पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९२

← अध्यायः ०९१ पद्मपुराणम्
अध्यायः ०९२
वेदव्यासः
अध्यायः ०९३ →

सूत उवाच-।
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः ।
प्रणम्य विस्मितः प्राहचिंतयन्मनसा हरिम् १।
अंबरीष उवाच-।
कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुने ।
शूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम् २।
ब्राह्मण्यं दुर्ल्लभं तात सुकृतैर्विविधैरपि ।
कथं माधवमासस्य स्नानेनैवाप सोऽधमः ३।
न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसंज्ञैरपरैरपीश ।
अस्मादृशो भूपतयोऽर्थवंतो न ते लभंतेऽवनिदैवतत्वम् ४।
स गाधिसूनुर्विविधं तपोऽपि चिरंविधायानिशमेव घोरम् ।
कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथंचिद्बहुभिः प्रयत्नैः ५।
कथं स वर्णाधम एष पापः स्वधर्महीनो धनवान दाता ।
पुण्यादनायासकृतादमुष्मादल्पादिहावाप स रामतत्त्वम् ६।
नारद उवाच-।
सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम् ।
तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः ७।
विचित्राणि च कर्माणि विचित्रा भूतभावना ।
विचित्राणि च भूतानि विचित्राः कर्मशक्तयः ८।
कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम् ।
केनचित्कर्मणा भूप शुभेन परिवर्धते ९।
फलं ददाति सुमहत्तस्मिन्नपि च जन्मनि ।
धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा १०।
न तस्य फलदानस्य श्रूयते कालनिश्चयः ।
यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि ११।
तदागत्य कुतः क्वापि सुफलं च प्रयच्छति ।
कृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च १२।
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् ।
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् १३।
तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम् ।
अनायासमहायासौ यद्यल्पत्व महत्त्वयोः १४।
महाव्रतास्ततस्ते स्युः सततं कर्मकादयः ।
सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः १५।
पंचगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत् ।
इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता १६।
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात् ।
इदमल्पं महत्त्वं तदिति नैव नियामकः १७।
फलं यथोदितं शास्त्रे तदेव स्यान्महोदयम् ।
यथाल्पनाशो महता महन्नाशस्तथाल्पतः १८।
किंत्वल्पविस्फुलिंगेन तृणनाशः प्रदृश्यते ।
अजामिलोऽपि भूपाल दास्याः पतिरिति स्मृतः १९।
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः ।
म्रियमाणः सुताह्वानं चक्रे नारायणेति च २०।
तथा यन्नामग्रहणात्पदं लेभे सुदुर्ल्लभम् ।
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा २१।
तथा दहति गोविंदनामव्याजादपीरितम् २२।
हत्यायुतं शपनहा सहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च ।
स्तेयान्यशेषाणि हरेः प्रियेण गोविंदनाम्ना निहतानि सद्यः २३।
विष्णुभक्तिमयं वीर यत्किंचित्क्रियतेऽल्पकम् ।
सुकृतं साधु विदुषा तदक्षयफलं भवेत् २४।
संदेहो न च कर्तव्यो माधवे मासि माधवम् ।
समाराध्य जनो भक्त्या तत्तद्वांछितमाप्नुयात् २५।
अपत्यं द्रविणं दारा धरा हर्म्यं हया गजाः ।
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः २६।
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः ।
पापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानतः २७।
फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोः ।
सूक्ष्मा धर्मस्य गतयो दुर्ज्ञेया विबुधैरपि २८।
प्रियो माधवमासोऽयं माधवस्य महात्मनः ।
एकोऽपि त्रिषु लोकेषु समग्रेप्सितदायकः २९।
पुण्येन गांगेन जलेन काले देशे बुधः स्नानपरः कथंचित् ।
आजन्मनो भावहतोऽपि दाता न शुध्यतीत्येव मतं ममैतत् ३०।
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले ।
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ३१।
गंगादितीर्थेषु वसंति देवा देवालये यक्षगणाश्च नित्यम् ।
विनाशनं यांति कृतोपवासा भावोज्झितास्तेन फलं लभंते ३२।
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या ।
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ३३।
इहार्थेऽपि पुरावृत्तमाकर्णय महीपते ।
विचित्रं कथयिष्यामि फलं किमपि कर्मणाम् ३४।
तस्य माधवमासस्य प्रसादान्माधवस्य च ।
यथापि ब्राह्मणी काचित्स्वैरिण्याप शुभं फलम् ३५।
दिवोदासेति विख्यातः पुरा कांतीश्वरोऽभवत् ।
तस्यापत्यं महारत्नं नारीणामुत्तमं सदा ३६।
गुणरूपसमायुक्ता सुशीला चारुमंगला ।
दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ३७ (द्र. पद्मपुराण भूमिखण्ड, अध्यायः ८५.५४)।
पित्रा त्वालोकिता सा तु रूपलावण्यसंयुता ।
स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा ३८।
कस्मै च दीयते कन्या सुवराय महात्मने ।
इति चिंतापरो भूत्वा समालोक्य नरोत्तमः ३९।
रूपदेशस्य राजानं सम्यग्ज्ञात्वा महीपतिः ।
चित्रसेनं महात्मानं समाहूय ततो नृपः ४०।
कन्यां ददौ दिवोदासश्चित्रसेनाय धीमते ।
तस्या विवाहकालस्य संप्राप्ते समये नृप ४१।
मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल ।
दिवोदासश्च धर्मात्मा चिंतयामास भूपतिः ४२।
ब्राह्मणांश्च समाहूय पप्रच्छ नृपनंदन ।
अस्या विवाहकाले तु चित्रसेनो दिवं गतः ४३।
अस्यास्तु कीदृशं कर्म भविष्यति ब्रुवंतु मे ।
ब्राह्मण उवाच-।
विवाहो जायते राजन्कन्यायास्तु विधानतः ४४।
पतिर्मृत्युं प्रयात्येव यो वा त्यागं करोति च ।
महाधिव्याधिना भीतस्त्यागं कृत्वा प्रयाति च ४५।
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ।
तस्यां रजस्वलायां च अन्यः पतिर्विधीयते ४६।
विवाहं तु प्रधानेन पिता कुर्यान्न संशयः ।
एवं राजन्समादिष्टं धर्मशास्त्रे शुभैर्जनैः ४७।
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः ।
दिवोदासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः ४८।
विवाहार्थं महाराज मानसं कृतवान्नृप ।
पुनर्दत्ता प्रदानेन दिव्यादेवी नृपोत्तम ४९।
पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मने ।
मृत्युधर्मं गतो राजा विवाहसमयेऽपि सः ५०।
यदा यदा महाभागो दिव्यादेव्याश्च भूपतिः ।
करोति स पितोद्योगं विवाहस्यातिदुःखितः ५१।
भर्तापि म्रियते काले प्राप्तलग्नस्तदा तदा ।
एकविंशतिभर्तारः कालेकाले मृतास्ततः ५२।
ततो राजा महादुःखी संजातः ख्यातविक्रमः ।
समालोक्य तमाहूय मंत्रिभिः सह निश्चलः ५३।
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः ।
अथ तेन समाहूता राजानो विविधा नृपाः ५४।
स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराः ।
तस्यास्तु रूपसंक्षुब्धा मृत्युना प्रेषिता नृपाः ५५।
संग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम् ।
एवं तेषां क्षयो जातः क्षत्त्रियाणां नरेश्वर ५६।
दिव्यादेवी च दुःखार्ता रुरोद करुणं ततः ।
बालामालोक्य तां राजा रुदंतीं चातिदुःखिताम् ५७।
पुरोधसं च धर्मज्ञं ज्ञानवंतं तपस्विनम् ।
जातूकर्णं प्रणम्यादौ विनयान्वितकंधरः ५८।
दिवोदास उवाच-।
कथयस्व प्रसादेन किमेतस्याहि पातकम् ।
दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम् ५९।
जातूकर्ण उवाच-।
तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम् ।
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ६०।
आस्ते वाराणसी पुण्या नगरी पापनाशिनी ।
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ६१।
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः ।
तस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता ६२।
कुलाचारं परित्यज्य दुराचारेण वर्तते ।
न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते ६३।
पुण्यकार्यविहीना तु पापं चरति दुर्मतिः ।
भर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया ६४।
नित्यं परगृहे वास निरता भ्रमतेऽधिकम् ।
परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा ६५।
साधुनिंदारता पापा बहुहास्यकरी सदा ।
कुसंगतिरता वाचा दुराचारजनप्रिया ६६।
धूर्ताधर्मजनद्वेषकरी चानृतभाषिणी ।
विज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम् ६७।
तया नवीनया वीरो भार्यया सहितोऽनिशम् ।
यथासुखं स बुभुजे विषयान्मनसः प्रियान् ६८।
धर्माचारेण पुण्यात्मा सत्यपुण्यमतिः सदा ।
सत्ययामितया सत्या सुमत्याराधितो बभौ ६९।
निरस्ता तेन सा चित्रा विचित्रा वरवर्णिनी ।
स्वैरिणी गुणसंसर्गधर्मविद्वेषिणी ततः ७०।
भ्रमते जारसंयुक्ता मुक्ताचारा गतत्रपा ।
सा पापरतसंयुक्ता रक्ता दूती विकर्मणि ७१।
कुशला कुट्टिनीकर्म कलासु त्वन्ययोषिताम् ।
गृहभंगमसौ चक्रे वक्रेण मनसा हिता ७२।
साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेत् ।
नर्मलोभकथाकेलि प्रत्ययोत्पत्तिहेतुभिः ७३।
मनांसि चालयेत्पापा पुरुषाणां च योषिताम् ।
साधूनां सा स्त्रियो भव्याः परेभ्यः प्रतिपादयेत् ७४।
कारयत्येव कपटं धर्मग्रामविवर्जनम् ।
एवं वर्षशतं भुक्त्वा पश्चाद्वेश्याविधिस्थिता ७५।
कालेन निधनं प्राप्ता सततं पापनिश्चया ।
जाता तव गृहे पुत्री दिव्यादेवीति सा सुता ७६।
सुंदरी रूपसंपन्ना पुरा दृष्टेन नोदिता ।
नारद उवाच-।
इति तस्य वचः श्रुत्वा दिवोदासोऽतिविस्मितः ।
उवाच राजा मधुरं जातूकर्णं मुनिं वचः ७७।
दिवोदास उवाच-।
यदीदृशी सा दुरितप्रचारा सदा दुराचाररता प्रयाता ।
कथं ममश्रीपतिदैवतस्य महाकुलीनस्य सुतानुरूपा ७८।
सुदुर्ल्लभं राजकुले विशाले लेभे च सा श्रीमतिजन्मधन्यम् ।
पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री ७९।
नारद उवाच-।
इति तस्य वचः श्रुत्वा भूमिपस्य मुनिस्ततः ।
किञ्चिद्विहस्य तु प्राज्ञो वचः सूनृतमब्रवीत् ८०।
जातूकर्ण उवाच-।
चित्रा विचित्रसुरतैरथ वंचयंती प्रच्छन्नकामुकविटान्धनधीविहीनान् ।
वेश्या बभूव विषपानमितश्चरित्वा कालेन नागनगरे महति प्रसिद्धे ८१।
कोऽपि तत्र समायातः सायं विप्रः समार्दितः ।
अर्दमानो विशुद्धात्मा नगरे नागसंज्ञके ८२।
अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौ ।
तया संमोहितोऽत्यर्थं वेश्यया दृष्टियोगतः ८३।
पादसंवाहनस्नानतांबूलासनभोजनैः ।
विलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा ८४।
ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रः ।
संसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः ८५।
प्रातः प्रयाणाभिमुखः कथंचिदुवाच चित्रामनुरक्तचित्तः ।
संतोषितः स्वैश्चरितैः स्वकृत्यैर्वचस्तयाचैकधिया तदानीम् ८६।
ब्राह्मण उवाच-।
कार्यः प्रत्युपकारस्ते तोषितेन मया प्रिये ।
स्वदृढं च निजं दुःखं कथयाम्यविशेषतः ८७।
पुरा कथां हि वदतां विप्राणां नर्मदातटे ।
शुभं यत्सर्वपापघ्नं तदाकर्णय सादरम् ८८।
यो दिनत्रयमपि प्रयत्नतः स्नाति मेषउपयादि भास्करे ।
भास्करेऽनुदित एव माधवे मासि सोऽघनिचयैर्विमुच्यते ८९।
संपूर्णमपि वैशाखे यो बहिः स्नानमाचरेत् ।
विधिना माधवं देवमर्चयेत्सोपि पापहा ९०।
पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिः ।
महापापैर्विमुच्येत मानवो मासि माधवे ९१।
तावन्महापापचयः शरीरे शरीरिणस्तिष्ठति निर्विशंकः ।
यावन्मुदा चोषसि मेषराशिमुपागते मज्जति नो दिनेशे ९२।
एवमाकर्णितस्तेषां विप्राणां वदतां मया ।
अनेकदुरितांभोधि तरणे पोत उत्तमः ९३।
अदूरे शिवदेहा च वर्ततेऽसौ सरिद्वरा ।
तत्र स्नातुं गमिष्येऽहं तदाघौघवधाय च ९४।
यदि ते रोचते कांते विरक्तं वामनो भवेत् ।
तन्मया त्वं समागच्छ वैशाखस्नानहेतवे ९५।
अनित्यं जीवितमिदं यौवनं चातिसुंदरम् ।
हेतुर्नरकवासस्य दुर्वारश्च स नो भवेत् ९६।
आराधितस्त्वयाहं च पातितो दुरितार्णवे ।
महतामपि यत्सत्यं दुष्टस्थितशरीरिणाम् ९७।
किमत्र बहुनोक्तेन न विलंबोचितः क्षणः ।
उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि ९८।
चित्रोवाच-।
स्वामिन्न दृष्टयोगेन तव संगतिधर्मतः ।
ध्रुवं विरक्तं मच्चेतो निंद्यमेतद्भवं प्रति ९९।
नूनमेवं मया शास्त्रे श्रुतं यत्साधुसंगमः ।
अचिंत्यायै नमस्तस्यै ततो नियतायै पुनः १००।
जातूकर्ण उवाच-।
इति भाष्यततस्तेन समं चित्रा ययौ तदा ।
विद्यमानं धनं किंचिदादाय मुनिनोदिता १०१।
ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम् ।
अवाप सस्नौ च दिनेशमस्यै स्नानाय सद्योऽथ ददौ दयालुः १०२।
हृदयालुरयं विप्रः स्नापयामास तां तदा ।
यथोचितविधानेन चित्रामुच्चित्रभाषिणीम् १०३।
वैशाखस्नानमाहात्म्यं तत्र शुश्राव सा मुदा ।
पठमानेषु विप्रेषु पुराणानि पृथक्पृथक् १०४।
यस्य श्रवणमात्रेण क्षीयते दुरितांधकः ।
यथा सूर्योदये नैव तिमिरौघः प्रणश्यति १०५।
सा शिवे शिवतनूजले पुनः स्नानतोऽजनिकरे विधानतः ।
स्नानतो विमलमानसोदया सूर्यकांतिरिव निर्मला बभौ १०६।
तत्र मज्जंति रेवायां सेवायां निरता हरेः ।
वैशाखे विविधा लोका लोकानंत्यमभीप्सवः १०७।
ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयंति ।
विशेषतो माधवमासि मर्त्या भवंति मर्त्याधिपलोकलीलाः १०८।
आजन्मनोऽघस्मरणेन रेवा निहंति दृष्टा दशजन्मजं पुनः ।
स्नाता कथं चिच्छतयोनिजातं संसेविता यच्छति रुद्रलोकम् १०९।
सकलं माधवं मासं सा चित्रा नर्मदाजले ।
सस्नौ किंचिद्ददौ दानं शक्त्या विप्रेषु नित्यशः ११०।
सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेः ।
विप्राणां तत्र पठतां संगादस्य द्विजन्मनः १११।
निमज्ज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यः ।
अच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकार मासम् ११२।
कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवः ।
उवास रेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयातः ११३।
अथ कालेन कियता कालधर्ममुपेयिवान् ।
विप्रस्तदनु सा चित्रा चिरेणैव मृता नृप ११४।
तेन माधवमासस्य सुकृतेन तदैव सा ।
पुत्री तवाभवन्नूनमदृष्ट्वा यमयातनाम् ११५।
तस्य कर्मविपाकोऽयं यदाप्तं भूपतेः कुलम् ।
वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः ११६।
दिव्यादेवी वरं नाम जातं चास्यां नरोत्तम ।
यच्च दत्तवती चान्नं भोग्यसौख्यसुखानि च ११७।
ब्राह्मणाय पुरा तस्मै गणिकात्वेऽपि संगता ।
स्नात्वा च माधवे मासि किंचित्तत्रापि यद्ददौ ११८।
तस्य दानस्य सा भुंक्ते स्नानस्य च फलोदयम् ।
पिबते शीतलं तोयं मिष्टान्नं च तथानिशम् ११९।
दिव्यान्भोगान्प्रभुंजाना वर्तते च प्रभोर्गृहे ।
भुंजते विधिदत्तं च दुःखशोकादिपीडिता १२०।
यत्पुरा नरनारीणां गृहभंगरताऽभवत् ।
तस्यकर्मविपाकोऽयमस्याः किंचिदुपस्थितः १२१।
माधवस्नानमाहात्म्याद्विनैव यमयातनाम् ।
महापापापि ते वीर सुंदरी सा सुताभवत् १२२।
एतत्ते सर्वमाख्यातं तव पुत्र्या विचेष्टितम् ।
सर्वजन्मभवं वीर कर्म दुष्कर्मसंभवम् १२३।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने द्विनवतितमोऽध्यायः ९२।