पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७७

← अध्यायः ०७६ पद्मपुराणम्
अध्यायः ०७७
वेदव्यासः
अध्यायः ०७८ →

पार्वत्युवाच-
विस्तरेण समाचक्ष्व नामार्थपदगौरवम् ।
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः १।
तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः ।
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर २।
ईश्वर उवाच-
सारे वृंदावने कृष्णं गोपीकोटिभिरावृतम् ।
तत्र गंगा पराशक्तिस्तत्स्थमानंदकाननम् ३।
नाना सुकुसुमामोदसमीरसुरभीकृतम् ।
कलिंदतनया दिव्यतरंगरागशीतलम् ४।
सनकाद्यैर्भागवतैः संसृष्टं मुनिपुंगवैः ।
आह्लादिमधुरारावैर्गोवृंदैरभिमंडितम् ५।
रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम् ।
तत्र श्रीमान्कल्पतरुर्जांबूनदपरिच्छदः ६।
नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः ।
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ७।
तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम् ।
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ८।
कोटिचंद्रप्रतीकाशं कोटिभास्करभास्वरम् ।
कोटिकंदर्पलावण्यं भासयन्तं दिशोदश ९।
त्रिनेत्रं द्विभुजं गौरं तप्तजांबूनदप्रभम् ।
श्लिष्यमाणमंगनाभिः सदामानं च सर्वशः १०।
ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम् ।
सदाघूर्णितनेत्राभिर्नृत्यंतीभिर्महोत्सवैः ११।
चुंबंतीभिर्हसंतीभिः श्लिष्यंतीभिर्मुहुर्मुहुः ।
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः १२।
तत्पादांबुजमाध्वीकचित्ताभिः परितो वृतम् ।
तासां तु मध्ये या देवी तप्तचामीकरप्रभा १३।
द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः ।
प्रधानं या भगवती यया सर्वमिदं ततम् १४।
सृष्टिस्थित्यंतरूपा या विद्या विद्यात्रयीपरा ।
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी १५।
ब्रह्मविष्णुशिवादीनां देहकारणकारणम् ।
चराचरं जगत्सर्वं यन्मायापरिरंभितम् १६।
वृंदावनेश्वरी नाम्ना राधा धात्रानुकारणात् ।
तामालिंग्य वसंतं तं मुदा वृंदावनेश्वरम् १७।
अन्योन्यचुंबनाश्लेष मदावेशविघूर्णितम् ।
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् १८।
मंत्रराजमिमं गुह्यं तस्य मंत्रं च मंत्रवित् ।
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः १९।
राधिंका चित्ररेखा च चंद्रा मदनसुंदरी ।
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया २०।
सुवर्णशोभा संमोहा प्रेमरोमांचराजिता ।
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा २१।
सुवर्णमालिनी शांता सुरासरसिका तथा ।
सर्वस्त्री जीवना दीनवत्सला विमलाशया २२।
निपीतनामपीयूषा सा राधा परिकीर्तिता ।
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा २३।
मूर्च्छत्प्रेमनदी राधा वरणा लोचनांजना ।
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना २४।
सुरतोत्सव संग्रामा चित्ररेखा प्रकीर्तिता ।
गौरांगी नातिदीर्घा च सदा वादनतत्परा २५।
दैन्यानुरागनटना मूर्च्छारोमांचविह्वला ।
हरिदक्षिणपार्श्वस्था सर्वमंत्रप्रिया तथा २६।
अनंगलोभमाधुर्या चंद्रा सा परिकीर्तिता ।
सलीलमंथरगतिर्मंजुमुद्रित लोचना २७।
प्रेमधारोज्ज्वलाकीर्णा दलितांजन शोभना ।
कृष्णानुरागरसिका रासध्वनिसमुत्सुका २८।
अहंकारसमायुक्ता मुखनिंदितचंद्रमाः ।
मधुरालापचतुरा जितेंद्रियशिरोमणिः २९।
सुंदरस्मितसंयुक्ता सा वै मदनसुंदरी ।
विविक्तरासरसिका श्यामा श्याममनोहरा ३०।
प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी ।
जितेंद्रिया जितक्रोधा सा प्रिया परिकीर्तिता ३१।
सुतप्तस्वर्णगौरांगी लीलागमनसुंदरी ।
स्मरोत्थ प्रेमरोमांच वैचित्रमधुराकृतिः ३२।
सुंदरस्मितसंयुक्त मुखनिंदितचंद्रमाः ।
मधुरालापचतुरा जितेंद्रियशिरोमणिः ३३।
कीर्तिता सा मधुमती प्रेमसाधनतत्परा ।
संमोहज्वररोमांच प्रेमधारा समन्विता ३४।
दानधूलिविनोदा च रासध्वनि महानटी ।
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ३५।
कृष्णात्मा सोत्तमा श्यामा मधुपिंगललोचना ।
तत्पादप्रेमसंमोहात्क्वचित्पुलकचुंबिता ३६।
शिवकुंडे शिवानंदा नंदिनी देहिकातटे ।
रुक्मिणी द्वारवत्यां तु राधा वृंदावने वने ३७।
देवकी मथुरायां तु जाता मे परमेश्वरी ।
चंद्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी ३८।
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
वृंदावनाधिपत्यं च दत्तं तस्यै प्रसीदता ३९।
कृष्णेनान्यत्र देवी तु राधा वृंदावने वने ।
नित्यानंदतनुः शौरिर्योऽशरीरीति भाष्यते ४०।
वाय्वग्निनाकभूमीनामंगाधिष्ठितदेवता ।
निरूप्यते ब्रह्मणोऽपि तथा गोविंदविग्रहः ४१।
सेंद्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते ।
तथा कांतियुतः कृष्णः कालं मोहयति ध्रुवम् ४२।
न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसंभवा ।
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ४३।
काठिन्यं देवयोगेन करकाघृतयोरिव ।
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ४४।
वृंदावनरजोवृंदे तत्र स्युर्विष्णुकोटयः ।
आनंदकिरणे वृंदव्याप्तविश्वकलानिधिः ४५।
गुणात्मतात्मनि यथा जीवास्तत्किरणांगकाः ।
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ४६।
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा ।
गोविंद एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ४७।
तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः ।
पुरुषः प्रकृतिश्चाद्यौ राधावृंदावनेश्वरौ ४८।
प्रकृतेर्विकृतं सर्वं विना वृंदावनेश्वरम् ४९।
समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि ।
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ५०।
त्रिगुणादिप्रपंचोऽयं वृंदावनविहारिणः ।
ऊर्म्मीवाब्धेस्तरंगस्य यथाब्धिर्नैव जायते ५१।
न राधिका समा नारी न कृष्णसदृशः पुमान् ।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ५२।
ध्येयं कैशोरकं ध्येयं वनं वृंदावनं वनम् ।
श्याममेव परं रूपमादिदेवं परो रसः ५३।
बाल्यं पंचमवर्षांतं पौगंडं दशमावधि ।
अष्टपंचककैशोरं सीमा पंचदशावधि ५४।
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते ।
तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः ५५।
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम् ।
बालगोपालगोपालं स्मरगोपालरूपिणम् ५६।
वंदे मदनगोपालं कैशोराकारमद्भुतम् ।
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ५७।
अखंडातुलपीयूष रसानंदमहार्णवम् ।
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ५८।
एकमप्यव्ययं पूर्वं बल्लवीवृंदमध्यगम् ।
ध्यानगम्यं प्रपश्यंति रुचिभेदात्पृथग्धियः ५९।
यन्नखेंदुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः ।
गुणत्रयमतीतं तं वंदे वृंदावनेश्वरम् ६०।
वृंदावनपरित्यागो गोविंदस्य न विद्यते ।
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ६१।
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम् ।
तं भजे नंदसूनुं यन्नखतेजः परं मनुः ६२।
पार्वत्युवाच।
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते ।
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ६३।
ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते ।
तत्सर्वं कथयिष्यामि सावधाना निशामय ६४।
स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरंजनम् ।
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ६५।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनंनाम सप्तसप्ततितमोऽध्यायः ७७।