पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७५

← अध्यायः ०७४ पद्मपुराणम्
अध्यायः ०७५
वेदव्यासः
अध्यायः ०७६ →

पार्वत्युवाच-।
वृंदावनरहस्यं च बहुधा कथितं विभो ।
केन पुण्यविशेषेण नारदः प्रकृतिं गतः १।
ईश्वर उवाच-
एकदाश्चर्यवृत्तांतं मया जिज्ञासितं पुरा ।
ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखांबुजात् २।
नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम् ।
अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथंचन ३।
किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे ।
इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा ४।
तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये ।
त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ५।
ब्रह्मा तदा ममवचो निशम्य सह नारदः ।
जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु ६।
ब्रह्मोवाच-
किमिदं द्वात्रिंशद्वनं वृंदारण्यं विशांपते ।
श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद ७।
श्रीभगवानुवाच-
इदं वृंदावनं रम्यं मम धामैव केवलम् ।
यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः ८।
ये वसंति ममांत्ये ते मृता यांति ममांतिकम् ।
अत्र या गोपपत्न्यश्च निवसंति ममालये ९।
योगिन्यस्तास्तु एवं हि मम देवाः परायणाः ।
पंचयोजनमेवं हि वनं मे देवरूपकम् १०।
कालिंदीयं सुषुम्नाख्या परमामृतवाहिनी ।
यत्र देवाश्च भूतानि वर्त्तंते सूक्ष्मरूपतः ११।
सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित् ।
आविर्भावस्तिरोभावो भवेदत्र युगेयुगे १२।
तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम् ।
रहस्यं मे प्रभावं च पश्य वृंदावनं युगे १३।
ब्रह्मादीनां देवतानां न दृश्यं तत्कथंचन ।
ईश्वर उवाच-
तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च १४।
आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम् ।
तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः १५।
पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद ।
तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम् १६।
श्रुत्वा कृष्णमुखांभोजाद्वृंदावनरहस्यकम् ।
नारद उवाच-
तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः १७।
समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः ।
तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः १८।
शौनकादय ऊचुः -
वृंदारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि ।
तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव १९।
नारद उवाच-
कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः ।
मनस्वी च महादुःखी चिंताकुलितचेतनः २०।
मां दृष्ट्वा गौतमो देवः पपात धरणीतले ।
उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि २१।
कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते ।
गौतम उवाच-
श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् २२।
द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया ।
वृंदावनरहस्यं तु न श्रुतं त्वन्मुखांबुजात् २३।
यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो ।
नारद उवाच-
इदं तु परमं गुह्यं रहस्यातिरहस्यकम् २४।
पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृंदावनोद्भवम् ।
रहस्यं वद देवेश वृंदारण्यस्य मे पितः २५।
इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत् ।
ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम २६।
मयापि तत्र गंतव्यं त्वया सह न संशयः ।
इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि २७।
महाविष्णौ च कथितं मयोक्तं यत्तदेव हि ।
तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत् २८।
त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम् ।
स्नानाय विनियुंक्ष्वामुं सरस्यमृतसंज्ञके २९।
महाविष्णुसमादिष्टः स्वयंभूर्मां तथाकरोत् ।
तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम् ३०।
तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम् ।
सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता ३१।
मां दृष्ट्वा ताः समायांतीमपृच्छंश्च मुहुर्मुहुः ।
स्त्रिय ऊचुः -
का त्वं कुतः समायाता कथयात्मविचेष्टितम् ३२।
तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय ।
कुतः कोऽहं समायातः कथं वा योषिदाकृतिः ३३।
स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले ।
तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः ३४।
वृंदानाम्नी पुरी चेयं कृष्णचंद्रप्रिया सदा ।
अहं च ललितादेवी तुर्यातीता च निष्कला ३५।
इत्युक्त्वा च महादेवी करुणा सांद्रमानसा ।
मां प्रत्याह पुनर्देवी समागच्छ मया सह ३६।
अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः ।
ताश्च मां प्रवदंत्येवं समागच्छानया सह ३७।
ततोनुकृष्णचंद्रस्य चतुर्दशाक्षरो मनुः ।
कृपया कथितस्तस्या देव्याश्चापि महात्मनः ३८।
तत्क्षणादेव तत्साम्यमलभं विविधोपमा ।
ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः ३९।
केवलं सच्चिदानंदः स्वयंयोषिन्मयः प्रभुः ।
योषिदानंदहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः ४०।
समागच्छ प्रिये कांते भक्त्या मां परिरंभय ।
रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम ४१।
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति ।
इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक् ४२।
नीत्वामृतसरो रम्यं स्नानार्थं संनियोजय ।
तया मे रमणस्यांते गदितं प्रियभाषितम् ४३।
अहं च ललितादेवी राधिकाया च गीयते ।
अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ४४।
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी ।
अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ४५।
आवयोरंतरं नास्ति सत्यंसत्यं हि नारद ।
एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ४६।
स समाचारसंकेतं ललिता वत्स मे प्रियः ।
इदं वृंदावनं नाम रहस्यं मम वै गृहम् ४७।
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित् ।
ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे ४८।
स्थित्वा सा कृष्णचंद्रस्य चरणांते गता पुनः ।
ततो निमज्जनादेव नारदोऽहमुपागतः ४९।
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा ।
स्वयंभुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् ५०।
स्वयंभुवा तथा दृष्टं नोक्तं किंचित्तदा पुनः ।
इति ते कथितं वत्स सुगोप्यं च मया त्वयि ५१।
त्वयापि कृष्णचंद्रस्य केवलं धामचित्कलम् ।
गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम् ५२।
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम् ।
तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ५३।
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुंगवाः ।
तदा शापो भवेद्विप्राः कृष्णचंद्रस्य निश्चितम् ५४।
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम् ।
यः पठेच्छृणुयाद्वापि स याति परमं पदम् ५५।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये नारदीयानुनये पंचसप्ततितमोऽध्यायः ७५।