पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७२

← अध्यायः ०७१ पद्मपुराणम्
अध्यायः ०७२
वेदव्यासः
अध्यायः ०७३ →

ईश्वर उवाच-।
तदेकाग्रमना भूत्वा शृणु देवि वरानने ।
आसीदुग्रतपा नाम मुनिरेको दृढव्रतः १।
साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः ।
जजाप परमं जाप्यं मंत्रं पंचदशाक्षरम् २।
काममंत्रेण पुटितं कामं कामवरप्रदात् ।
कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम् ३।
दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम् ।
पीतपट्टधरं वेणुं करेणाधरमर्पितम् ४।
नवयौवनसंपन्नं कर्षंतं पाणिना प्रियाम् ।
एवं ध्यानपरः कल्पशतांते देहमुत्सृजन् ५।
सुनंद नाम गोपस्य कन्याभूत्स महामुनिः ।
सुनंदेति समाख्याता या वीणां बिभ्रती करे ६।
मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः ।
सशुष्कपत्रं भुंक्ते यः प्रजजाप परं मनुम् ७।
रत्यंतं कामबीजेन पुटितं च दशाक्षरम् ।
स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम् ८।
धृत्वा रमाया दोर्वल्लीद्वितयं कंकणोज्ज्वलम् ।
नृत्यंतमुन्मदंतं च संश्लिष्यं तं मुहुर्मुहुः ९।
हसंतमुच्चैरानंदतरंगं जठरांबरे ।
दधतं वेणुमाजानु वैजयंत्या विराजितम् १०।
स्वेदांभः कणसंसिक्त ललाटवलिताननम् ।
त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः ११।
दशकल्पांतरे जातो ह्ययं नंदवनादिह ।
सुभद्र नाम्नो गोपस्य कन्या भद्रेति विश्रुता १२।
यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते ।
हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः १३।
सोऽप्यतप्यत्तपः कृच्छ्रं नित्यं पत्रैकभोजनम् ।
आशुसिद्धिकरं मंत्रं विंशत्यर्णं प्रजप्तवान् १४।
अनंतरं कामबीजादध्यारूढं तदेव तु ।
माया तत्पुरतो व्योम हंसासृग्द्युतिचंद्रकम् १५।
ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम् ।
दध्यौ वृंदावने रम्ये माधवीमंडपे प्रभुम् १६।
उत्तानशायिनं चारुपल्लवास्तरणोपरि ।
कयाचिदतिकामार्त्त बल्लव्या रक्तनेत्रया १७।
वक्षोजयुगमाच्छाद्य विपुलोरः स्थलं मुहुः ।
संचुंब्यमानगंडांतं तृप्यमानरदच्छदम् १८।
कलयंतं प्रियां दोर्भ्यां सहासं समुदाद्भुतम् ।
स मुनिश्च बहून्देहां स्त्यक्त्वा कल्पत्रयांतरे १९।
सारंगनाम्नो गोपस्य कन्याभूच्छुभलक्षणा ।
रंगवेणीति विख्याता निपुणा चित्रकर्मणि २०।
यस्या दंतेषु दृश्यंते चित्रिताः शोणबिंदवः ।
ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः २१।
सतपः सुरतो योगी विचरन्पृथिवीमिमाम् ।
स एकस्मिन्महारण्ये योजनायुतविस्तृते २२।
यदृच्छयागतोऽपश्यदेकां वापीं सुशोभनाम् ।
सर्वतः स्फाटिकाबंधतटां स्वादुजलान्विताम् २३।
विकासिकमलामोदवायुना परिशीलिताम् ।
तस्याः पश्चिमदिग्भागे मूले वटमहीरुहः २४।
अपश्यत्तापसीं कांचित्कुर्वंतीं दारुणं तपः ।
तारुण्यवयसायुक्तां रूपेणाति मनोहराम् २५।
चंद्रांशुं सदृशाभासां सर्वावयवशोभनाम् ।
कृत्वा कटितटे वामपाणिं दक्षिणतस्तदा २६।
ज्ञानमुद्रां च बिभ्राणामनिमेषविलोचनाम् ।
त्यक्ताहारविहारां च सुनिश्चलतयास्थिताम् २७।
जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः ।
तदंते तां समुत्थाप्य चलितां विनयान्मुनिः २८।
अपृच्छत्का त्वमाश्चर्यरूपे किं वा चरिष्यसि ।
यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि २९।
अथाब्रवीच्छनैर्बाला तपसातीव कर्शिता ।
ब्रह्मविद्याहमतुला योगींद्रैर्या विमृग्यते ३०।
साहं हरिपदाम्भोजकाम्यया सुचिरं तपः ।
चराम्यस्मिन्वने घोरे ध्यायंती पुरुषोत्तमम् ३१।
ब्रह्मानंदेन पूर्णाहं तेनानंदेन तृप्तधीः ।
तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ३२।
इदानीमतिनिर्विण्णा देहस्यास्य विसर्ज्जनम् ।
कर्त्तुमिच्छामि पुण्यायां वापिकायामिहैव तु ३३।
तच्छ्रुत्वा वचनं तस्या मुनिरत्यंतविस्मितः ।
पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम् ३४।
पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम् ।
तयोक्तं मंत्रमाज्ञाय जगाम मानसं सरः ३५।
ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम् ।
एकपादस्थितः सूर्यं निर्निमेषं विलोकयन् ३६।
मंत्रं जजाप परमं पंचविंशतिवर्णकम् ।
दध्यौ परमभावेन कृष्णमानंदरूपिणम् ३७।
चरंतं व्रजवीथीषु विचित्रगतिलीलया ।
ललितैः पादविन्यासैः क्वणयंतं च नूपुरम् ३८।
चित्रकंदर्पचेष्टाभिः सस्मितापांगवीक्षितैः ।
संमोहनाख्यया वंश्या पंचमारुणचित्रया ३९।
बिंबौष्ठपुटचुंबिन्या कलालापैर्मनोज्ञया ।
हरंतं व्रजरामाणां मनांसि च वपूंषि च ४०।
श्लथन्नीवीभिरागत्य सहसालिंगितांगकम् ।
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ४१।
श्यामलांगप्रभापूर्णैर्मोहयंतं जगत्त्रयम् ।
स एवं बहुदेवेन समुपास्य जगत्पतिम् ४२।
नवकल्पांतरे जाता गोकुले दिव्यरूपिणी ।
कन्या प्रचंडनाम्नस्तु गोपस्याति यशस्विनः ४३।
चित्रगंधेति विख्याता कुमारी च शुभानना ।
निजांगगंधैर्विविधैर्मोदयंती दिशो दश ४४।
तामेनां पश्य कल्याणीं वृंदशो मधुपायिनीम् ।
अंगेषु स्वपतिं कृत्वा रसावेशसमाकुलाम् ४५।
अस्याः स्तनपरिष्वंगे हारैः सर्वैर्विहन्यते ।
वक्षःस्थलात्प्रच्यवद्भिश्चित्रगंधादिसौरभैः ४६।
अपरे मुनिवर्यास्तु सततं पूतमानसाः ।
वायुभक्षास्तपस्तेपुर्जपंतः परमं मनुम् ४७।
स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने ।
आग्नेयीसहितं कृत्वा मंत्रं पंचदशाक्षरम् ४८।
दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम् ।
दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम् ४९।
मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुंडलाम् ।
सव्यजंघांत आदाय दक्षिणं चरणांबुजम् ५०।
भ्रमंतीं संपुटीकृत्य चारुहस्तांबुजद्वयम् ।
कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम् ५१।
आनंदयंतीं गोपीनां नयनानि मनांसि च ।
परमाश्चर्यरूपेण प्रविष्टां रंगमंडपे ५२।
प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः ।
अथ कल्पांतरे देहं त्यक्त्वा जाता इहाधुना ५३।
यासां कर्णेषु दृश्यंते ताटंका रश्मिदीपिताः ।
रत्नमाल्यानि कंठेषु रत्नपुष्पाणि वेणिषु ५४।
मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः ।
कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ ५५।
ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम् ।
ह्रीं हंस इति कृत्वैव जपंतौ यतमानसौ ५६।
ध्यायंतौ गोकुले कृष्णं बालकं दशवार्षिकम् ।
कंदर्पसमरूपेण तारुण्यललितेन च ५७।
पश्यंतीर्व्रजबिंबोष्ठीर्मोहयंतमनारतम् ।
तौ कल्पांते तनूं त्यक्त्वा लब्धवंतौ जनिं व्रजे ५८।
सुवीरनाम गोपस्य सुते परमशोभने ।
ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी ५९।
जटिलो जंघपूतश्च घृताशी कर्बुरेव च ।
चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ६०।
केवलेनैकभावेन प्रपन्ना बल्लवीपतिम् ।
तेपुस्ते सलिले मग्ना जपंतो मनुमेव च ६१।
रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम् ।
दध्युश्च गाढभावेन बल्लवीभिर्वने वने ६२।
भ्रमंतं नृत्यगीताद्यैर्मानयंतं मनोहरम् ।
चंदनालिप्तसर्वांगं जपापुष्पावतंसकम् ६३।
कल्हारमालयावीतं नीलपीतपटावृतम् ।
कल्पत्रयांते जातास्ते गोकुले शुभलक्षणाः ६४।
इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः ।
यासां धर्मकृतान्येव वलयानि प्रकोष्ठके ६५।
विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः ।
मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके ६६।
तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः ।
सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम् ६७।
विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः ।
स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम् ६८।
अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम् ।
रमया पुटितं मंत्रं जपन्नष्टादशाक्षरम् ६९।
दध्यौ परमभावेन हरिं हैमतरोरधः ।
हैममंडपिकायां च हेमसिंहासनोपरि ७०।
आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम् ।
दक्षिणेन भ्रामयंतं पाणिना हेमपंकजम् ७१।
हेमवर्णेष्टप्रियया परिकॢप्तांगचित्रकम् ।
हसंतमतिहर्षेण पश्यंतं निजमाश्रमम् ७२।
हर्षाश्रुपूर्णः पुलकाचितांगः प्रसीदनाथेति वदन्नथोच्चैः ।
दंडप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः ७३।
तं भक्तिकामं पतितं धरण्यामायासितोस्मीति वदंतमुच्चैः ।
दंडप्रणामस्य भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन ७४।
उवाच च प्रियारूपं लब्धवंतं शुकं हरिः ।
त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममांतिके ७५।
मद्रूपं चिंतयंती च प्रेमास्पदमुपागता ।
द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे ७६।
एकव्रते एकनिष्ठे एकनक्षत्रनामनी ।
तप्तजांबूनदप्रख्या तत्रैवान्या तडित्प्रभा ७७।
एकानिद्रा यमाणाक्षी परा सौम्यायतेक्षणा ।
सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे ७८।
स कल्पांते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः ।
उपनंदस्य दुहिता नीलोत्पलदलच्छविः ७९।
सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा ।
रक्तचोलिकया पूर्णा शातकुंभघटस्तनी ८०।
दधाना रक्तसिंदूरं सर्वांगस्यावगुंठनम् ।
स्वर्णकुंडलविभ्राजद्गंडदेशां सुशोभनाम् ८१।
स्वर्णपंकजमालाढ्या कुंकुमालिप्तसुस्तनी ।
यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम् ८२।
वेणुवाद्यातिनिपुणा केशवस्य निषेवणी ।
कृष्णेन परितुष्टेन कदाचिद्गीतकर्मणि ८३।
विन्यस्ता कंबुकंठेऽस्या भाति गुंजावलि शुभा ।
परोक्षेपि च कृष्णस्य कांतिभिश्च स्मरार्दिता ८४।
सखीभिर्वादयंतीभिर्गायंती सुस्वरं परम् ।
नर्त्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम् ८५।
वारंवारं च गोविंदं भावेनालिंग्य चुंबति ।
प्रियासौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा ८६।
श्वेतकेतोः सुतः कश्चिद्वेदवेदांगपारगः ।
सर्वमेव परित्यज्य प्रचंडं तप आस्थितः ८७।
मुरारेः सेवितपदां सुधामधुरनादिनीम् ।
गोविंदस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम् ८८।
भजंतीमेकभावेन श्रियमेव मनोहराम् ।
ध्यायञ्जजाप सततं मंत्रमेकादशाक्षरम् ८९।
हसितं सकलं कृत्वा बतमायेषु योजयन् ।
कांत्यादिभिर्हसंतीभिर्वासयंत्यभितो जगत् ९०।
वसंते वसतेत्येवं मंत्रार्थं चिंतयन्सदा ।
सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान् ९१।
सेयं बालायते पुत्री कृशांगी कुड्मलस्तनी ।
मुक्तावलिलसत्कंठी शुद्धकौशेयवासिनी ९२।
मुक्ताच्छुरितमंजीरकंकणांगदमुद्रिका ।
बिभ्रती कुंडले दिव्ये अमृतस्राविणी शुभे ९३।
वृत्तकस्तूरिकावेणी मध्ये सिंदूरबिंदुवत् ।
दधाना चित्रकं भाले सार्द्धं चंदनचित्रकैः ९४।
या सैव दृश्यते शांता जपंती परमं पदम् ।
आसीच्चंद्रप्रभो नाम राजर्षिः प्रियदर्शनः ९५।
तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः ।
चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः ९६।
स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम् ।
आदेशयद्द्विजान्मंत्रं परमष्टादशाक्षरम् ९७।
अभिषिच्यमानः स शिशुर्मंत्रामृतमयैर्जलैः ।
तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः ९८।
तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः ।
हारनूपुरसूत्राद्यैर्ग्रैवेयांगदकंकणैः ९९।
विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः ।
विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिंतयत् १००।
कथं भजामि तं भक्तं मोहनं गोपयोषिताम् ।
विक्रीडंतं सदा ताभिः कालिंदीपुलिने वने १०१।
इत्थमत्याकुलमतिश्चिंतयन्नेव बालकः ।
अथापपरमां विद्यां स्वप्नं च समवाप्यत १०२।
आसीत्कृष्णप्रतिकृतिः पुरतस्तस्य शोभना ।
शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता १०३।
साभूदिंदीवरश्यामा स्निग्धलावण्यशालिनी ।
त्रिभंगललिताकार शिखंडी पिच्छभूषणा १०४।
कूजयंती मुदा वेणुं कांचनीमधरेऽर्पिताम् ।
दक्षसव्यगताभ्यां च सुंदरीभ्यां निषेविताम् १०५।
वर्द्धयंतीं तयोः कामं चुंबनाश्लेषणादिभिः ।
दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेषविलासिनम् १०६।
अवनम्य शिरस्तस्मै पुरो लज्जितमानसः ।
अथोवाच हरिर्दक्षपार्श्वगां प्रेयसीं हसन् १०७।
सलज्जं परमं चैनं स्वशरीरासनागतम् ।
निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम् १०८।
चिंतयस्व शरीरेण ह्यभेदं मृगलोचने ।
अथो त्वदंगतेजोभिः स्पृष्टस्त्वद्रूपमाप्स्यति १०९।
ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजांतिकम् ।
निजांगकैस्तदंगानामभेदं ध्यायती स्थिता ११०।
अथास्यास्त्वंगतेजांसि तदंगं पर्यपूरयन् ।
स्तनयोर्ज्योतिषा जातौ पीनौ चारुपयोधरौ १११।
नितंबज्योतिषा जातं श्रोणिबिंबं मनोहरम् ।
कुंतलज्योतिषा केशपाशोऽभूत्करयोः करौ ११२।
सर्वमेवं सुसंपन्नं भूषावासः स्रगादिकम् ।
कलासु कुशला जाता सौरभेनांतरात्मनि ११३।
दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकाम् ।
चित्रध्वजां त्रपाभंगि स्मितशोभां मनोहराम् ११४।
प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा ।
गोविंदवामपार्श्वस्थां प्रेयसीं परिरभ्य च ११५।
उवाच तव दासीयं नाम चास्याश्चकार य ।
सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम् ११६।
अथ चित्रकलेत्येतन्नाम चात्ममतेन सा ।
चकार चाह सेवार्थं धृत्वा चापि विपंचिकाम् ११७।
सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः ।
गुणात्मन्प्राणनाथस्य तवायं विहितो विधिः ११८।
अथ चित्रकला त्वाज्ञां गृहीत्वानम्य माधवम् ।
तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः ११९।
जगौ सुमधुरं गीतं तयोरानंदकारणम् ।
अथ प्रीत्योपगूढा सा कृष्णेनानंदमूर्तिना १२०।
यावत्सुखांबुधौ पूर्णा तावदेवाप्यबुध्यत ।
चित्रध्वजो महाप्रेमविह्वलः स्मरतत्परः १२१।
तमेव परमानंदं मुक्तकंठो रुरोद ह ।
तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम् १२२।
आभाषितोऽपि पित्राद्यैर्नैवावोचद्वचः क्वचित् ।
मासमात्रं गृहे स्थित्वा निशीथे कृष्णसंश्रयः १२३।
निर्गत्यारण्यमचरत्तपो वै मुनिदुष्करम् ।
कल्पांते देहमुत्सृज्य तपसैव महामुनिः १२४।
वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा ।
जाता चित्रकलेत्येव यस्याः स्कंधे मनोहरा १२५।
विपंची दृश्यते नित्यं सप्तस्वरविभूषिता ।
उपतिष्ठति वै वामे रत्नभृंगारमद्भुतम् १२६।
दधाना दक्षिणे हस्ते सा वै रत्नपतद्ग्रहम् ।
अयमासीत्पुरा सर्वं तापसैरभिवंदितः १२७।
मुनिः पुण्यश्रवा नाम काश्यपः सर्वधर्मवित् ।
पिता तस्याभवच्छैवः शतरुद्रीयमन्वहम् १२८।
प्रस्तुवन्देवदेवेशं विश्वेशं भक्तवत्सलम् ।
प्रसन्नो भगवांस्तस्य पार्वत्या सह शंकरः १२९।
चतुर्दश्यामर्द्धरात्रेः प्रत्यक्षः प्रददौ वरम् ।
त्वत्पुत्रो भविता कृष्णे भक्तिमान्बाल एव हि १३०।
उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम् ।
उपदिशैकविंशत्या यो मया ते निगद्यते १३१।
गोपालविद्यानामायं मंत्रो वाक्सिद्धिदायकः ।
एतत्साधकजिह्वाग्रे लीलाचरितमद्भुतम् १३२।
अनंतमूर्तिरायाति स्वयमेव वरप्रदः ।
काममाया रमाकंठ सेंद्रा दामोदरोज्ज्वलाः १३३।
मध्ये दशाक्षरीं प्रोच्य पुनस्ता एव निर्दिशेत् ।
दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहम् १३४।
पूर्णामृतनिधेर्मध्ये द्वीपं ज्योतिर्मयं स्मरेत् ।
कालिंद्या वेष्टितं तत्र ध्यायेद्वृंदावने वने १३५।
सर्वर्तुकुसुमस्रावि द्रुमवल्लीभिरावृतम् ।
नटन्मत्तशिखिस्वानं गायत्कोकिलषट्पदम् १३६।
तस्य मध्ये वसत्येकः पारिजाततरुर्महान् ।
शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः १३७।
तले तस्याथ विमले परितो धेनुमंडलम् ।
तदंतर्मंडलं गोपबालानां वेणुशृंगिणाम् १३८।
तदंतरे तु रुचिरं मंडलं व्रज सुभ्रुवाम् ।
नानोपायनपाणीनां मदविह्वलचेतसाम् १३९।
कृतांजलिपुटानां च मंडलं शुक्लवाससाम् ।
शुक्लाभरणभूषाणां प्रेमविह्वलितात्मनाम् १४०।
चिंतयेच्छ्रुतिकन्यानां गृह्णतीनां वचः प्रियम् ।
रत्नवेद्यां ततो ध्यायेद्दुकूलावरणं हरिम् १४१।
ऊरौ शयानं राधायाः कदलीकांडकोपरि ।
तद्वक्त्रं चंद्र सुस्मेरं वीक्षमाणं मनोहरम् १४२।
किंचित्कुंचितवामांघ्रिं वेणुयुक्तेन पाणिना ।
वामेनालिंग्य दयितां दक्षेण चिबुकं स्पृशन् १४३।
महामारकताभासं मौक्तिकच्छायमेव च ।
पुंडरीकविशालाक्षं पीतनिर्मलवाससम् १४४।
बर्हभारलसच्छीर्षं मुक्ताहारमनोहरम् ।
गंडप्रांतलसच्चारु मकराकृतिकुंडलम् १४५।
आपादतुलसीमालं कंकणांगदभूषणम् ।
नूपुरैर्मुद्रिकाभिश्च कांच्या च परिमंडितम् १४६।
सुकुमारतरं ध्यायेत्किशोरवयसान्वितम् ।
पूजा दशाक्षरोक्तैव वेदलक्षं पुरस्क्रिया १४७।
इत्युक्त्वांतर्दधे देवो देवी च गिरिजा सती ।
मुनिरागत्य पुत्राय तथैवोपदिदेश ह १४८।
पुण्यश्रवास्तु तन्मंत्र ग्रहणादेव केशवम् ।
वर्णयामास विविधैर्जित्वा सर्वान्मुनीन्स्वयम् १४९।
रूपलावण्यवैदग्ध्य सौंदर्याश्चर्यलक्षणम् ।
तदा हृष्टमना बालो निर्गत्य स्वगृहात्ततः १५०।
वायुभक्षस्तपस्तेपे कल्पानामयुतत्रयम् ।
तदंते गोकुले जाता नंदभ्रातुर्गृहे स्वयम् १५१।
लवंगा इति तन्नाम कृष्णेंगित निरीक्षणा ।
यस्या हस्ते प्रदृश्येत मुखमार्जनयंत्रकम् १५२।
इति ते कथिताः काश्चित्प्रधानाः कृष्णवल्लभाः १५३।
हरिविविधरसाद्यैर्युक्तमध्यायमेतद्व्रजवरतनयाभिश्चारुहासेक्षणाभिः ।
पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम १५४।

इति श्रीपद्मपुराणे पातालखंडे श्रीकृष्णमाहात्म्ये द्विसप्ततितमोऽध्यायः ७२।