पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८६

← अध्यायः ०८५ पद्मपुराणम्
अध्यायः ०८६
वेदव्यासः
अध्यायः ०८७ →

सूत उवाच-
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः ।
अंबरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत् १।
अंबरीष उवाच-
मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने ।
सर्वमासाधिकं मासं वैशाखं किं प्रशंससि २।
सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः ।
को विधिस्तत्र किं दानं किं तपः का च देवता ३।
त्वत्पादांभोजरजसा पावितस्य च मे मुने ।
उपदेशप्रसादेन प्रसादं कर्तुमर्हसि ४।
धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने ।
त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः ५।
कर्तोपदेष्टा मंता वानुमंतापि प्रयोजकः ।
शास्त्रविद्भिर्मुनिवर स्मर्यंते समभागिनः ६।
व्रतसत्रतपोदानैर्यत्फलं समवाप्यते ।
धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते ७।
तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने ।
अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत् ८।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ९।
तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम् ।
दुर्ल्लभो गुरुसंबोधो देशकालोपपत्तयः १०।
न केचन तथा भावाश्चेतः शीतलयंतिनः ।
राज्यलाभादयोऽप्येते यथा तव समागमः ११।
सूत उवाच-।
अथ मंदमृदुस्मेरस्फुरद्दंतप्रभानुगः ।
अंबरीषं प्रत्युवाच नारदो मुनिसत्तमः १२।
नारद उवाच-।
शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव ।
विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा १३।
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता ।
मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम् १४।
ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा ।
तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः १५।
तमवाप्य ततो मासं स्नानदानजपादिकम् ।
कुर्वंति विधिना ये तु धन्यास्ते कृतिनो नराः १६।
तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः ।
भवंति भगवद्भावभाविता धर्मकांक्षिणः १७।
माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः ।
ते कोटिवर्षपर्यंतं क्रीडंते नंदने वने १८।
यथा न वारिधिसमो लोके कोऽपि जलाशयः ।
तथा मासो न वैशाखसदृशो माधवप्रियः १९।
तावत्पापानि तिष्ठंति मनुष्याणां कलेवरे ।
यावत्किलमलध्वंसी मासो नायाति माधवः २०।
अवशिष्टदिनान्येव पंचमासस्य तस्य वै ।
एकादशीं समारभ्य सर्वमाससमानि वै २१।
वैशाखे पूजितो देवो माधवो मधुहा तु यैः ।
नानोपचारै राजेंद्र तैः प्राप्तं जन्मनः फलम् २२।
किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे ।
स्नानेन परमेशस्य पूजनेन यथाविधि २३।
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् ।
यैर्हि नारायणो नैव ध्यातो निखिलपापहा २४।
तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप ।
द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः २५।
अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम् ।
तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते २६।
न दानेन विना भूप किंचिदप्युपतिष्ठति ।
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् २७।
सत्कुले प्राप्यते जन्म वैभवं विविधं तथा ।
सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः २८।
सुजन्ममरणं चापि सुभोगाः सुखमेव च ।
सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम् २९।
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ।
नारायणस्य जायंते सिद्धयो भूप वांच्छिताः ३०।
ऊर्जे मासि तपो मासि माधवे माधवप्रिये ।
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ३१।
विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितः ।
एहिकं सुखमासाद्य नरो हरिपदं व्रजेत् ३२।
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन ।
सूर्योदये भूप यथा तमिस्रं वचः स्वयंभूरिदमादिशन्मे ३३।
चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसंज्ञकस्य ।
यमस्य गुप्तं वचसा विचिंत्य मनुष्यलोकं गमितं चकार ३४।
तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः ।
स्नात्वा पुण्यजले तीर्थे गंगायाः पावने नृणाम् ३५।
रेवाया वा महाराज यामुने शारदेऽथवा ।
प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम ३६।
पूजयित्वा च देवेशं मुकुंदं मधुसूदनम् ।
पुत्रपौत्रधनैः श्रेयो वांच्छितानि सुखानि च ३७।
अनुभूय तपस्त्वंते स्वर्गमक्षयमाप्नुयात् ।
एवं ज्ञात्वा महाभाग मधुसूदनमर्चय ३८।
स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः ।
देवमाराध्य गोविन्दं नारायणमनामयम् ३९।
प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम् ।
देवदेवं नमस्कृत्य माधवं पापनाशनम् ४०।
प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप ।
यमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च ४१।
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः ।
कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि ४२।
एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम् ।
भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम् ४३।
अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान् ।
यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः ४४।
तथैव माधवो मासो मधुसूदनवल्लभः ।
एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम् ४५।
उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये ।
इदं माधवमासस्य माहात्म्यं कथितं तव ४६।
यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप ४७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये षडशीतितमोऽध्यायः ८६।