पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०२

← अध्यायः १०१ पद्मपुराणम्
अध्यायः १०२
वेदव्यासः
अध्यायः १०३ →

यम उवाच-
ततस्तु करुणावार्धिस्तेषां शोकेन पीडितः ।
भूपतिः श्रीहरेर्दूतान्विनयेनाह वाडव १।
ऐश्वर्यस्याभिजात्यस्य गुणानां सुकृतस्य च ।
संतः फलं हि गण्यंते यद्भीतपरिरक्षणम् २।
यद्यस्ति सुकृतं किंचिन्मम तेनैव जंतवः ।
स्वर्गे गच्छंतु मुक्तौघाः स्थाने तेषां वसाम्यहम् ३।
एवं भूपवचः श्रुत्वा तस्य सत्यवतो हि ते ।
ध्यायंतः सत्यमौदार्यमब्रुवंस्ते वचो नृपम् ४।
दूता ऊचु-
अनेन तव कारुण्यकर्मणा वचसा नृप ।
बभूव वृद्धिर्धर्मस्य संचितस्य विशेषतः ५।
स्नानं दानं जपो होमस्तपो देवार्चनादिकम् ।
कृतं यन्माधवे मासि तदनंतफलं विदुः ६।
स्वर्गे यज्वा च दाता च क्रीडते त्रिदशैः सह ।
वापीषु हेमपद्मासु कल्पवृक्षतलेऽपि च ७।
गीयमानो मुदं याति गीर्वाणरमणीगणैः ।
जलान्नदानतो लोकं लभते वारुणं शुभम् ८।
कुलानि हेलया सप्त संतारयति गोप्रदः ।
हयं दत्वा रवेर्लोकं याति विद्याप्रदो नरः ९।
ब्रह्मलोकं तथा हेमदानाद्याति सुरालये ।
यो ददाति तथा कन्यां विष्णुलोकं स गच्छति १०।
माधवेमासि यः स्नात्वा दत्वा संपूज्य माधवम् ।
अवाप्य सकलान्कामान्प्रयाति पदमव्ययम् ११।
एकतोऽपि तपो दान क्रतु सुत्यादिकाः क्रियाः ।
एकतो विधिवन्मासो माधवश्चरितो महान् १२।
तस्य माधवमासस्य दिनैकस्यापि भूपते ।
कृतं यत्सुकृतं तत्ते सर्वदानाधिकं पुरा १३।
कारुण्येन दिनैकस्य पुण्यं देहि धरापते ।
निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिधे १४।
न दयासदृशो धर्मो न दयासदृशं तपः ।
न दयासदृशं दानं न दयासदृशः सखा १५।
पुण्यदः पुण्यमाप्नोति नरो लक्षगुणं सदा ।
कारुण्येन विशेषात्ते धर्मवृद्धिस्ततो भवेत् १६।
दुःखितानां हि भूतानां दुःखोद्धर्त्ता नरो हि यः ।
स एव सुकृती लोके ज्ञेयो नारायणांशजः १७।
वैशाखे मासि पूर्णायां स्नानदानादिकं त्वया ।
यत्तीर्थे विहितं वीर सर्वाघविनिषूदनम् १८।
तदेभ्यो देहि विधिवत्कृत्वा साक्ष्ये हरिं प्रभुम् ।
त्रिवाचिकं च निरयाद्येनामी स्वर्गमाप्नुयुः १९।
कपोतार्थं स्वमांसानि कारुण्येन पुरा शिबिः ।
दत्वा दयानिधिः स्वर्गे राजते कीर्तिवारिधिः २०।
दधीचिरपि राजर्षिर्दत्वास्थि च यमात्मनः ।
त्रैलोक्यकौमुदीं कीर्तिं लब्धवान्स्वर्गमक्षयम् २१।
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः ।
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् २२।
न स्वर्गे नापवर्गेऽपि तत्सुखं लभते नरः ।
यदार्तजंतुनिर्व्वाणदानोत्थमिति नो मतिः २३।
सर्वेषु दातृजातेषु पुरा जातोसि भूपते ।
कर्मणानेन संख्यासु धीर धैर्यं नियोज्य च २४।
दृष्ट्वा तवधियं धर्म दया दानं सुनिश्चलम् ।
अस्माभिरपि तूत्साहः क्रियते धर्म्मवादिभिः २५।
यदि ते रोचते राजन्न विलंबतया ततः ।
तदेभ्यो देहि तत्पुण्यं यातनादुःखदाहकम् २६।
इत्युक्तः स तदा देवं कृत्वा साक्ष्ये गदाधरम् ।
तेभ्यस्त्रिवाचिकं पुण्यं दयावान्विधिना ददौ २७।
दत्ते माधवमासस्य तस्मिन्नेकदिनोद्भवे ।
स्वकृते जंतवो याम्ययातनापरिवर्जिताः २८।
विमानवरमारूढाः सर्वे ते त्रिदिवं ययुः ।
प्रणमंतः स्तुवंतश्च पश्यंतस्तं प्रहर्षिताः २९।
नृपेण दत्तं तदवाप्य पुण्यं वैशाखमासैकदिनाभिजातम् ।
सर्वे ययुस्ते नरकाद्विमुक्ता दिवं विमानाधिगता हि चित्रम् ३०।
नूनं विचित्रो भुवि भूतवर्गः संभूतभावो बहुधा विचित्रः ।
तथा विचित्रोऽखिलकर्मयोगस्तत्कर्मशक्तिप्रचयो विचित्रः ३१।
संस्तूयमानो मुनिदेवसंघैर्यस्तद्विशेषाधिकलब्धपुण्यः ।
परं पदं योगिवरैरलभ्यं ययौ जगन्नाथगणाभिवंद्यः ३२।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये ।
द्व्युत्तरशततमोऽध्यायः १०२।