पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५०

← अध्यायः ०४९ पद्मपुराणम्
अध्यायः ०५०
वेदव्यासः
अध्यायः ०५१ →

शेष उवाच।
अथ रामानुजो वेगात्समागत्य स्वसेवकान् ।
पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः १।
तदा ते वचनं प्रोचुः शत्रुघ्नं सुमहाबलाः ।
न जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे २।
वयं च धिक्कृताः सर्वे बलिभी राजसेवकैः ।
अत्र प्रमाणं भगवानिति कर्तव्य तां प्रति ३।
तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कुपितो भृशम् ।
दशन्रोषात्स्वदशनाञ्जिह्वया लेलिहन्मुहुः ४।
उवाच वीरो मद्वाहं हृत्वा कुत्र गमिष्यसि ।
इदानीं पातये बाणैः पुरंजनसमन्वितम् ५।
इत्युक्त्वा सुमतिं प्राह कस्येदं पुटभेदनम् ।
को वर्ततेऽस्याधिपतिर्यो मे वाहमजीहरत् ६।
शेष उवाच।
इति वाक्यं समाकर्ण्य भूपतेः कोपसंयुतम् ।
जगाद मंत्री सुगिरा स्फुटाक्षरसमन्वितम् ७।
विद्धीदं कुंडलं नाम नगरं सुमनोहरम् ।
अस्मिन्वसति धर्मात्मा सुरथः क्षत्त्रियो बली ८।
नित्यं धर्मपरो रामचरणद्वंद्वसेवकः ।
मनसा कर्मणा वाचा हनूमानिव सेवकः ९।
चरितान्यस्य शतशो वर्तंते धर्मकारिणः ।
महाबलपरीवारः सुरथः सर्वशोभनः १०।
महद्युद्धं भवेदत्र हृतश्चेद्वाहसत्तमः ।
अनेके प्रपतिष्यंति वीरा रणविशारदाः ११।
एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रति ।
उवाच पुनरप्येवं वचनं वदतां वरः १२।
शत्रुघ्न उवाच।
कथमत्र प्रकर्तव्यं रामाश्वोऽनेन चेद्धृतः ।
नायाति योद्धुं प्रबलं कटकं वीरसेवितम् १३।
सुमतिरुवाच।
दूतः प्रेष्यो महाराज राजानं प्रति वाग्मिकः ।
यद्वाक्येन समायाति बलेन बलिनां वरः १४।
नोचेदज्ञानतो वाहो धृतः केनापि मानिना ।
अर्पयिष्यति नः साधुमश्वं क्रतुवरं शुभम् १५।
इति श्रुत्वातु तद्वाक्यं शत्रुघ्नो बुद्धिमान्बली ।
अंगदं प्रत्युवाचेदं वचनं विनयान्वितम् १६।
शत्रुघ्न उवाच।
याहि त्वं निकटस्थे वै सुरथस्य महापुरे ।
दूतत्वेन ततो गत्वा प्रब्रूहि नृपतिं प्रति १७।
त्वया धृतो रामवाहो ज्ञानतोऽज्ञानतोपि वा ।
अर्पयतु न वा यातु प्रधनं वीरसंयुतम् १८।
रामस्य दौत्यं लंकायां रावणं प्रति यत्कृतम् ।
तथैव कुरु भूयिष्ठ बलसंयुतबुद्धिमन् १९।
शेष उवाच।
एतच्छ्रुत्वांगदो वीर ओमिति प्रोच्य भूमिपम् ।
जगाम संसदो मध्ये वीरश्रेणिसमन्विते २०।
ददर्श सुरथं भूपं तुलसीमंजरीधरम् ।
रामभद्रं रसनया ब्रुवंतं सेवकान्निजान् २१।
राजापि दृष्ट्वा प्लवगं मनोहरवपुर्धरम् ।
शत्रुघ्नदूतं मत्वापि वालिजं प्रत्यभाषत २२।
सुरथ उवाच।
प्लवगाधिप कस्मात्त्वमागतोऽत्र कथं भवान् ।
ब्रूहि मे कारणं सर्वं यथा ज्ञात्वा करोमि तत् २३।
शेष उवाच।
इति संभाषमाणं तं प्रत्युवाच कपीश्वरः ।
विस्मयंश्चेतसि भृशं रामसेवाकरं नृपम् २४।
जानीहि मां नृपश्रेष्ठ वालिपुत्रं हरीश्वरम् ।
शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोंऽतिकम् २५।
सेवकैः कैश्चिदागत्य धृतोऽश्वो मम सांप्रतम् ।
अज्ञानतो महान्याय्यं कुर्वद्भिः सहसा नृप २६।
तमश्वं सह राज्येन सहपुत्रैर्मुदान्वितः ।
शत्रुघ्नं याहि चरणे पतित्वाशु प्रदेहि च २७।
नोचेच्छत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहः ।
पृथ्वीतलमलं कुर्वञ्छयिष्यसि विशीर्षकः २८।
येन लंकापतिर्नाशं प्रापितो लीलया क्षणात् ।
तस्याश्वं यागयोग्यं तु हृत्वा कुत्र गमिष्यसि २९।
शेष उवाच।
इत्यादिभाषमाणं तं प्रत्युवाच महीश्वरः ।
सर्वं तथ्यं ब्रवीषि त्वं नानृतं तव भाषितम् ३०।
परं शृणुष्व मद्वाक्यं शत्रुघ्नपदसेवक ।
मया धृतो महानश्वो रामचंद्रस्य धीमतः ३१।
न मोक्ष्ये सर्वथा वाहं शत्रुघ्नादिभयादहम् ।
चेद्रामः स्वयमागत्य दर्शनं दास्यते मम ३२।
तदाहं चरणौ नत्वा दास्यामि सुतसंयुतः ।
सर्वं राज्यं कुटुंबं च धनं धान्यं बलं बहु ३३।
क्षत्त्रियाणामयं धर्मः स्वामिनापि विरुद्ध्यते।
धर्मेण युद्धं तत्रापि रामदर्शनमिच्छता ३४।
शत्रुघ्नादीन्प्रवीरांस्तानधुनाहं क्षणादपि ।
जित्वा बध्नामि मद्गेहे नोचेद्रामः समाव्रजेत् ३५।
शेष उवाच।
इति श्रुत्वांगदो धीमाञ्जहास नृपतिं तदा ।
उवाच च महद्वाक्यं महाधैर्यसमन्वितम् ३६।
अंगद उवाच।
बुद्धिहीनः प्रवदसि वृद्धत्वात्सागता तव ।
यत्त्वं शत्रुघ्ननृपतिं धिक्करोषि धिया बली ३७।
यो मांधातृरिपुं दैत्यं लवणं लीलयावधीत् ।
येनानेके जिताः संख्ये वैरिणः प्रबलोद्धताः ३८।
विद्युन्माली हतो येन राक्षसः कामगे स्थितः ।
त्वं तं बध्नासि वीरेंद्रं मतिहीनः प्रभासि मे ३९।
भ्रातृजो यस्य सुबली पुष्कलः परमास्त्रवित् ।
येन रुद्रगणः संख्ये वीरभद्रः सुतोषितः ४०।
वर्णयामि किमेतस्य पराक्रांतिं बलोर्जिताम् ।
येन नास्ति समः पृथ्व्यां बलेन यशसा श्रिया ४१।
हनूमान्यस्य निकटे रघुनाथपदाब्जधीः ।
यस्यानेकानि कर्माणि भविष्यंति श्रुतानि ते ४२।
सत्रिकूटा राक्षसपूर्दग्धा येन क्षणाद्बलात् ।
अक्षो येन हतः पुत्रो राक्षसेंद्रस्य दुर्मतेः ४३।
द्रोणोनाम गिरिर्येन पुच्छाग्रेण सदैवतः ।
आनीतो जीवनार्थं तु सैनिकानां मुहुर्मुहुः ४४।
जानाति रामश्चारित्रं नान्यो जानाति मूढधीः ।
यं कपींद्रं मनाक्स्वान्तान्न विस्मरति सेवकम् ४५।
सुग्रीवाद्याः कपींद्रा ये पृथ्वीं सर्वां ग्रसंति ये ।
ते शत्रुघ्नं नृपं सर्वे सेवंते प्रेक्षणोत्सुकाः ४६।
कुशध्वजो नीलरत्नो रिपुतापो महास्त्रवित् ।
प्रतापाग्र्यः सुबाहुश्च विमलः सुमदस्तथा ४७।
राजा वीरमणिः सत्ययुतो रामस्य सेवकः ।
एतेऽन्येपि नृपा भूमेः पतयः पर्युपासते ४८।
तत्र त्वं वीर जलधौ मशकः को भवानिति ।
तज्ज्ञात्वा गच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युतः ४९।
वाहं समर्प्य गंतासि रामं राजीवलोचनम् ।
दृष्ट्वा कृतार्थी कुरुषे स्वांगानि जनुषा सह ५०।
शेष उवाच।
राजा प्रोवाच तं दूतं प्रब्रुवंतमनेकधा ।
एतान्दर्शयसि क्षिप्रं सर्वे न ममगोचराः ५१।
यादृशं मद्बलं दूत तादृशं न हनूमतः ।
यो रामं पृष्ठतः कृत्वा प्रागाद्यागस्य पालने ५२।
यद्यहं मनसा वाचा कर्मणा कुतुकान्वितः ।
भजामि रामं तर्ह्याशु दर्शयिष्यति स्वां तनुम् ५३।
अन्यथा हनुमन्मुख्या वीरा बध्नंतु मां बलात् ।
गृह्णंतु वाहं तरसा रामभक्तिसमन्विताः ५४।
गच्छ त्वं नृप शत्रुघ्नं कथयस्व ममोदितम् ।
सज्जीभवंतु सुभटा एष यामि रणे बली ५५।
स विचार्य यथायुक्तं करिष्यति रणांगणे ।
मोचयंतु महावाहं न वामा मा ददंतु ते ५६।
शेष उवाच।
इति श्रुत्वास्मि तं कृत्वा ययौ वीरो यतो नृपः ।
गत्वा निवेदयामास यथोक्तं सुरथेन वै ५७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथदूतयोः संवादोनाम पंचाशत्तमोऽध्यायः ५०।