पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६०

← अध्यायः ०५९ पद्मपुराणम्
अध्यायः ०६०
वेदव्यासः
अध्यायः ०६१ →

शेष उवाच।
शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन् ।
उवाच तान्सुकुपितो रोषसंदंशिताधरः १।
केन वीरेण वो बाहुकृंतनं समकारि भोः ।
तस्याहं बाहू कृंतामि देवगुप्तस्य वै भटाः २।
न जानाति महामूढो रामचंद्र बलं महत् ।
इदानीं दर्शयिष्यामि पराक्रांत्या बलं स्वकम् ३।
स कुत्र वर्तते वीरो हयः कुत्र मनोरमः ।
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् ४।
इति ते कथिता वीरा विस्मिता दुःखिता भृशम् ।
रामचंद्र प्रतिनिधिं बालकं समशंसत ५।
स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम् ।
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः ६।
सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया ।
रिपुः संप्रति गंतव्यो महाबलपराक्रमः ७।
नायं बालो हरिर्नूनं भविष्यति हयंधरः ।
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ८।
अवश्यं कदनं भाविसैन्यस्य बलिनो महत् ।
स्वच्छंदचरितैः खेलन्नास्ते निर्भयधीः शिशुः ९।
तत्र गंतव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः ।
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः १०।
सज्जीचकार सेनां तां दुर्व्यूढां चतुरंगिणीम् ।
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरंगयुतां वराम् ११।
आज्ञापयत्ततो गंतुं यत्र बालो हयंधरः ।
सा चचाल तदा सेना चतुरंगसमन्विता १२।
कंपयंती महीभागं त्रासयंती रिपून्बलात् ।
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् १३।
विचार्य रामप्रतिममब्रवीद्वचनं हितम् ।
बाल मुंच हयश्रेष्ठं रामस्य बलशालिनः १४।
सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः ।
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते १५।
अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति ।
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि १६।
जहास किंचिदाकोपादुवाच च वचोद्भुतम् ।
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम् १७।
त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना ।
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि १८।
मातृपादप्रसादेन तूलीभूता न संशयः ।
कालजित्तव यन्नाम मात्राकारि मनोज्ञया १९।
पक्वबिंबफलस्येव वर्णतो न च वीर्यतः ।
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः २०।
मां कालं तव संजित्य सत्यनामा भविष्यसि ।
शेष उवाच।
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः २१।
चुकोप हृदयेऽत्यतं जगाद वचनं पुनः ।
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक ।
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा २२।
पादचारं रथस्थोऽहमधर्मेण कथं जये ।
तदात्यंतं प्रकुपितो जगाद वचनं पुनः २३।
कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा ।
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान् २४।
इदानीं त्वामपि भटं करिष्ये पादचारिणम् ।
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली २५।
टंकारयामास तदा वीरानाकंपयन्हृदि ।
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः २६।
मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः ।
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः २७।
ताडयामास जवनो लवं रणविशारदः ।
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः २८।
सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः ।
विरथो गजमानीतमारुरोह भटैर्निजैः २९।
मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम् ।
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः ३०।
बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी ।
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः ३१।
गदां मुमोच महतीं महायस विनिर्मिताम् ।
आपतंतीं गदां वेगाद्भारायुतविनिर्मिताम् ३२।
त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः ।
परिघं निशितं घोरं वैरिप्राणहरोदितम् ३३।
मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः ।
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः ३४।
गजोपस्थे समारूढं मन्यमानश्चुकोप ह ।
तत्क्षणादच्छिनत्तस्य शुंडां खड्गेन दंतिनः ३५।
दंतयोश्चरणौ धृत्वा रुरोह गजमस्तके ।
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ३६।
केशेष्वाकृष्य सेनान्यं पातयामास भूतले ।
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः ३७।
हृदये ताडयामास मुष्टिना वज्रमुष्टिना ।
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान् ३८।
मुमोच हृदये क्षिप्रं कुंडलीकृतधन्ववान् ।
स रराज रणोपांते कुंडलीकृत चापवान् ३९।
शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः ।
स विद्धः सायकैस्तीक्ष्णैस्तं हंतुं खड्गमाददे ४०।
दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः ।
खड्गहस्तं समायांतं शूरं सेनापतिं लवः ४१।
चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत् ।
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः ४२।
वामेन गदया हंतुं प्रचक्राम भुजेन तम् ।
सोऽपि च्छिन्नो भुजस्तस्य सांगदस्तीक्ष्णसायकैः ४३।
तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम् ।
लवः पादाहतस्तस्य न चचाल रणांगणे ४४।
स्रजाहतो द्विप इव चरणच्छेदनं व्यधात् ।
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे ४५।
तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम् ।
करवालं समादाय करे कालानलोपमम् ४६।
अच्छिनच्छिर एतस्य महामुकुटशोभितम् ।
हाहाकारो महानासीच्चमूनाथे निपातिते ४७।
सैनिकाः परिसंक्रुद्धा लवं हंतुं समागताः ।
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ४८।
छिन्नाभिन्नांगकाः केचिद्गता केचिद्रणांगणात् ।
स निवार्याखिलान्योधान्विजगाह चमूं मुदा ४९।
वाराह इव निःश्वस्य प्रलये सुमहार्णवम् ।
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ५०।
दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा ।
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः ५१।
अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः ।
रथिनः करमध्यस्थ धनुर्दंडसुशोभिनः ५२।
रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः ।
संदष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः ५३।
पतितास्तत्र दृश्यंते वीरा रणविशारदाः ।
सुस्राव शोणितसरिद्धयमस्तककच्छपा ५४।
महाप्रवाहललिता वैरिणां भयकारिका ।
केषांचिद्बाहविश्छिन्नाः केषां पादा विकर्तिता ५५।
केषां कर्णाश्च नासाश्च केषां कवचकुंडले ।
एवं तु कदनं जातं सेनान्यां पतिते रणे ५६।
सर्वे निपतिता वीरा न केचिज्जीवितास्ततः ।
लवो जयं रणे प्राप्य वैरिवृंदं विजित्य च ५७।
अन्यागमनशंकायां मनः कुर्वन्नवैक्षत ।
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ५८।
शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम् ।
गत्वा ते कथयामासुर्यथावृत्तं रणांगणे ५९।
कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम् ।
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ६०।
हसन्रोषाद्दशन्दंतान्बालग्राह हयं स्मरन् ।
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः ६१।
किं वा वैकल्यमायातं कालजिन्मरणं कथम् ।
यः संख्ये वैरिवृंदानां दारुणः समितिंजयः ६२।
तं कथं बालको जीयाद्यमस्यापि दुरासदम् ।
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः ६३।
नास्माकं मदमत्तादि न च्छलो न च देवनम् ।
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते ६४।
बलं च कृत्स्नं मथितं बालेनातुलशौंडिना ।
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः ६५।
बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम् ।
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ६६।
सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ६७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवयुद्धे सैन्यपराजय कालजित्सेनानीमरणंनाम षष्टितमोऽध्यायः ६०।