पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९४

← अध्यायः ०९३ पद्मपुराणम्
अध्यायः ०९४
वेदव्यासः
अध्यायः ०९५ →

अंबरीष उवाच-
पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभो ।
यस्य श्रवणमात्रेण पापराशिर्विलीयते १।
धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम् ।
विकर्मोपार्जितं यस्य श्रवणादेव हीयते २।
चित्रं किमत्र मधुसूदन दैवतस्य मासस्य पुण्यसवनैरिह माधवस्य ।
स्नानैरवश्यविहितैरघराशिनाशः स्याद्यस्य नामपठनादपि तस्य लोकः ३।
तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यम् ।
यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम् ४।
धन्यास्तु ते माधवमासि नाम स्मरंति येऽहो मधुसूदनस्य ।
तस्यैव मे किंचिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम् ५।
सूत उवाच-
वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य ।
स माधवस्नानसमुत्सुकोऽपि कथारसेनाह स माधवस्य ६।
नारद उवाच-
सत्यं महीपाल मिथो मुकुंदकथारसालापविधिर्विशुद्धः ।
त्वया समं माधवमासधर्मस्नानाधिकोऽयं हरिदैवतेन ७।
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च ।
अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ८।
किंचिद्वक्ष्यामि ते राजन्वैशाखस्नानजं फलम् ।
अस्मत्पितापि नो वक्तुमलं विस्तरतोऽखिलम् ९।
यत्र मज्जनमात्रेण प्रेता मुक्तिमुपागताः ।
माधवे मासि ते पापा नर्मदासलिले परे १०।
पुरातीर्थप्रसंगेन भ्रमन्कोपि महीसुरः ।
मुनिशर्मेति विख्यातो धर्मात्मा सत्यवाञ्छुचिः ११।
युक्तः शमदमाभ्यां च क्षांतिसंतोषसंयुतः ।
युक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान् १२।
युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने ।
युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः १३।
स्वकर्मणि रतो धीरो हृदयालुः प्रियाप्रियः ।
दयालुरतिमेधावी तत्त्वविद्ब्राह्मणप्रियः १४।
माधवे मासि रेवायां स्नानार्थं प्रतिसंचरन् ।
अग्रतः पंचपुरुषान्ददर्शातीव दुःखितान् १५।
परस्परमसंसर्गकारिणः कृष्णविग्रहान् ।
वटच्छायामुपाश्रित्य समासीनानवस्थितान् १६।
पश्यंतो दिक्षु सर्वासु दुरितोद्विग्नचेतसः ।
तानालोक्य द्विजश्रेष्ठश्चिंतयामास विस्मितः १७।
अत्रैते के नरा भीता विपिने दीनचेष्टिताः ।
चौरा वा विकृताकारा दृश्यंते संगभागिनः १८।
परस्परं च भाषंतः कृशाः कृष्णवपुः श्रियः ।
यावदेवं स विप्राग्र्यो विचारयति धीरधीः १९।
तावदागम्यते सर्वे दूरस्था मुनिमादरात् ।
बद्धांजलिपुटा भूत्वा प्रणम्योचुरिति स्फुटम् २०।
पंचपुरुषा ऊचुः -
भव्यं भवंतं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यम् ।
मन्यामहे विप्र दयालुमुख्यं वाचं समाकर्णय नोसि मैत्रः २१।
संतः प्रतिष्ठा दीनानां दैवादुद्भूतपापिनाम् ।
आर्तानामार्तिहंतारो दर्शनादेव साधवः २२।
अहं पांचालदेशीयः क्षत्रियो वीरवाहनः ।
ब्राह्मणं हतवान्मोहाच्छरेण शब्दवेधिना २३।
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः ।
अटामि जगतीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन् २४।
ब्रह्मघ्नायातिपापाय भिक्षा मह्यं प्रदीयताम् ।
एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागतः २५।
ब्रह्महत्या न मेद्यापि प्रयाति मुनिसत्तम ।
एवं मे वर्षमेकं हि व्यतीतं कुर्वतो विभो २६।
दह्यमानस्य पापेन शोकाकुलितचेतसः ।
चंद्रशर्मापरो विप्रो योयं संलक्ष्यते द्विज २७।
गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसः ।
मोहाकुलितचित्तत्वाद्गुरुघातक उच्यते २८।
निवसन्मागधेदेशे संत्यक्तः स्वजनैस्ततः ।
दैवादसावपि मुने भ्रमन्निह समागतः २९।
शिखासूत्रविहीनस्तु विप्रलिंगविवर्जितः ।
मया पृष्टस्तु वृत्तांतं सत्यमेवावदद्द्विजः ३०।
वसता यद्गुरोर्गेहे क्रोधाकुलितचेतसा ।
महामोहगतेनापि यथा वै घातितो गुरुः ३१।
तेन पापेन दग्धोऽसौ वर्तते शोकपीडितः ।
तृतीयोऽयं पुनः स्वामिन्वेदशर्मासमाहितः ३२।
सुरापो ब्राह्मणो जातो मोहाद्वेश्याप्रसंगतः ।
पृष्टो मयायमपि मे यथावृत्तं तथाब्रवीत् ३३।
आत्मनश्चेष्टितं सर्वं मनस्तापेन पीडितः ।
निरस्तः सर्वलोकैश्च भार्याबंधुजनैरपि ३४।
तेन पापेन संलिप्तो भ्रमन्नत्रायमागतः ।
चतुर्थो विधुरो नाम वैश्योऽयं गुरुतल्पगः ३५।
मोहान्मासत्रयं यावद्वेश्याभूतां च मातरम् ।
बुभुजे स विदेहस्थां ज्ञाततत्त्वस्ततश्चरन् ३६।
दुःखितोऽभ्यागमद्भूमिं भ्रमन्निह मुने पुनः ।
पंचमोऽयं महापापी पापिसंसर्गकारकः ३७।
प्रत्यहं धनलोभेन स्तेयादिकृतवानघम् ।
वैश्योतिपातकैः क्रांतस्ततस्त्यक्तो जनैः स्वयम् ३८।
निर्विण्णमानसो दैवान्नंदनामेह संगतः ।
एवं पंचापि पापिष्ठाः स्थानमेकमुपागताः ३९।
कः कस्यापि न संपर्कं भोजनाच्छादनादिभिः ।
न करोति महाभाग विना वार्तां द्विजोत्तम ४०।
विशंत्येकासने नैव न स्वपंत्येकसंस्तरे ।
एवं दुःखसमाक्रांता नानातीर्थेषु वै गताः ४१।
नास्माकं पातकं घोरं प्रयाति मुनिसत्तम ।
दृष्ट्वा भवंतं दीप्यंतं प्रसन्नानि मनांसि नः ४२।
वदंति दुरितप्रांतं साधोस्ते पुण्यदर्शनात् ।
उपायं वद नः स्वामिन्यथा पापक्षयो हि नः ४३।
ज्ञायते करुणोऽस्माभिर्विप्र वेदार्थवित्प्रभो ।
आर्तानां मार्गमाणानां पश्चात्तापमुपेयुषाम् ४४।
मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितम् ।
नारद उवाच-
तेषामिति वचः श्रुत्वा मुनिशर्मा मुनिस्ततः ४५।
इदमाह विचार्येति करुणावरुणालयः ।
मुनिशर्मोवाच-
यूयमज्ञानतः प्राप्तपातकाः सत्यभाषिणः ४६।
अनुतापयुतास्तस्मादनुग्राह्या मयाधुना ।
शृणुध्वं मे वचः सत्यमूर्ध्वबाहुर्वदाम्यहम् ४७।
यन्मयांगिरसः पूर्वं श्रुतं मुनिसमागमे ।
दृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तथा ४८।
विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वतः ।
न तृप्तिरशनादन्या न गुरुर्जनकादपि ४९।
न पात्रमन्यद्विप्रेभ्यो न देवः केशवात्परः ।
न गंगया समं तीर्थं न दानं सुरभीसमम् ५०।
न गायत्र्या समं जाप्यं न द्वादश्यासमं व्रतम् ।
न भार्यया समं मित्रं न धर्मो दयया समः ५१।
न स्वातंत्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरः ।
न सत्यात्परआचारो न संतोषात्परं सुखम् ५२।
न माधवसमो मासो महापापहरः परः ।
विधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः ५३।
गंगादिषु च तीर्थेषु विशेषेण सुदुर्लभः ।
प्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च ५४।
तावद्गर्जंति पापानि यावन्नायाति माधवः ।
वैशाखमखिलं मासं यः स्नाति हरितत्परः ५५।
हरिपादसमुद्भूते सलिले विमलाशयः ।
स एव सर्वपापानां हंता दृष्टस्तु पापिभिः ५६।
निजपापौघनिष्कृत्यै वक्तव्यं तस्य किन्नरैः ५७।
मासे तु वै माधवसंज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हि ।
मेषस्थिते संप्रति नर्मदायाः शर्मप्रदे वारिणि वारिताघे ५८।
दुर्लभा हि महानद्यो माधवे मासि सर्वशः ।
ततोऽपि दुर्लभा गंगा रेवा च यमुना तथा ५९।
एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम् ।
यः स्नाति माधवे मासि विपापः स हरिं व्रजेत् ६०।
तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवंत उपेत्य रेवाम् ।
मज्जंतु पातककृतो मुनिवृंदजुष्टे रेवाजले निखिलपापभयापहत्यै ६१।
एवमुक्तास्ततः सर्वे मुदिता मुनिना सह ।
जग्मुस्ते पापिनो रेवां शंसंतोऽद्भुतकारिणीम् ६२।
मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैः ।
ददर्श पथिसंत्रस्तान्पिशाचानष्ट भीषणान् ६३।
कुर्वंतो विविधाञ्छब्दान्भ्रमंतोऽपि ततस्ततः ।
ऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदंतकृशोदरान् ६४।
अरण्ये कंटकाक्रांते वृक्षपानीयवर्जिते ।
सम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः ६५।
नमोनारायणायेति रक्षरक्षेति चाब्रवीत् ६६।
नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैः ।
भवांतरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः ६७।
विनयान्वितमनसो मुनिशर्मा विलोक्य तान् ।
उवाच मधुराभाषी के यूयं विकृता नराः ६८।
किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिः ।
कथमेवं विधाः सर्वे दुःखिनोऽतीव भीषणाः ६९।
प्रेता ऊचुः -
क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाः ।
कृतबुद्धे हृदि क्रूरा नष्टसंज्ञा विचेतसः ७०।
न जानीमो दिशः क्वापि मूढा मानवघातिनः ।
तदेतद्दुःखमाख्यातमेतदेवासुखं पुनः ७१।
प्रभातमिव संभाति भास्करोदयदर्शनात् ।
श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम् ७२।
दृष्ट्वा च दर्शनं विप्र शुद्धभावं गता वयम् ।
दर्शनेनैव ते विप्र नामश्रवणतो हरेः ७३।
भवांतरमनुप्राप्ता वयं प्राप्ता दयालवः ।
विनाशयत्यपयशो बुद्धिं विशदयत्यपि ७४।
प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम् ।
अहं पर्युषितो नाम सूचकोऽयं द्वितीयकः ७५।
शीघ्रगो रोधकश्चान्यः पंचमोयं च लेखकः ।
षष्ठोयमिति वाग्दुष्टः सप्तमोयं विदैवतः ७६।
नित्यंयाजनकश्चायमष्टमः कष्टदायकः ।
मुनिशर्मोवाच-
प्रेतानां कर्मजातानां नामानि भवतां कुतः ७७।
किं तत्कारणमुद्दिश्य येन यूयं सनामकाः ।
प्रेता ऊचुः -
मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे ७८।
आज्ये सति निराज्यं च तेन पर्य्युषितोऽस्म्यहम् ।
मिथ्यामिथ्यापरच्छिद्र मर्म्मान्वेषी स्वभावतः ७९।
सूचयामास तेनासौ सूचकोऽशुचिरातुरः ।
शीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै ८०।
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम ।
गृहोपरि सदा स्वादुभुक्तमेतेन पापिना ८१।
एकाकिना कुमनसा तेनासौ रोधकः स्मृतः ।
मौनेनापि स्थितो नित्यं पादेन लिखते महीम् ८२।
अस्माकमपि पापिष्ठो लेखको लोकसंगतः ।
गुणिनोयं गुणान्द्वेष्टि निर्गुणे च गुणज्ञताम् ८३।
असंज्ञे ज्ञानयोगी च वाग्दुष्टोसौ ततः स्मृतः ।
नास्तिक्यभावादनिशं पितृदैवत मानवान् ८४।
न मन्यते च सत्कर्म पापस्तेन विदैवतः ।
सदा याचनको मिथ्या मिथ्यादौर्गत्यदर्शकः ८५।
सभूतोद्वेजको लुब्धस्तेन याचनकस्त्वयम् ।
एभिः पूर्वकृतैः पापैर्भुक्त्वा नरकयातनाम् ८६।
प्रेतास्ते दर्शनादद्य पुनर्जाताः स्म सुस्थिताः ।
एतत्ते सर्वमाख्यातमात्मवृत्तांतसंभवम् ८७।
प्रश्नं च यदि ते श्रद्धा पृच्छान्यत्कथयामि ते ।
ब्राह्मण उवाच-
ये जीवा भुवि तिष्ठंति सर्वआहारमूलकाः ८८।
युष्माकमपि आहारं श्रोतुमिच्छामि तत्त्वतः ।
प्रेता ऊचुः -
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम् ८९।
यं श्रुत्वा निंदसे ब्रह्मन्भूयोभूयश्च नित्यशः ।
श्लेष्ममूत्रपुरीषेण योषिदंगमलेन च ९०।
गृहाणित्यक्तशौचानि तानि भुंजंति तत्र वै ।
स्त्रीदग्धानि प्रकीर्णानि प्रकीर्णायस्कराणि च ९१।
कुत्सितानि मलेनापि प्रेता वै तत्र भुंजते ।
माधवं यत्र नार्चंति स्त्रीजितानि गृहाणि च ९२।
दया क्षांतिविहीनानि प्रेतास्तत्रैव भुंजते ।
यत्राभद्रा गृहे वाचः शौचहीनाश्च योषितः ९३।
कलहो यत्र सततं प्रेतास्ते तत्र भुंजते ।
न यत्र जामयो गेहे पूज्यंते न वराः स्त्रियः ९४।
यत्र दुर्जनसंसर्गस्तत्र भोक्ष्यामहे वयम् ।
न यत्र हरिसेवा वा न कथा यत्र वैष्णवी ९५।
न यत्र वैष्णवी प्रीतिः प्रेता वै तत्र भुंजते ।
येषामेवं गृहे प्रीता भुंजते तेऽपि सत्वरम् ९६।
प्रेता भवंति पापेन निजवंशविनाशकाः ।
तस्य मे जायते ब्रह्मन्वदतो भोजनं निजम् ९७।
अस्मात्पापतरं चान्यत्किंचिद्वक्तुं न शक्यते ।
निर्विण्णः प्रेतभावेन पृच्छामि त्वां दृढव्रतम् ९८।
यथा न जायते प्रेतो मुक्तिः प्रेतत्वतो यथा ।
ब्राह्मण उवाच-
एकादश्यादिभिः पुण्यैर्व्रतैरच्युतकीर्तनैः ९९।
देवतातिथिपूजाभिर्गुरुपूजादिभिस्तथा ।
आचारैः साधुचरितैः श्रुतिस्मृत्युदितैर्दिनैः १००।
एवं श्राद्धक्रियादानैर्यथाविधिविनिर्मितैः ।
दयादानदमक्षांतिशीलशिष्टाभिवादनैः १०१।
इत्येवमादिभिर्धर्मैः प्रेता न स्युः कुलेऽपि वै ।
गोविप्रतीर्थामरपर्वताग्र्य नदीनदाश्वत्थतरूननेकशः १०२।
यो वंदते बंधुजने विनीतः प्रेतो न लोके भवतीह नूनम् ।
क्रमादर्च्चयते युक्तो विशेषादपि मानवः १०३।
गंगादिपुण्यतीर्थेषु तस्य पुण्यमनंतकम् ।
नाहं वर्षसहस्रेषु वक्तुं शक्तः स्वयं विभुः १०४।
दर्शनादेव तस्यापि मुक्तः प्रेतत्वतो भवेत् ।
ऊर्जमूर्जस्वलं मासमथ दामोदरप्रियम् १०५।
तपसामुत्तमं मासं तपो माधववल्लभम् ।
वैशाखं माधवं मासं मधुसूदनदैवतम् १०६।
उत्तमं सर्वमासानां यमेकं मुनयो विदुः ।
येनैव साधनेन स्यात्सर्वं कृत्यं हि साधितम् १०७।
ब्रह्मविद्यामताभ्येति सा लक्ष्मीर्विश्वकारिणी ।
तस्या वासो यतो मासो माधवोऽसौ ततः स्मृतः १०८।
न माधवसमो देवो यथा देवेषु निश्चितम् ।
तथा मासेषु सर्वेषु न मासो माधवप्रियः १०९।
तस्य माधवमासस्य माहात्म्यमपि भक्तितः ।
श्रुत्वा विमुच्यते प्रेतयोनितः किं विधानतः ११०।
सतां संभाषणादेव पुण्यतीर्थनिषेवणात् ।
नारायणेति पठनात्तन्नामश्रवणादपि १११।
मुच्यते पातकैः सर्वैर्जनो भक्तिपरायणः ।
यतिष्ये तदहं प्रेता भवतामपि मुक्तये ११२।
परोपकारजं पुण्यं यतो न स्यान्मखैरपि ।
प्रेता यामि ततः स्नातुं रेवावारिणि माधवे ११३।
मासि मेषस्थिते भानावेतैरनुगतो नरैः ।
पंचैव ते पुनर्मोहाज्जातपातकसंचयाः ११४।
स्नातुमायांति वचसा ममैव करुणावतः ११५।
तावद्भवंतस्तु निदेशतो मे तिष्ठंतु तत्रैव वने विशोकाः ।
श्रीनर्मदावारिणि यावदेव गत्वा निजस्नानविधिं विहाय ११६।
निर्माय पुरुषानपि नाम तस्मात्कुशस्वरूपानिह नर्मदा के ।
विधानतो माधवमासि दीनान्निमज्जयामीति दया निबद्धः ११७।
एवं दिनत्रयेणैव मुक्तिर्वः प्रेतयोनितः ।
न दर्भबटुकस्नानमात्रेणैव न संशयः ११८।
नारद उवाच-
एवमुक्तस्ततस्तैस्तु प्रतीतैरपि पूजितः ।
मुनिशर्मा ययावेतैरनुयातस्तु पंचभिः ११९।
तत्र गत्वा ततः प्रातः स्नात्वा कृत्वा तथाविधिम् ।
स्नापयामास तान्प्रेतान्नामतो दर्भनिर्मितान् १२०।
स्मृताश्च मुनिना तीर्थे स्नापिता नामतस्तथा ।
प्रेताः पुण्यवता तेन सद्यो मुक्ता दिवं ययुः १२१।
ते पापिनः पंच यदैव रेवाजले निमग्ना वचसैव तस्य ।
श्रीमाधवे मासि विवर्णदेहाः सद्यः सुवर्णैकरुचो बभूवुः १२२।
पापप्रशमनं स्तोत्रं श्राविता मुनिशर्मणा ।
समक्षं सर्वलोकानां जातास्ते वरकांतयः १२३।
तत्रस्था मानवास्तांस्तु विरजान्स्नानमात्रतः ।
न स्पृशंति च राजेंद्र पापिसंसर्गशंकथा १२४।
मुनिशर्मानुरोधेन ततो धर्मप्रमाणतः ।
सद्यो दिव्याभवद्वाणी यदेते विगतैनसः १२५।
स्नातानां माधवेमासि मुकुंदहृदयात्मनाम् ।
पापप्रशमनं स्तोत्रं शृण्वतामिह सादरम् १२६।
चित्रं किमत्र या शुद्धिर्जायते पापसंचयात् ।
सर्वेषामेव पापानां प्रायश्चित्तमिदं परम् १२७।
यत्प्रातर्माधवे मासि भक्त्या तीर्थेऽवगाहनम् ।
यतः प्रेतास्तु ते पापाः स्नापिता नाममात्रतः १२८।
स्मृताः पुण्यवता तेन मोचिता मुनिशर्मणा १२९।
इत्येवमाकर्ण्य गिरं नभःस्थामत्यद्भुतामाशु ततो मनुष्याः ।
शशंसुरेतानपि पंचपुण्यान्वैशाखमासं च मुनिं च रेवाम् १३०।
अथ चाकर्ण्य भूपालः स्तवं दुरितनाशनम् ।
यदाकर्ण्य नरो भक्त्या मुच्यते पापराशिभिः १३१।
यस्य श्रवणमात्रेण पापिनः शुद्धिमागताः ।
अन्येऽपि बहवो मुक्ताः पापादज्ञानसंभवात् १३२।
परदार परद्रव्य जीवहिंसादिके यदा ।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा १३३।
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।
नमामि विष्णुं चित्तस्थमहंकारगतं हरिम् १३४।
चित्तस्थमीशमव्यक्तमनंतमपराजितम् ।
विष्णुमीड्यमशेषाणामनादिनिधनं विभुम् १३५।
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।
यच्चाहंकारको विष्णुर्यो विष्णुर्मयि संस्थितः १३६।
करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च ।
तत्पापं नाशमायाति तस्मिन्नेव हि चिंतिते १३७।
ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ।
तमुपेंद्रंमहं विष्णुं प्रणमामि नतिप्रियम् १३८।
जगत्यस्मिन्निरालंबे मधुसूदनमच्युतम् ।
हस्तावलंबनं स्तोत्रं विष्णुं वंदे परात्परम् १३९।
सर्वेश्वरेश्वरविभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमोस्तु ते १४०।
नृसिंहानंत गोविंद भूतभावन केशव ।
दुरुक्तं दुष्कृतं ध्यातं शम पापं नमोस्तु ते १४१।
यन्मया चिंतितं दुष्टं स्वचित्तवशवर्तिना ।
अकार्य्यमघमत्युग्रं तच्छमं नय केशव १४२।
ब्रह्मण्यदेव गोविंद परमार्थपरायण ।
जगन्नाथ जगद्धातः पापं शमय मेऽच्युत १४३।
यच्चापराह्णे सायाह्ने मध्याह्ने च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता १४४।
जानता च हृषीकेश पुंडरीकाक्ष माधव ।
नामत्रयोच्चारणतः सर्वे यांतु मम क्षयम् १४५।
शारीरं मे हृषीकेश पुंडरीकाक्ष मानसम् ।
पापं प्रशममायातु वाक्कृतं मम माधव १४६।
यद्भुंजानः पिबंस्तिष्ठन्स्वपञ्जाग्रद्यदास्थितः ।
अकार्षं पापमर्थार्थं कायेन मनसा गिरा १४७।
महदल्पमपि प्रायो दुर्योनि नरकावहम् ।
तत्पापं प्रशमं यातु वासुदेवस्य कीर्तनात् १४८।
परं ब्रह्म परं धाम पवित्रं परमं च यत् ।
तस्मिन्प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु १४९।
यत्प्राप्य न निवर्त्तंते गंधस्पर्शादिवर्जिताः ।
सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वयम् १५०।
पापप्रशमनं स्तोत्रं यः पठेच्छृणुयान्नरः ।
शारीरैर्मानसैर्वाग्जैः कृतैः पापैः स मुच्यते १५१।
मुक्तः पापग्रहादिभ्यो याति विष्णोः परं पदम् ।
तस्मात्पापे कृतं जप्यं स्तोत्रं सर्वाघमर्दनम् १५२।
प्रायश्चित्तमघौघानां पठितव्यं नरोत्तमैः ।
प्रायश्चित्तैः स्तोत्रवरैर्व्रतैर्नश्यति पातकम् १५३।
ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ।
पूर्वजन्मार्जितं पापमैहिकं च नरेश्वर १५४।
स्तवस्य श्रवणादस्य सद्य एव विलीयते ।
पापद्रुमकुठारोऽयं पापेंधनदवानलः १५५।
पापराशितमः स्तोम भानुरेष स्तवो नृप ।
मया प्रकाशितस्तुभ्यं तथा लोकानुकंपया १५६।
स्तवो योऽयं मया प्राप्तो रहस्यं पितुरादरात् ।
इतिहासमिमं पुण्यं यः शृणोति नराधिप १५७।
तस्यापि पुण्यमाहात्म्यं वक्तुं शक्तः स्वयं हरिः ।
स्वस्ति तेस्तु महाराज गंगायामथ सत्वरम् १५८।
स्नातुं यामि समायातो मासोऽयं माधवो महान् १५९।
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमाहात्म्ये प्रेतोपाख्याने पापप्रशमनंनाम चतुर्नवतितमोऽध्यायः ९४।