पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७९

← अध्यायः ०७८ पद्मपुराणम्
अध्यायः ०७९
वेदव्यासः
अध्यायः ०८० →

ईश्वर उवाच-
शालग्रामे मणौयंत्रे मंडले प्रतिमासु च ।
नित्यं तु श्रीहरेः पूजा केवले भवनेन तु १।
गंडक्यामेकदेशे तु शालग्रामस्थलं महत् ।
पाषाणं तद्भवं पातु शालग्राममिति स्थितम् २।
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ।
किं पुनः पूजनं तत्र हरेः सांनिध्यकारणम् ३।
शालग्रामैकयजनाच्छतलिंगीफलं लभेत् ।
बहुभिर्जन्मभिः पुण्यैर्यदिकृष्णशिलां लभेत् ४।
गोष्पदेन च चिह्नेन जनुस्तेन समाप्यते ।
आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम् ५।
आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा ।
सदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते ६।
यथा तथा हरिर्व्यापी शालग्रामे प्रतीयते ।
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ७।
द्वारवत्याः शिलायुक्ताः स वैकुंठे महीयते ।
शालग्रामशिलायां तु गह्वरं लक्षते नरः ८।
पितरस्तस्य तिष्ठंति तृप्ताः कल्पांतकं दिवि ।
वैकुंठभवनं तत्र यत्र द्वारावती शिला ९।
मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम् ।
जपः पूजा च होमश्च सर्वं कोटिगुणं भवेत् १०।
मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः ।
कीटकोऽपि मृतिं याति वैकुंठभवनं यतः ११।
शालग्रामशिलायां यो मूल्यमुद्घाटयेन्नरः ।
विक्रेता चानुमंता च यः परीक्षानुमोदकः १२।
सर्वे ते नरकं यांति यावत्सूर्यश्च संप्लवः ।
अतस्तद्वर्जयेद्देवि चक्रक्रयणविक्रयम् १३।
शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः ।
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः १४।
द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितः ।
चक्रासनशिलाकारचित्स्वरूपो निरंजनः १५।
नमोऽस्त्वोंकाररूपाय सदानंदस्वरूपिणे ।
शालग्राममहाभाग भक्तस्यानुग्रहं कुरु १६।
तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभो ।
अतः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा १७।
यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमाप्नुयुः ।
ललाटे केशवं विद्यात्कंठे श्रीपुरुषोत्तमम् १८।
नाभौ नारायणं देवं वैकुंठं हृदये तथा ।
दामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमम् १९।
मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतः ।
कर्णयोर्यमुनां गंगां बाह्वोः कृष्णं हरिं तथा २०।
यथास्थानेषु तुष्यंति देवता द्वादश स्मृताः ।
द्वादशैतानि नामानि कर्तव्ये तिलके पठेत् २१।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।
ऊर्द्ध्वपुंड्रमूर्द्ध्वरेखं ललाटे यस्य दृश्यते २२।
चांडालोऽपि स शुद्धात्मा पूज्य एव न संशयः ।
यस्योर्द्ध्वपुंड्रं दृश्येत न ललाटे नरस्य हि २३।
तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ।
त्रिपुंड्रं यस्य विप्रस्य ऊर्द्ध्वपुंड्रं न दृश्यते २४।
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचैलं स्नानमाचरेत् ।
सांतरालं प्रकर्त्तव्यं पुंड्रं हरिपदाकृति २५।
निरंतरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमः ।
ललाटे तस्य सततं शुनःपादो न संशयः २६।
नासादिकेशपर्यंतमूर्द्ध्वपुंड्रं सुशोभनम् ।
मध्ये छिद्रसमायुक्तं तं विद्याद्धरिमंदिरम् २७।
वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः ।
मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् २८।
वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः ।
ऊर्द्ध्वपुंड्रं महाभागः सयाति परमां गतिम् २९।
अग्निरापश्च वेदाश्च चंद्रादित्यौ तथानिलः ।
विप्राणां नित्यमेते हि कर्णे तिष्ठंति दक्षिणे ३०।
गंगा च दक्षिणे श्रोत्रे नासिकायां हुताशनः ।
उभयोरपि संस्पर्शात्तत्क्षणादेव शुध्यति ३१।
कृत्वा चैवोदकं शंखे वैष्णवानां महात्मनाम् ।
तुलसीमिश्रितं दद्यात्पिबेन्मूर्ध्नाभिवंदयेत् ३२।
प्राश्नीयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम् ।
विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम् ३३।
तदेवाष्टगुणं पापं भूमौ बिंदुनिपातनात् ।
जलशंखं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम् ३४।
सततं धार्यते वारि तेनाप्तं जन्मनः फलम् ।
शंखो यस्य गृहे नास्ति घंटा वा गरुडान्विता ३५।
पुरतो वासुदेवस्य न स भागवतः कलौ ।
यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ३६।
देवोत्सवेष्वसेवा च अप्रणामस्तदग्रतः ।
उच्छिष्टे चैव चाशौचे भगवद्वंदनादिकम् ३७।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् ।
पादप्रसारणं चाग्रे तथा पर्यंकसेवनम् ३८।
शयनं भक्षणं चापि मिथ्याभाषणमेव च ।
उच्चैर्भाषामिथो जल्पो रोदनानि च विग्रहः ३९।
निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम् ।
केवलावरणं चैव परनिंदापरस्तुतिः ४०।
अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ।
शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ४१।
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ।
विनियुक्तावशिष्टस्य प्रदानं व्यंजनस्य यत् ४२।
स्पष्टीकृत्याशनं चैव परनिंदा परस्तुतिः ।
गुरौ मौनं निजस्तोत्रं देवतानिंदनं तथा ४३।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ४४।
अपराधसहस्राणि क्रियंतेऽहर्निशं मया ।
तवाहमिति मां मत्वा क्षमस्व मधुसूदन ४५।
इति मंत्रं समुच्चार्य प्रणमेद्दंडवद्भुवि ।
अपराधसहस्राणि क्षमते सर्वदा हरिः ४६।
सायंप्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा ।
विष्णुभक्तावशिष्टस्य दिनपापात्प्रमुच्यते ४७।
अन्नं ब्रह्मा रसो विष्णुः खादयेन्मांसमुच्चरन् ।
एवं ज्ञात्वा तु यो भुंक्ते सोऽन्नदोषैर्न लिप्यते ४८।
अलाबुं वर्त्तुलाकारं मसूरं च सवल्कलम् ।
तालं शुक्लं च वृंताकं न खादेद्वैष्णवो नरः ४९।
वटाश्वत्थार्कपत्रेषु कुंभी तिंदुकपत्रयोः ।
कोविदारे कदंबे च न खादेद्वैष्णवो नरः ५०।
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत् ।
आश्विने मासि दुग्धं च कार्त्तिके चामिषं त्यजेत् ५१।
दग्धमन्नं तु जंबीरं यद्विष्णोरनिवेदितम् ।
बीजपूरं च शाकं चप्रत्यक्षलवणं तथा ५२।
यदि दैवाच्च भुंजीत तदा तन्नाम संस्मरेत् ।
हैमंतिकं सिता स्विन्नं धान्यं मुद्गास्तिला यवाः ५३।
कलाप कंगु नीवाराः शाकं च हिलमोचिका ।
कालशाकं च वास्तूकं मूलकं रक्तकेतरत् ५४।
लवणे सिंधुसामुद्रे गव्ये च दधिसर्पिषी ।
पयोनुद्धृतसारं च पनसाम्रहरीतकी ५५।
पिप्पली जीरकं चैव नागरंगक तिंतिडी ।
कदलीलवली धात्री फलान्यगुडमैक्षवम् ५६।
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ।
तुलसीपत्रपुष्पाद्यैर्माल्यं वहति यो नरः ५७।
विष्णुं तमपि जानीयात्सत्यं सत्यं न संशयः ।
धात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः ५८।
कुरुक्षेत्रं विजानीयात्सार्द्धं हस्तशतत्रयम् ।
तुलसीकाष्ठघटितै रुद्राक्षाकारकारितैः ५९।
निर्मितां मालिकां कंठे निधायार्चनमारभेत् ।
तथामलकमालां च सम्यक्पुष्करमालिकाम् ६०।
कंठे मालां च यत्नेन धारयेद्विष्णुपूजकः ।
निर्माल्यं तुलसीमालां शिरस्यपि च धारयेत् ६१।
निर्माल्यचंदनेनांगमंकयेत्तस्य नामभिः ।
ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ६२।
नंदकं चैव हृन्मध्ये शंखं चक्रं भुजद्वये ।
शंखचक्रान्वितो विप्रः श्मशाने म्रियते यदि ६३।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य निश्चिता ।
यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः ६४।
करोति सर्वकार्याणि फलमाप्नोति चाक्षयम् ।
तुलसीकाष्ठमालाभिर्भूषितः कर्म आचरन् ६५।
पितॄणां देवतानां च कृतं कोटिगुणं भवेत् ।
निवेद्य केशवे मालां तुलसीकाष्ठनिर्मिताम् ६६।
वहते यो नरो भक्त्या तस्य नश्यति पातकम् ।
पाद्यादिभिरथाभ्यर्च्य इमं मंत्रमुदीरयेत् ६७।
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी ।
रोगाणामभिवंदिता निरसनी सिक्तांतकत्रासिनी ।
प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता ।
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ६८।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये देवीश्वरसंवादे तिलकादिनिर्णयोनाम नवसप्ततितमोऽध्यायः ७९।