पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४३

← अध्यायः ०४२ पद्मपुराणम्
अध्यायः ०४३
वेदव्यासः
अध्यायः ०४४ →

शेष उवाच
हनूमान्वीरसिंहं तु समागत्याब्रवीद्वचः ।
तिष्ठ यासि कुतो वीर जेष्यामि त्वां क्षणादिह ॥१
एवमुक्तं समाकर्ण्य प्लवगस्य वचो महत् ।
कोपपूरपरिप्लुष्टः कार्मुकं जलदस्वनम् ॥२
विनद्य घोरान्निशितान्बाणान्मुंचन्बभौ रणे ।
आषाढे जलदस्येव धारासारे मनोहरः ॥३
तान्दृष्ट्वा निशितान्बाणान्स्वदेहे सुविलग्नकान् ।
चुकोप हृदयेऽत्यतं हनूमानंजनी सुतः ॥४
मुष्टिना ताडयामास हृदये वज्रसारिणा ।
समुष्टिना हतो वीरः पपात धरणीतले ॥५
मूर्च्छितं तं समालोक्य पितृव्यं स शुभांगदः ।
रुक्मांगदोऽपि संमूर्च्छां त्यक्त्वागाद्रणमंडलम् ॥६
बाणान्समभिवर्षंतौ मेघाविव महास्वनौ ।
कुर्वंतौ कदनं घोरं प्लवंगं प्रति जग्मतुः ॥७
तौ दृष्ट्वा समरे वीरौ समायातौ कपीश्वरः ।
लांगूलेन च संवेष्ट्य सरथौ चापधारकौ ॥८
स्फोटयामास भूदेशे तत्क्षणान्मूर्च्छितावुभौ ।
निश्चेष्टौ समभूतां तौ रुधिरारक्तदेहकौ ॥९
बलमित्रश्चिरं युद्धं विधाय सुमदेन हि ।
मूर्च्छामप्रापयत्तं वै बाणैः सुशितपर्वभिः ॥१०
पुष्कलेन क्षणान्नीतो मूर्च्छां चैतन्यवर्जिताम् ।
जयमाप्तं तु कटकं शत्रुघ्नस्य भटार्दनम् ॥११
एतस्मिन्समये सांबः स्यंदनं वरमास्थितः ।
विस्फारयन्धनुर्दिव्यमुपाधावद्भटानिमान् ॥१२
जटाजूटांतरगतां चंद्ररेखां वहन्महान् ।
सर्पाभूषां मनःस्पर्शां दधदाजगवं धनुः ॥१३
मूर्च्छितान्स्वजनान्दृष्ट्वा भक्तार्तिघ्नो महेश्वरः ।
योद्धुं प्रायान्महासैन्यैः शत्रुघ्नस्य भटानिमान् ॥१४
सगणः सपरीवारः कंपयन्पृथिवीतलम् ।
भक्तरक्षार्थमागच्छंस्त्रिपुरं तु पुरा यथा ॥१५
कोपाच्छोणतरे नेत्रे वहन्प्रलयकारकः ।
पश्यन्वीरान्बहुमतीन्पिनाकी देववंदितः ॥१६
तमागतं महेशानं वीक्ष्य रामानुजो बली ।
जगाम समरे योद्धुं सर्वदेवशिरोमणिम् ॥१७
अथागतं तु शत्रुघ्नं रुद्रो वीक्ष्य पिनाकधृक् ।
उवाच परमापन्नः कोपं सगुणचापधृक् ॥१८
पुष्कलेन महत्कर्म कृतं रामांघ्रिसेविना ।
मद्भक्तं यो रणे हत्वा गतः समरमंडलम् ॥१९
अद्य क्वास्ति परो वीरः पुष्कलः परमास्त्रवित् ।
तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम् ॥२०
शेष उवाच
इत्युक्त्वा वीरभद्रं स प्रेषयामास पुष्कलम् ।
याहि त्वं समरे योद्धुं पुष्कलं सेवकार्दनम् ॥२१
नंदिनं प्रेषयामास हनूमंतं महाबलम् ।
कुशध्वजं प्रचंडं तु भृंगिणं च सुबाहुकम् ॥२२
सुमदं चंडनामानं गणं स्वीयं समादिशत् ।
पुष्कलस्तु समायांतं वीरभद्रं महागणम् ॥२३
महारुद्रस्य संवीक्ष्य योद्धुं प्रायान्महामनाः ।
पुष्कलः पंचभिर्बाणैस्ताडयामास संयुगे ॥२४
तैर्बाणैः क्षतगात्रस्तु त्रिशूलं स समादिशत् ।
स त्रिशूलं क्षणाच्छित्त्वा व्यगर्जत महाबलः ॥२५
छिन्नं स्वीयं त्रिशूलं वै वीक्ष्य रुद्रानुगो बली ।
खट्वांगेन जघानाशु मस्तके भारतिं द्विज ॥२६
खट्वांगाभिहतः सोऽथ मुमूर्च्छ क्षणमुद्भटः ।
विहाय मूर्च्छां सद्वीरः पुष्कलः परमास्त्रवित् ॥२७
शरैश्चिच्छेद खट्वांगं करस्थं तस्य तत्क्षणात् ।
वीरभद्रः स्वकेच्छिन्ने खट्वांगे करसंस्थिते ॥२८
परमक्रोधमापन्नो बभंज रथिनो रथम् ।
भंक्त्वा रथं तु वीरस्य पदातिं च विधाय सः ॥२९
बाहुयुद्धेन युयुधे पुष्कलेन महात्मना ।
स पुष्कलो रथं त्यक्त्वा चूर्णितं तेन वेगतः ॥३०
मुष्टिना ताडयामास वीरभद्रं महाबलः ।
अन्योन्यं मुष्टिभिर्घ्नंतावूरुभिर्जानुभिस्तथा ॥३१
परस्परवधोद्युक्तौ परस्परजयैषिणौ ।
एवं चतुर्दिनमभूद्रात्रिं दिवमपीशयोः ॥३२
न कोपि तत्र हीयेत न जीयेत महाबलः ।
पंचमे तु दिने वृत्ते वीरभद्रो महाबलः ॥३३
गृहीत्वा नभ उड्डीनो महावीरं तु पुष्कलम् ।
तत्र युद्धं तयोरासीद्देवासुरविमोहनम् ॥३४
मुष्टिना चरणाघातैर्बाहुभिः सुखुरैर्महत् ।
तदात्यंतं प्रकुपितः पुष्कलो वीरभद्रकम् ॥३५
गृहीत्वा कंठदेशे तु ताडयामास भूतले ।
तत्प्रहारेण व्यथितो वीरभद्रो महाबलः ॥३६
गृहीत्वा पुष्कलं पादे जघानास्फालयन्मुहुः ।
ताडयित्वा महीदेशे पुष्कलं सुमहाबलः ॥३७
त्रिशूलेन चकर्ताशु शिरो ज्वलितकुंडलम् ।
जगर्ज पुष्कलं हत्वा वीरभद्रो महाबलः ॥३८
गर्जता तेन शार्वेण प्रापितास्त्रा समुद्भटाः ।
हाहाकारो महानासीत्पुष्कले पतिते रणे ॥३९
त्रासं प्रापुर्जनाः सर्वे रणमध्ये सुकोविदाः ।
ते शशंशुश्च शत्रुघ्नं पुष्कलं पतितं रणे ॥४०
निहतं वीरभद्रेण महेश्वरगणेन वै ।
इत्याश्रुत्य महावीरः पुष्कलस्य वधं तदा ॥४१
दुःखं प्राप्तो रणेऽत्यतं कंपमानः शुचा महान् ।
तं दुःखितं च शत्रुघ्नं ज्ञात्वा रुद्रो ऽब्रवीद्वचः ॥४२
शत्रुघ्नं समरे वीरं शोचंतं पुष्कले हते ।
रे शत्रुघ्न रणे शोकं मा कृथाः सुमहाबल ॥४३
वीराणां रणमध्ये तु पातनं कीर्तये स्मृतम् ।
धन्यो वीरः पुष्कलाख्यो यश्च वै दिनपंचकम् ॥४४
युयुधे वीरभद्रेण महाप्रलयकारिणा ।
येन क्षणाद्विनिहतो दक्षो मदपमानकृत् ॥४५
क्षणाद्विनिहता येन दैत्यास्त्रिपुरसैनिकाः ।
तस्माद्युद्ध्स्व राजेंद्र शोकं त्यक्त्वा महाबल ॥४६
यत्नात्तिष्ठाद्य वीराग्र्य मयि योद्धरि संस्थिते ।
शोकं संत्यज्य शत्रुघ्नो वीरश्चुक्रोध शंकरम् ॥४७
आत्तसज्जधनुर्बाणैः प्रचच्छाद महेश्वरम् ।
ते बाणाः सुरशीर्षण्य वपुषं क्षतविक्षतम् ॥४८
अकुर्वत महच्चित्रं भक्तरक्षार्थमागतम् ।
ते बाणाः शंकरस्यापि बाणा नभसि संस्थिताः ॥४९
व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि ।
तद्बाणयोर्युद्धबलं वीक्ष्य सर्वत्र मेनिरे ॥५०
प्रलयं लोकसंहारकारकं सर्वमोहकम् ।
आकाशे तु विमानानि संश्रित्य स्वपुरस्थिताः ॥५१
विलोकयितुमागत्य प्रशंसंति तयोर्भृशम् ।
अयं लोकत्रयस्यास्य प्रलयोत्पत्तिकारकः ॥५२
असावपि महाराज रामचंद्रस्य चानुजः ।
किमिदं भविता को वा जेष्यति क्षितिमंडले ॥५३
पराजयं वा को वीरः प्राप्स्यते रणमूर्धनि ।
एवमेकादशाहानि वृत्तं युद्धं परस्परम् ॥५४
द्वादशे दिवसे प्राप्ते मुमोचास्त्रं नराधिपः ।
ब्रह्मसंज्ञं महादेवं हंतुं क्रोधसमन्वितः ॥५५
सविज्ञाय महास्त्रं तन्मुक्तं शत्रुघ्नवैरिणा ।
हसन्नप्यपिबत्तेन मुक्तं ब्रह्मशिरो महत् ॥५६
अत्यंतं विस्मयं प्राप्य किं कर्तव्यमतः परम् ।
एवं विचारयुक्तस्य हृदये ज्वलनोपमम् ॥५७
शरं वै निचखानाशु देवदेव शिरोमणिः ।
तेन बाणेन शत्रुघ्नो मूर्च्छितो रणमंडले ॥५८
हाहाभूतमभूत्सर्वं कटकं भटसेवितम् ।
वीराः सर्वे रुद्रगणैः पातिताः पृथिवीतले ॥५९
सुबाहुसुमदोन्मुख्याः स्वबाहुबलदर्पिताः ।
पतितं मूर्च्छया वीक्ष्य शत्रुघ्नं शरपीडितम् ॥६०
पुष्कलं तु रथे स्थाप्य सेवकैः परिरक्षितुम् ।
हनूमानागतो योद्धुं शिवं संहारकारकम् ॥६१
श्रीरामस्मरणं योधान्स्वीयान्विप्र प्रहर्षितान् ।
प्रकुर्वन्रोषितस्तीव्रं लांगूलं च प्रकंपयन् ॥६२
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलशत्रुघ्नपराजयोनाम त्रिचत्वारिंशत्तमोऽध्यायः ४३