पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४५

← अध्यायः ०४४ पद्मपुराणम्
अध्यायः ०४५
वेदव्यासः
अध्यायः ०४६ →

शेष उवाच
गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट् ।
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् ॥१
भयं तत्याज मनसि वानरात्समुपस्थितम् ।
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह ॥२
इंद्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि ।
देवानां जीवनं भूयः कथं स्यादिति मे वद ॥३
इदानीं पवनोद्भूतं प्रसादय यथातथम् ।
रामः प्रीतिं परां याति देवानां च सुखं भवेत् ॥४
देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा ।
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम् ॥५
जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः ।
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः ॥६
ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः ।
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ॥७
बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना ।
सुराधीशेन लोकस्य गुरुणा वदतां वरः ॥८
अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम् ।
श्रीरामचरणस्य त्वं सेवकोऽसि महामते ॥९
किमर्थमयमारंभः कथमत्र समागमः ।
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् ॥१०
रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय ।
पवनात्मज दैत्यानां भयंकरवपुर्दधत् ॥११
शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः ।
उवाच देवान्सकलान्गुरुं चैव महयशाः ॥१२
राज्ञो वीरमणेः संख्ये हताः शर्वेण भूरिशः ।
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम् ॥१३
तं ये निवारयिष्यंति स्ववीर्यबलदर्पिताः ।
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति ॥१४
तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम् ।
येन संजीवयिष्यामि मृतान्वीरान्रणांगणे ॥१५
शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः ।
ते सर्वे प्रणतिं गत्वा ददुः संजीवनौषधम् ॥१६
ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम् ।
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः ॥१७
हनुमान्भेषजं तत्तु समादायागतो रणम् ।
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः ॥१८
तमागतं हनूमंतं वीक्ष्य सर्वेऽपि वैरिणः ।
साधुसाधुप्रशंसंतमद्भुतं मेनिरे कपिम् ॥१९
कपिः समागत्य महामुदायुतः ।
पुरो भटं पुष्कलमागतं मृतम् ।
शिवेन संरक्षितमुग्रमंडले ।
श्रीरामचित्तं सविधे जगाम ह ॥२०
सुमतिं च समाहूय मंत्रिणं महतां मतम् ।
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान् ॥२१
एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि ।
शिरः कायेन संधाय जगाद वचनं शुभम् ॥२२
यद्यहं मनसा वाचा कर्मणा राघवं पतिम् ।
जानामि तर्हि एतेन भेषजेनाशु जीवतु ॥२३
इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः ।
रणांगणेऽदशद्रोषाद्दंतान्वीरशिरोमणिः ॥२४
क्व गतो वीरभद्रोऽसौ मां संमूर्च्छ्य रणांगणे ।
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम् ॥२५
इति तं भाषमाणं वै प्राह वीरं कपींद्रकः ।
धन्योऽसि वीर यद्भूयो वदस्येनं रणांगणे ॥२६
त्वं हतो वीरभद्रेण रघुनाथप्रसादतः ।
पुनः संजीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम् ॥२७
इत्युक्त्वा प्रययौ तत्र संग्रामवरमूर्धनि ।
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः ॥२८
तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः ।
निधाय भेषजं तस्य वक्षसि श्वासमागते ॥२९
उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम ।
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम ॥३०
यद्यहं ब्रह्मचर्यं च जन्मपर्यंतमुद्यतः ।
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात् ॥३१
उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः ।
क्व शिवः क्व शिवो यातो विहायरणमंडलम् ॥३२
अनेके निहताः संख्ये श्रीरुद्रेण पिनाकिना ।
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना ॥३३
तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः ।
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ॥३४
पुष्कलो वीरभद्रं तु चंडं चैव कुशध्वजः ।
नंदिनं हनुमान्वीरः शत्रुघ्नः संगरे शिवम् ॥३५
धनुर्विस्फारयंतं तं शत्रुघ्नं बलिनां वरम् ।
संग्रामे शिवमाहूय तिष्ठंतं प्रययौ नृपः ॥३६
राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली ।
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम् ॥३७
राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः ।
शत्रुघ्नस्य नरेंद्रस्य तिलशः क्षणतो द्विज ॥३८
तदा प्रकुपितोऽत्यंतं शत्रुघ्नो रणमंडले ।
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम् ॥३९
दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम् ।
अत्यंतं कुपितो राजा वारुणास्त्रं समाददे ॥४०
वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली ।
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ॥४१
वायुना संहता मेघा ययुस्ते सर्वतोदिशम् ।
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ॥४२
सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान् ।
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ॥४३
पर्वतैः स्तंभितो वायुर्न चासर्पत संगरे ।
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे ॥४४
वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः ।
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते ॥४५
वज्रास्त्रेण विदीर्णांगा वीराः शोणितशोभिताः ।
बभूवुः समरप्रांते चित्रं समभवद्रणम् ॥४६
तदा प्रकुपितोऽत्यंतं राजा वीरमणिर्महान् ।
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ॥४७
शत्रुघ्नः शरमादाय सस्मार सुमनोहरम् ।
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ॥४८
ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति ।
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम् ॥४९
मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह ।
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां संप्रापयन्नृपम् ॥५०
ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता ।
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः ॥५१
शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले ।
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ॥५२
शिवेन सहसा योद्धुं समायातो रणांगणे ।
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत ॥५३
तयोः समभवद्युद्धं घोरं वैरिविदारणम् ।
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगंतरम् ॥५४
अस्त्रप्रत्यस्त्रसंघातैस्ताडनप्रतिताडनैः ।
देवानामपि दैत्यानां नैतादृग्रणमंडलम् ॥५५
तदा व्याकुलितोऽत्यंतं शत्रुघ्नः शिवसंगरे ।
सस्मार स्वामिनं तत्र पावनेरुपदेशतः ॥५६
हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम् ।
करोति धनुरुद्यम्य त्रायस्व रणमंडले ॥५७
अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया ।
मामप्युद्धर दुःखस्थं रामराम कृपानिधे ॥५८
इत्थं वक्ति यदा तावद्वीक्षितो रणमंडले ।
नीलोत्पलदलश्यामो रामो राजीवलोचनः ॥५९
मृगशृंगं कटौ धृत्वा दीक्षितं वपुरुद्वहन् ।
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समरांगणे ॥६०
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रीरामसमागमोनाम पंचचत्वारिंशत्तमोऽध्यायः ४५