पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५८

← अध्यायः ०५७ पद्मपुराणम्
अध्यायः ०५८
वेदव्यासः
अध्यायः ०५९ →

शेष उवाच।
भरतं मूर्च्छितं दृष्ट्वा रघुनाथः सुदुःखितः ।
प्रतीहारमुवाचेदं शत्रुघ्नं प्रापयाशु माम् १।
तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयत् ।
यत्र रामो निजभ्राता भरतेन सह स्थितः २।
भरतं मूर्च्छितं दृष्ट्वा रघुनाथं च दुःखितम् ।
प्रणम्य दुःखितोऽवोचत्किमिदं दारुणं महत् ३।
तदा रामोंऽत्यजप्रोक्तं वाक्यं लोकविगर्हितम् ।
तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम् ४।
अधोमुखो दीनरवो गद्गदाक्षरवेपथुः ।
शृणु भ्रातर्वचो मेऽद्य कुरु तत्क्षिप्रमादरात् ५।
यथा स्याद्विमलाकीर्तिर्गंगेव पृथिवीं गता ।
सीताया वाच्यमतुलं लोके श्रुत्वांत्यजोदितम् ६।
हातुमिच्छामि देहं स्वमेनां वा जानकीं किल ।
इति वाक्यं समाकर्ण्य रामस्य किल शत्रुहा ७।
सवेपथुः पपातोर्व्यां दुःखितः परदारणः ।
संज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत ८।
शत्रुघ्न उवाच।
किमेतदुच्यते स्वामिञ्जानकीं प्रति दारुणम् ।
पाखंडैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः ९।
निंदिता श्रुतिरग्राह्या भवति त्वग्र्यजन्मनाम् ।
जाह्नवी सर्वलोकानां पापघ्नी दुरितापहा १०।
निस्पृष्टा पापिभिः पुंभिः सा स्पर्शेनार्हिता सताम् ।
सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो ११।
उलूकानां रुचिकरो न भवेत्तत्र का क्षतिः ।
तस्मात्त्वमेनां गृह्णीष्व मा त्यजानिंदितां स्त्रियम् १२।
श्रीरामभद्रकृपया कुरुष्व वचनं मम ।
एतच्छ्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः १३।
पुनःपुनर्जगादेदं यदुक्तं भरतं प्रति ।
तन्निशम्य वचो भ्रातुर्दुःखपूरपरिप्लुतः १४।
पपात मूर्च्छितो भूमौ छिन्नमूल इव द्रुमः ।
भ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृशम् १५।
प्रतीहारमुवाचेदं लक्ष्मणं त्वानयांतिकम् ।
स लक्ष्मणगृहं गत्वा न्यवेदयदिदं वचः १६।
प्रतीहार उवाच।
स्वामिन्रामो भवंतं तु समाह्वयति वेगतः ।
स तच्छ्रुत्वा समाह्वानं रामचंद्रेण वेगतः १७।
जगाम तरसा तत्र यत्र स भ्रातृकोऽनघः ।
भरतं मूर्च्छितं दृष्ट्वा शत्रुघ्नमपि मूर्च्छितम् १८।
श्रीरामचंद्रं दुःखार्तं दुःखितो वाक्यमब्रवीत् ।
किमेतद्दारुणं राजन्दृश्यते मूर्च्छनादिकम् १९।
तदाशु शंस मां सर्वं कारणं मुख्यतोऽनघ ।
एवं वदंतं नृपतिर्वृत्तांतं सर्वमादितः २०।
शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतम् ।
लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसंभवम् २१।
निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवत् ।
भ्रातरं स्तब्धगात्रं च कंपमानं मुहुर्मुहुः २२।
न किंचन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत् ।
किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसांकितः २३।
त्यजामीदं वपुः श्रीमल्लोकभीत्या च शोकवान् ।
सर्वदा भ्रातरो मह्यं मद्वाक्यकरणोत्सुकाः २४।
इदानीं तेपि दैवेन प्रतिकूलवचः कराः ।
कुत्र गच्छामि कं यामि हसिष्यंति नृपा भुवि २५।
दुर्यशो लांछितं मां वै कुष्ठिनं रूपवन्नराः ।
मनोर्वंशे पुरा भूपा जाता जाता गुणाधिकाः २६।
इदानीं मयि जाते तु विपरीतं बभूव तत् ।
इति संभाषमाणं तं रामभद्रं समीक्ष्य सः २७।
संस्तभ्याश्रूणि विपुलान्युवाच विकल स्वरः ।
स्वामिन्विषादं मा कार्षीः कथं तव मतिर्हृता २८।
सीतामनिंदितां को नु त्यजति श्रुतवान्भवान् ।
आकारयामि रजकं परिपृच्छामि तं प्रति २९।
कथं त्वयानिंदिता सा जानकी योषितां वरा ।
तव देशे बलात्कश्चिद्बाध्यते न जनोऽल्पकः ३०।
तस्मात्तस्य यथास्वांते प्रतीतिः स्यात्तथाचर ।
किमर्थं त्यज्यते भीरुः पतिव्रतपरायणा ३१।
मनसा वचसा नान्यं जानाति जनकात्मजा ।
तस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम् ३२।
ममोपरि कृपां कृत्वा मदुक्तं संश्रयाशु तत् ।
एवं वदंतं प्रत्यूचे रामः शोकेन कर्षितः ३३।
लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः ३४।
राम उवाच।
कथं तु मां ब्रवीषि त्वं मा त्यजैनामनिंदिताम् ।
लोकापवादात्त्यक्ष्येऽहं जानन्नपि विपापिनीम् ३५।
स्वयशः कारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम् ।
त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम् ३६।
किमुतान्ये गृहाः पुत्रा मित्राणि वसुशोभनम् ।
स्वयशःकारणे सर्वं त्यजामि किमु मैथिलीम् ३७।
न तथा मे प्रियो भ्राता न कलत्रं न बांधवाः ।
यथा मे विमलाकीर्तिर्वल्लभा लोकविश्रुता ३८।
इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवम् ।
कालेन सर्वं भविता लोकचित्तस्य रंजनम् ३९।
आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौ ।
सकालेन परीपाकाद्भेषजादेव नश्यति ४०।
तथा कालेन संभावि सांप्रतं मा विलंबय ।
त्यजैनां विपिने साध्वीं मां वा खड्गेन घातय ४१।
इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान् ।
चिंतयामास च स्वांते लक्ष्मणः शोककर्षितः ४२।
पित्राज्ञप्तो जामदग्न्यो मातरं चाप्यघातयत् ।
गुरोराज्ञा नैव लंघ्या युक्ताऽयुक्तापि सर्वथा ४३।
तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्यया ।
इति संचिंत्य मनसि भ्रातरं प्रत्युवाच सः ४४।
लक्ष्मणउवाच।
अकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लंघयेत् ।
तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत ४५।
इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सः ।
साधुसाधु महाप्राज्ञ त्वया मे तोषितं मनः ४६।
अद्यैव रात्रौ जानक्या दोहदस्तापसी क्षणे ।
तन्मिषेण रथे स्थाप्य मोचयैनां महावने ४७।
इत्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितः ।
रुदन्बाष्पकलां मुंचञ्जगाम स्वं निवेशनम् ४८।
सुमंत्रं तु समाहूय वचनं तमथाब्रवीत् ।
रथं मे कुरु सज्जं वै सदश्ववरभूषितम् ४९।
स तद्वाक्यं समाकर्ण्य रथमानीतवांस्तदा ।
आनीतं तं रथं दृष्ट्वा लक्ष्मणः शोककर्षितः ५०।
परमं दुःखमापन्नः संरुह्य स्यंदनं वरम् ।
निःश्वसञ्जानकीगेहं प्रतस्थे भ्रातृसेवकः ५१।
गत्वा चांतःपुरे भ्राता रामस्य मिथिलात्मजाम् ।
प्रत्यूचे निःश्वसन्वाक्यं दुःखपूरपरिप्लुतः ५२।
मातर्जानकि रामेण प्रेषितो भवनं तव ।
तापसीः प्रति याहि त्वं दोहदप्राप्तिहेतवे ५३।
इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजा ।
परमं हर्षमापन्ना लक्ष्मणं प्रत्यभाषत ५४।
जानक्युवाच।
धन्याहं मैथिली राज्ञी रामस्य चरणस्मरा ।
यस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणम् ५५।
अद्याहं ता वनचरीस्तापसीः पतिदेवताः ।
नमस्कुर्यां च वासोभिः पूजयामि मनोहराः ५६।
इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि च ।
मणीन्विमलमुक्ताश्च कर्पूरादिसुगंधिमत् ५७।
चंदनादिकवस्तूनि विचित्राणि सहस्रधा ।
जग्राह रघुनाथस्य पत्नी स्वप्रियकाम्यया ५८।
सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुः ।
लक्ष्मणं प्रतिगच्छंती देहल्यां चास्खलत्तदा ५९।
अविचार्य तदौत्सुक्याल्लक्ष्मणं प्रियकारिणम् ।
उवाच कुत्र सरथो येन मां प्रापयिष्यसि ६०।
स निःश्वसन्रथं हैमं जानक्या सह निर्विशत् ।
सुमंत्रं प्रत्युवाचासौ चालयाश्वान्मनोजवान् ६१।
स सुयुक्तं रथं वाक्याल्लक्ष्मणस्य तु चाह्वयत् ।
अश्रुपूर्णमुखं पश्यँल्लक्ष्मणं स मुहुर्मुहुः ६२।
आहतास्तेन कशया वाहास्तस्यापतन्पथि ।
न चलंति यदा वाहास्तदा लक्ष्मणमब्रवीत् ६३।
सुमंत्र उवाच।
स्वामिंश्चलंति नो वाहा यत्नेन परिचालिताः ।
किं करोमि न जानेऽत्र कारणं वाहपातने ६४।
एवं ब्रुवंतं प्रत्यूचे लक्ष्मणो गद्गदस्वरः ।
सारथिं धैर्यमास्थाय ताडयैतान्कशादिभिः ६५।
एतच्छ्रुत्वोदितं यंता कथंचित्समचालयत् ।
तदा स्फुरद्दक्षनेत्रं जानक्या दुःखशंसकम् ६६।
तदैव हृदये शोकः समभूद्दुःखशंसकः ।
तदैव पक्षिणः पुण्याः कुर्वंति परिवर्तनम् ६७।
एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरम् ।
कथं मे तापसीक्षायै यातुमिच्छा रघूद्वह ६८।
रामे भूयाद्धि कल्याणं भरते वा तथानुजे ।
तत्प्रजासु च सर्वत्र मा भवंतु विपर्ययाः ६९।
एवं ब्रुवंतीं संवीक्ष्य जानकीं च स लक्ष्मणः ।
न किंचिदुक्तवान्रुद्ध कंठो बाष्पप्रपूरितः ७०।
सा गच्छंती मृगान्वामं परिवर्तनकारकान् ।
अपश्यद्दुःखसंघातकारकान्समभाषत ७१।
अद्य यन्मे मृगा वामं वर्तयंति तदिष्यते ।
श्रीरामचरणौ मुक्त्वा गच्छंत्यायुक्तमेव तत् ७२।
महिलानां परोधर्मः स्वभर्तृचरणार्चनम् ।
तन्मुक्त्वान्यत्र यांत्या मे यद्भवेद्युक्तमेव तत् ७३।
एवं पथि विचारं तु कुर्वंत्या परमार्थतः ।
जाह्नवी ददृशे देव्या मुनिवृंदैकसेविता ७४।
यस्यां जलस्य कल्लोला दृश्यंते दुग्धसंनिभाः ।
तरंगो दृश्यते यत्र स्वर्गसोपानमूर्तिभृत् ७५।
यस्या वारिकणस्पर्शान्महापातकसंचयः ।
पलायते न कुत्रापि स्थानमीक्षन्समंततः ७६।
गंगां प्राप्याथ सौमित्रिर्जानकीं स्यंदने स्थिताम् ।
उवाच निर्गलद्बाष्प एहि सीते रथाद्भुवि ७७।
सीता तद्वाक्यमाकर्ण्य क्षणादवततार सा ।
लक्ष्मणेन धृता बाहौ स्खलंती पथि कंटकैः ७८।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे जानक्या गंगादर्शनंनाम अष्टपंचाशत्तमोऽध्यायः ५८।