पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८४

← अध्यायः ०८३ पद्मपुराणम्
अध्यायः ०८४
वेदव्यासः
अध्यायः ०८५ →

ऋषय ऊचुः -
सूतसूत महाभाग रोमहर्षणनंदन ।
कथा रम्या त्वया प्रोक्ता लोकस्यानंददायिनी १।
श्रीकृष्णस्य महाभाग चरितं महदद्भुतम् ।
श्रुतं सर्वं त्वया प्रोक्तं निर्वृतिस्तेन चाभवत् २।
अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकम् ।
यतस्तेन महाभाग निर्वृतिं को न चाप्नुयात् ३।
अतः पुनरपि श्रीमत्कृष्णस्य चरितं महत् ।
श्रोतुमिच्छामहे चान्यद्व्रतदानार्हणादिकम् ४।
स्नानं वापि महाभाग यथा येन कृतं पुरा ।
तत्सर्वं विस्तराद्ब्रूहि यथा नो निर्वृतिर्भवेत् ५।
सूत उवाच-
साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परम् ।
यूयं कृतार्थाः कृष्णस्य भक्त्या संपूर्णमानसाः ६।
श्रीकृष्णचरितं पुण्यं साधूनां हर्षदं परम् ।
प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमुत्तमम् ७।
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ।
मथुरायामंबरीषं कृष्णाराधनतत्परम् ८।
महाभागं व्रतपरं ददर्श मुनिसत्तमः ।
स आगतं मुनिवरं सत्कृत्य मुनिसत्तमः ९।
भवंत इव पप्रच्छ श्रद्धया हृष्टमानसः ।
अंबरीष उवाच-।
यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते १०।
स देवः पुंडरीकाक्षः स्वयं नारायणः परः ।
योऽमूर्तो मूर्तिमानीशो व्यक्तोऽव्यक्तः सनातनः ११।
सर्वभूतमयोऽचिंत्यो ध्यातव्यः स कथं हरिः ।
यस्मिन्सर्वमिदं विश्वमोतं प्रोतं प्रतिष्ठितम् १२।
अव्यक्तमेकं परमं परमात्मेति विश्रुतम् ।
यतो जन्मादि जगतो यो निर्माय स्वयं भुवम् १३।
ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान् ।
कथमाराध्यते सोऽयं समग्रपुरुषार्थदः १४।
योगिनामपि दुर्गम्यस्तदेतत्कृपया वद ।
अनाराधित गोविंदा न विदंति हितोदयम् १५।
न तपो यज्ञदानानां लभते फलमुत्तमम् ।
अनास्वादितगोविंदपदांबुजरसश्च यः १६।
मनोरथपथातीतं स्फीतं नाकलयेत्फलम् ।
हरेराराधनं हित्वा दुरितौघ निवारणम् १७।
नान्यत्पश्यामि जंतूनां प्रायश्चित्तं परं मुने ।
यद्भ्रूनर्तनवर्तिन्यः श्रूयंते सिद्धयोऽखिलाः १८।
कथमाराध्यतेसोऽयं केशवः क्लेशनाशनः ।
उपास्यते स भगवान्कथं नारायणो नरैः १९।
प्रीतश्च सर्वमेतन्मे हिताय जगतो वद ।
भक्तिप्रियोऽसौ भगवान्कया भक्त्या प्रसीदति २०।
कथं तस्मिन्भवेद्भक्तिः सर्वैराराध्यते कथम् ।
वैष्णवोसि हरेस्तस्य प्रियोऽसि परमार्थवित् २१।
तेन त्वामेव पृच्छामि ब्रह्मन्ब्रह्मविदुत्तम ।
श्रोतारमथ वक्तारं प्रष्टारं पुरुषं हरेः २२।
प्रश्नः पुनाति कृष्णस्य तदंघ्रिसलिलं यथा ।
दुर्ल्लभो मानुषो देहो देहिनां क्षणभंगुरः २३।
तत्रापि दुर्ल्लभं मन्ये वैकुंठप्रियदर्शनम् ।
संसारेस्मिन्क्षणार्धोऽपि सत्संगः शेवधिर्नृणाम् २४।
यस्मादवाप्यते सर्वं पुरुषार्थचतुष्टयम् ।
भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् २५।
बालानां तु यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ।
भूतानां देवचरितं दुःखाय च सुखाय च २६।
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ।
भजंति ये यथा देवान्देवा अपि तथैव तान् २७।
छायेव कर्मसचिवाः साधवो दीनवत्सलाः ।
तस्मात्त्वं भगवन्मह्यं वैष्णवं धर्ममादिश २८।
यस्योपदेशदानेन लभते वेदजं फलम् ।
नारद उवाच-
साधु पृष्टं महीपाल विष्णुभक्तिमता त्वया २९।
जानता परमं धर्ममेकं माधवसेवनम् ।
यस्मिन्नाराधिते विष्णौ विश्वमाराधितं भवेत् ३०।
तुष्टे चराचरं तुष्टं सर्वदेवमये हरौ ।
यस्य स्मरणमात्रेण महापातकसंहतिः ३१।
तत्क्षणान्नाशमायाति स सेव्यो हरिरेव हि ।
कोऽनु राजन्निंद्रियवान्मुकुंदचरणांबुजम् ३२।
न भजेत्सर्वतो मृत्युरुपास्यमृषिदैवतैः ।
श्रुतोऽनु पठितो ध्यात आदृतश्चानुमोदितः ३३।
सद्यः पुनाति सद्धर्मो वीरो विश्वद्रुहोऽपि हि ।
योयं कारणकार्यादि कारणस्यापि कारणम् ३४।
अनन्यकारणं योगी जगज्जीवो जगन्मयः ।
अणुर्बृहत्कृशः स्थूलो निर्गुणो गुणभृन्महान् ३५।
अजो जन्मलयातीतो ध्यातव्यः स हरिः सदा ।
सम्यगेतद्व्यवसितं भवता पुरुषर्षभ ३६।
यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान् ।
प्रसंगेन सतामात्ममनः श्रुति रसायनाः ३७।
भवंति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः ।
भावसाध्योह्ययं देवः स्वयं जानाति तद्भवान् ३८।
तथापि वक्ष्ये जगतो हिताय तव गौरवात् ।
यदाहुः परमं ब्रह्म प्रधानपुरुषात्परम् ३९।
यन्मायया ततं सर्वं सर्वं यच्छति सोऽच्युतः ।
पुत्रान्कलत्रं दीर्घायू राज्यं स्वर्गापवर्गकम् ४०।
स दद्यादीप्सितं सर्वं भक्त्या संपूजितोऽजितः ।
कर्मणा मनसा वाचा तत्परा ये हि मानवाः ४१।
तेषां व्रतानि वक्ष्यामि प्रीतये भूपसत्तम ।
अहिंसासत्यमस्तेयं ब्रह्मचर्यमकल्पता ४२।
एतानि मानसान्याहुर्व्रतानि हरितुष्टये ।
एकभक्तं तथा नक्तमुपवासमयाचितम् ४३।
इत्येवं कायिकं पुंसां व्रतमुक्तं नरेश्वर ।
वेदस्याध्ययनं विष्णोः कीर्तनं सत्यभाषणम् ४४।
अपैशुन्यमिदं राजन्वाचिकं व्रतमुत्तमम् ।
चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ४५।
नाशौचं कीर्तने तस्य स पवित्रकरो यतः ।
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ४६।
विष्णुराराध्यते पंथा नान्यः संतोषकारणम् ।
पतिप्रियहिताभिश्च मनोवाक्कायसंयमैः ४७।
व्रतैराराध्यते स्त्रीभिर्वासुदेवो दयानिधिः ।
आगमोक्तेन मार्गेण स्त्रीशूद्रैरपिपूजनम् ४८।
कर्तव्यं कृष्णचंद्रस्य द्विजातिवररूपिणः ।
त्रयोवर्णास्तु वेदोक्तमार्गाराधनतत्पराः ४९।
स्त्रीशूद्रादय एव स्युर्नाम्नाऽराधनतत्पराः ।
न पूजनैर्न यजनैर्न व्रतैरपि माधवः ५०।
तुष्यते केवलं भक्तिप्रियोऽसौ समुदाहृतः ।
स्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतम् ५१।
स तु पूज्यो विष्णुभक्त्या मनोवाक्कायकर्मभिः ।
कर्तव्यं श्रद्धया विष्णोश्चिंतयित्वा पतिं हृदि ५२।
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा ५३।
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी ५४।
स्वकुलोचितधर्मेण यद्यस्य विहितं व्रतम् ।
तत्तदेवाचरेद्यस्तु तेन तुष्यति केशवः ५५।
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् ।
यजंति सूरयो नित्यं जपेन रविमंडले ५६।
अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहः ।
तृतीयकं भूतदया चतुर्थं क्षांतिरेव च ५७।
शमस्तु पंचमं पुष्पं दमः षष्ठं च सप्तमम् ।
ध्यानं सत्यं चाष्टमं च ह्येतैस्तुष्यति केशवः ५८।
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः ।
पुष्पांतराणि संत्येव बाह्यानि मनुजोत्तम ५९।
भक्त्या कृतानि यैर्विष्णुः पूजितः परितुष्यति ।
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ६०।
प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकम् ।
फलपुष्पादिकं चैव वानस्पत्यं तु पंचमम् ६१।
पार्थिवं कुशमूलाद्यं वायव्यं गंधचंदनम् ।
श्रद्धाख्यं विष्णुपुष्पं च वाद्यं विष्णुपदं स्मृतम् ६२।
एभिस्तुपूजितः पुष्पैरपि विष्णुः प्रसीदति ।
सूर्योऽग्निर्ब्राह्मणोगावो वैष्णवः खं मरुज्जलम् ६३।
भूरात्मा सर्वभूतानि पूजास्थानानि वा हरेः ।
सूर्य्ये तु मंत्रजाप्येन हविषाग्नौ यजेत्ततः ६४।
आतिथ्येन तु विप्राग्र्ये गोषु ग्रासरसादिना ।
वैष्णवे बंधुसत्कृत्या हृदये ध्याननिष्ठया ६५।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ।
स्थंडिले मंत्रहृदयैर्भोगैरात्मानमात्मनि ६६।
क्षेत्रज्ञं सर्वभूतेषु समत्वेनार्चयेद्विभुम् ।
धिष्ण्येष्वेतेषु तद्रूपं शंखचक्रगदांबुजैः ६७।
युक्तं चतुर्भुजं शांतं ध्यायन्नर्च्चेत्समाहितः ।
ब्राह्मणैः पूजितैरेव पूजितोऽयं न संशयः ६८।
निर्भर्त्सितैश्च तैर्भूप भवेन्निर्भर्त्सितो विभुः ।
निगमो धर्मशास्त्रं च यदाधारे प्रवर्तते ६९।
विप्रास्ते वैष्णवीमूर्तिः पावनी परमा मता ७०।
सर्वं शुभं जगति धर्मत एव लभ्यं धर्मो गतिर्निगमतो नृपधर्मशास्त्रात् ।
नूनं तयोरपि गतिर्भुवि भूमिदेवास्तैरर्चितैरिह जगत्पतिरर्चितः स्यात् ७१।
न यज्ञयोगैर्न तपोभिरन्यैर्न योगयुक्त्या न समर्चनेन ।
तथा विभुस्तुष्यति देवदेवो यथा मही दैवततोषणेन ७२।
ब्रह्मण्यो ब्रह्मविद्ब्रह्मा ब्रह्मवेदप्रवर्तकः ।
ब्राह्मणैरेव तुष्येत तोषितं ब्रह्मदैवतम् ७३।
नरकेऽपि चिरं मग्नाः पूर्वजा ये कुलद्वये ।
तदैव यांति ते स्वर्गं यदार्च्चति सुतो हरिम् ७४।
किं तेषां जीवितेनेह पशुवच्चेष्टितेन किम् ।
येषां न प्रवणं चित्तं वासुदेवे जगन्मये ७५।
ध्यानं तस्य प्रवक्ष्यामि यन्न दृष्टं तु केनचित् ।
श्रूयतां भूपकैवल्यं केवलं मलवर्जितम् ७६।
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः ।
प्रज्वलन्नाशयेत्सर्वमंधकारं महामते ७७।
तद्वद्दोषविहीनात्मा भवत्येव निरामयः ।
निराशो निश्चलो वीरोनमित्रं न रिपुस्तथा ७८।
शोकहर्षौ विषादश्च न लोभो मत्सरो भ्रमः ।
संभ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते ७९।
विषयैश्चापि सर्वैश्च इंद्रियाणां प्रमुच्यते ।
तदा स केवलज्ञानी कैवल्यत्वं प्रजायते ८०।
ज्वालाकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत् ।
वर्त्याधारेण राजेंद्र निर्द्वन्द्वो वायुवर्जितः ८१।
कज्जलं वमते पश्चात्तैलस्यापि महामते ।
कृष्णा संदृश्यते रेखा दीपस्याग्रे महामते ८२।
स्वयमाकृष्य तत्तैलं तेजसा निर्मलोभवेत् ।
काये चांतः स्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ८३।
विषयान्कज्जलं कृत्वा प्रत्यक्षान्संप्रदर्शयेत् ।
ज्वालावन्निर्मलो भूत्वा स्वयमेव प्रकाशयेत् ८४।
क्रोधलोभादिभिः संज्ञैर्वायुभिः परिवर्जितः ।
निःस्पृहो निश्चलो भूत्वा तेजश्च स्वयमुज्ज्वलेत् ८५।
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थं स्वतेजसा ।
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ८६।
ध्यानं चैव प्रवक्ष्यामि द्विविधं तस्य चक्रिणः ।
केवलज्ञानरूपेण दृश्यते परचक्षुषा ८७।
योगयुक्ता महात्मानः परमार्थपरायणाः ।
यं न पश्यंति मुग्धास्तु सर्वज्ञं सर्वदर्शकम् ८८।
हस्तपादविहीनश्च सर्वत्र परिगच्छति ।
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं पुनः ८९।
नासामुखविहीनस्तु घ्राति भक्षति भूपते ।
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ९०।
अरूपो रूपसंबद्धः पंचवर्गवशं गतः ।
सर्वलोकस्य यः प्राणः पूज्यते सचराचरैः ९१।
अजिह्वो वदते सर्वं वेदशास्त्रानुगं तथा ।
अत्वचः स्पर्शमेवापि सर्वेषामेव विंदति ९२।
सदानंदो विविक्ताक्ष एकरूपो निराश्रयः ।
निर्गुणो निर्ममो व्यापी सगुणो निर्मलोऽनघः ९३।
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः ।
तस्य माता न चैवास्ति स वै सर्वमयो विभुः ९४।
एवं सर्वमयं ध्यानं यश्च पश्यत्यनन्यधीः ।
स याति परमं स्थानममूर्त्तममृतोपमम् ९५।
द्वितीयं तु प्रवक्ष्यामि तच्छृणुष्व महामते ।
मूर्त्ताकारं तु साकारं निराकारं निरामयम् ९६।
ब्रह्मांडं सर्वमतुलं वासितं यस्य वासनात् ।
स तस्माद्वासुदेवस्तु प्रोच्यते नृपनंदन ९७।
वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेत् ।
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ९८।
दक्षिणे शोभते शंखो हेमरत्नविभूषितः ।
कौमोदकी गदा तस्य महासुरविनाशिनी ९९।
वामे च शोभते वीर हस्ते तस्य महात्मनः ।
महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् १००।
शोभमानं सदैवास्ते सायुधं कमलश्रियम् ।
कंबुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणम् १०१।
राजमानं हृषीकेशं दशनैः कुंदसंनिभैः ।
गुडाकेशस्य यस्यास्ते अधरो विद्रुमाकृतिः १०२।
शोभते पुंडरीकाक्षः किरीटेनापि भास्वता ।
विशालेनापि रूपेण केशवस्तु सुवक्षसा १०३।
कौस्तुभेनांकितेनैव राजमानो जनार्दनः ।
सूर्यतेजःप्रतीकाश कुंडलाभ्यां प्रभाति च १०४।
हरिः केयूरकंकणैर्हारैर्मौक्तिकैर्ऋक्षसन्निभैः १०५।
वपुषा भ्राजमानस्तु विजयो जयतां वरः ।
भ्राजतेसोऽपि गोविंदो हेमवर्णेन वाससा १०६।
मुद्रिकाभिस्तु युक्ताभिरंगुलीषु विराजते ।
सर्वायुधैः सुसंपूर्णैर्द्दिव्यैराभरणैर्हरिः १०७।
वैनतेयसमारूढो लोककर्त्ता जगत्पतिः ।
एवं यो ध्यायते नित्यमनन्यमनसा नरः १०८।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
एतत्ते सर्वमाख्यातं ध्यानभेदं जगत्पतेः १०९।
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्ये भगवद्ध्य्नावर्णनं नाम चतुरशीतितमोऽध्यायः ८४।