पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १००

← अध्यायः ०९९ पद्मपुराणम्
अध्यायः १००
वेदव्यासः
अध्यायः १०१ →

श्रीराजोवाच-
क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः ।
तथ्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः १।
असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम् ।
त्वयाहं पायितः सौम्य भवरोगनिवारणम् २।
हर्षप्रदो नृणां पापहानिकृज्जीवनौषधम् ।
जरामृत्युहरो विप्र सद्भिः किल समागमः ३।
यानि यानि दुरापानि वांछितानि महीतले ।
प्राप्यंते तानि तान्येव साधूनामेव संगमात् ४।
यः स्नातः पापहरया साधुसंगम गंगया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ५।
निमज्ज्योन्मज्जतान्नॄणां भवाब्धौ परमायनम् ।
संतो धर्मविदः शांता नौर्दृढे वाप्सुमज्जताम् ६।
यो मे भावःपुरा ह्यासीत्कामैकसुखलालसः ।
दर्शनाद्वचनात्तेऽद्य विपरीतोऽभवद्विभो ७।
एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत् ।
प्राज्ञो जन्मसहस्राणि संचिनोत्येकजन्मना ८।
हाहा कामरसास्वाद सुखलालसचेतसा ।
मया मूढेन न कृतं किंचिदात्महितं द्विज ९।
अहो मे मनसो मोहो येनात्मा योषितां कृते ।
पातितो व्यसने घोरे दुःखोदर्के दुरत्यये १०।
भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते ।
उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि ११।
पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत् ।
त्वत्पादरजसा वापि विशेषादपि पावितः १२।
विधिं माधवमासस्य ब्रूहि मे वदतां वर ।
सर्वपापक्षयकरो यस्त्वया परिकीर्तितः १३।
किं दानं तत्र किं स्नानं को देवो नियमास्तु के ।
एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे १४।
यम उवाच-
इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः ।
प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम् १५।
कश्यप उवाच-
पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप ।
पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे १६।
पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम् ।
विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः १७।
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् १८।
विदुषामपि शिष्याणां पुत्राणां च क्रियावताम् ।
अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम् १९।
सांप्रतं शुद्धहृदयो जातस्त्वं वचनान्मम ।
पुराचरितपुण्येन केनापि च महीपते २०।
पापावस्थं शरीरं तद्गतं तव ममाश्रयात् ।
श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत् २१।
पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम् ।
अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकम् २२।
धर्माधर्मोपभोगाय तत्तृतीयमतींद्रियम् ।
तत्त्रिभेदं शरीरं हि धर्म्मविद्भिरिहोच्यते २३।
यावता धर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकम् ।
पापावस्थं शरीरं तत्पापसंज्ञं तदुच्यते २४।
इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम ।
शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम् २५।
तेनैव शुद्धिरमला जाता धर्मक्रियोचिता ।
दैवेन देहिनां नाम चेतांसि चरितानि च २६।
शरीराणि च पुष्यंति कालेकाले विपर्ययम् ।
सांप्रतं भवतश्चेतो नूनं धर्मे प्रवर्तते २७।
तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम् ।
यम उवाच-।
ततस्तु कारितस्तेन कश्यपेन पुरोधसा २८।
स नृपो माधवे मासि स्नानं दानं च पूजनम् ।
यथादृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिम् २९।
स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम् ।
श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः ३०।
श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात् ३१।
स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम् ।
श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण ३२।
प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम् ।
नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः ३३।
दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम् ।
यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः ३४।
अथेतरेषु मासेषु कामिनीकुचकेलिवान् ।
भोगैकलालसो भूयो भवत्येवं यथारुचि ३५।
न धर्मनियमं राजकार्येषु न विचारणम् ।
करोति कामवशगो हित्वा मासं स माधवम् ३६।
महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः ।
शरीरसहजो नूनमनादिर्वासनाक्रमः ३७।
केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः ।
यस्मादग्निशिखा नार्यो दहंति तृणवन्नरम् ३८।
घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम् ।
मोहधूममयः पापो न केषामंधकारितम् ३९।
इति श्रीपद्मपुराणेपातालखंडे वैशाखमासमाहात्म्ये शततमोऽध्यायः १००।