत्रकम् ॥१३
चतुर्भिश्चतुरोवाहान्द्वाभ्यां सूतमपातयत् ।
एकेन ध्वजमेतस्य द्वाभ्यां स्यंदनरक्षकौ ॥१४
एकेन हृदि विव्याध राजपुत्रस्य वेगवान् ।
तदद्भुतं कर्म दृष्ट्वा सर्वे वीराः प्रतोषिताः ॥१५
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अत्यंतं कोपमापन्नः स्यंदनं परमाविशत् ॥१६
स स्थित्वा स्यंदनवरे हयरत्नेन भूषिते ।
शरासनं महद्धृत्वा सुदृढं गुणपूरितम् ॥१७
उवाच पुष्कलं वीरं रुक्मांगद इदं वचः ।
महत्पराक्रमं कृत्वा क्व यास्यसि परंतप ॥१८
पश्य मेऽद्यपराक्रांतिं यद्बलेन विनिर्मिताम् ।
यत्नात्तिष्ठस्व भो वीर नयामि त्वद्रथं नभः ॥१९
इत्युक्त्वा शरमत्युग्रं दधार स्वशरासने ।
मंत्रयित्वा ततश्चास्त्रं भ्रामकं पौष्कले रथे ॥२०
मुमोच निशितं बाणं स्वर्णपंखैकशोभितम् ।
तेन बाणेन नीतोऽस्य रथो योजनमात्रकम् ॥२१
धृतः कृच्छ्रेण सूतेन रथो बभ्राम भूतले ।
कृच्छ्रेण प्राप्य स्वस्थानं पुष्कलः परमास्त्रवित् ॥२२
जगाद वचनं तं वै बाणं बिभ्रच्छरासने ।
स्वर्गं प्राप्नुहि वीराग्र्य सर्वदेवैश्च सेवितम् ॥२३
त्वादृशाः पृथिवीयोग्या न भवंति नृपोत्तम ।
शतक्रतुसभायोग्यास्तद्गच्छ त्वं सुरालयम् ॥२४
इत्युक्त्वा स मुमोचास्त्रमाकाशप्रापकं महत् ।
तेन बाणेन सरथो ययौ खमनुलोमतः ॥२५
सर्वांल्लोकानतिक्रामन्ययौ सूर्यस्य मंडलम् ।
तज्ज्वालया रथो दग्धो हयसूतसमन्वितः ॥२६
तत्करैर्दग्धभूयिष्ठ कलेवरः सुदुःखितः ।
पपात चंद्रचूडं स धृत्वा हृद्यसुखार्दनम् ॥२७
भूमौ निपतितस्तत्र करदग्धकलेवरः ।
अत्यंतं दुःखमापन्नो मुमूर्च्छ रणमंडले ॥२८
तस्मिन्निपतिते भूमौ मूर्च्छिते राजपुत्रके ।
हाहाकारो महानासीत्तत्र संग्राममूर्धनि ॥२९
वैरिणो जयलक्ष्मीं ते प्रापुः पुष्कलमुख्यकाः ।
पलायनपरा जाता वैरिणो हयरक्षकाः ॥३०
तदा पुत्रस्य वै मूर्च्छां दृष्ट्वा वीरमणिर्नृपः ।
प्रायात्समरमध्यस्थं पुष्कलं कोपपूरितः ॥३१
तदा भूमिश्चचालेयं सपर्वतवनोत्तमा ।
शूरा वै हर्षमापन्नाः कातरा भयपीडिताः ॥३२
चापं महद्दधानः स इषुधी अक्षयावपि ।
रोषान्निःश्वासमामुंचन्नाह्वयामास वैरिणम् ॥३३
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रुक्मांगदपराजय पुष्कलविजयोनाम एकचत्वारिंशत्तमोऽध्यायः ४१