पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/विषयानुक्रमणिका

अथ पंचमपातालखंडस्थविषयानुक्रमणिका प्रारभ्यते ।। ५ ।।


१. शौनकादिऋषीन्प्रति सूतेन शेषवात्स्यायनसंवादद्वारा रामाश्वमेधचरित्रक थनारंभः. तत्र रामस्य रावणं हत्वाऽयोध्यायामागमनाय लंकातो विमानमारुह्य परावृत्तिः, रामागमनाय भरतकृत सूर्यप्रार्थना, रामस्य विमानमध्यात् नंदिग्राम- दर्शनम्। श्लो० ४५ ॥

२. रामप्रहितस्य मारुतेर्भरतं प्रत्यागमनम्, रामभरतसमागमः, रामस्यायोध्यां प्रत्यागमनम्। श्लो० ४० ।।

३ - रामस्यायोध्यायां प्रवेशः, मातृदर्शनम्, रामागमनप्रहृष्टपौरनारीणां परस्प- रं संवादः। श्लो० ३४ ।।

४. रामवियोगाद्राममातुर्विलापकरणम्, रामेण मातृदर्शनपूर्वकं मातृभिः सह संवादकरणम्, रामचंद्रस्य राज्याभिषेकः, राज्याभिषिक्ते रामे प्रजानां सुखवृ- त्तवर्णनम्। श्लो० ५४ ।।

५. सर्वदेवकृत-रामस्तुतिः, देवेभ्यो रामकृतवरप्रदानम्, रामराज्यस्यव्यवस्थिति प्रकारकथनम्। श्लो० ५० ।।

६. रामेणागस्तिस्वागतकरणम्, अगस्तिना रावणादिजन्मवृत्तांतवर्णनम्, कुबेर- जन्म, कुबेरसंपत्त्या परिततथा रावणादिमात्रा रावणादीनां धिक्करणम्, रावणादि भिर्मातुःसमीपे कुबेराधिकसंपत्तिप्राप्त्यर्थं प्रतिज्ञाकरणम्। श्लो० ४३ ।।

७. रावणकुंभकर्णविभीषणानामत्युग्रतपःकरणेन संतुष्टाद्ब्रह्मणः सकाशाद्वरप्रा- प्तिः, तत्प्रभावपरितप्तदेवैः कृतया प्रार्थनया भगवतो रामादिरूपेणावतरणकथ- नम् , रामस्य ब्राह्मणरावणवधश्रवणोत्तरं मूर्छाप्राप्तिः। श्लो० ३८ ।।

८ - ब्रह्मवधपरितप्तस्य रामस्य पश्चात्तापकरणम्, ब्रह्मवधविषण्णं रामं प्रति कुं- भयोनिना मुनिना सांत्वनम्, अश्वमेधविधिजिज्ञासया रामस्यागस्तिं प्रति प्रश्नः। श्लो० ३७ ।।

९. अगस्तिनाऽश्वलक्षणकथनम्, मंदुराया यज्ञयोग्याश्वपरीक्षणम्, अश्वमेधयज्ञाय महर्षिजनानामन्त्रणम, रामस्य महर्षीन्प्रति वर्णाश्रमधर्मविषयकप्रश्नकरणम् ऋ- षिभिर्वर्णाश्रमधर्मकथनम श्लो० ६७ ।।

१०. वसंतर्तौ महर्षिगणैः सह रामस्य यज्ञमण्डपं प्रत्यागमनम्, यज्ञदीक्षास्वी- कारः, दिग्विजयार्थमश्वस्य सज्जीकरणम्, सुवर्णनिर्मितसीतया सह रामस्य व- सिष्ठाज्ञया कुंडमंडपादिकरणम्, अश्वमूर्धनि स्वमुद्राचिह्नित सुवर्णपत्रबंधनम्, अश्वरक्षायै शत्रुघ्नं प्रत्याज्ञाकरणम्, प्रयाणावसरे शत्रुघ्नं प्रति रामकृतशिक्षा कथनम्। श्लो० ७४ ।। ।

११. पुप्कलाख्यस्य भरतपुत्रस्य भरतभ्रातुः शत्रुघ्नस्य पार्ष्णिग्राहरूपेण प्रेषणाया ज्ञाकरणम्, शत्रुघ्नेन मातुराज्ञाग्रहणम्, जानकीभ्रात्रा लक्ष्मीनिधिना शत्रुघ्नमु द्दिश्य रामस्य विनोदकरणम्, शत्रुघ्नेन प्रयाणकालीनशुभशकुनदर्शनम्, प्रयाणावसरे पुष्कलस्य भार्यां प्रति शीलरक्षणोपदेशकरणम्। श्लो० ८३ ।।

१२. पुष्कलपत्न्या स्वपतिं विजयमात्रोत्सुकं वीक्ष्य तदभिनंदनम्, यज्ञियाश्वस्य परिजनैः सह नगरान्निःसृत्याहिच्छत्रापुरीं प्रत्यागमनम्, सुमंत्रेणाहिच्छ त्रापुरीवृत्तांत कामाक्षादेवीचरित्रवर्णनपूर्वकं सुमदराजचरित्रवर्णनम्, तत्र सुमदस्य तपःकुर्वतस्तपोभंगायेंद्रेण कामायाज्ञाकरणण रंभया सह कामस्य सुमदतपो वनं प्रत्यागमनम्, सुमदस्य ताः स्वर्युवतीर्दृष्ट्वा चिंताकरणम्। श्लो० ८६ ।। ।
 
१३. सुमदाप्सरः संभाषणम्, रंभाद्यप्सरसां कामस्य च सामर्थ्यक्षयः, सुमद स्य कामाक्षादेवीदर्शनम् सुमदकृतदेवीस्तुतिः कामाक्षादेव्या सुमदाय वरप्र दानम्, सुमदस्य शत्रुघ्नेन सह समागमः, अहिच्छत्रापुर्यां शत्रुघ्नस्य प्रवेशः, सुमदेन शत्रुघ्नाय सर्वस्वसमर्पणम्। श्लो० ६७ ।।

१४. सुमदस्य शत्रुघ्नेन सह संवादः, अश्वेन सह शत्रुघ्नस्य च्यवनाश्रमं प्रति ग- मनम्, च्यवनसुकन्यावृत्तान्तवर्णनम्, तत्र तपःकुर्वतश्च्यवनस्य सुकन्याख्यया मनुकन्यया शलाकाभिरक्षिच्छेदः, मनुना च्यवनाय सुकन्यादानम्। श्लो० ६५ ।। ।

१५. सुकन्यया स्वपतिशुश्रूषणम्, अश्विनीकुमाराभ्यां संतुष्टाभ्यां च्यवनस्य सु- रूपकरणम्, सुकन्यया सह च्यवनस्य विमानं निर्मायानेकविधभोगवर्णनम्। श्लो० ५४ ।।

१६. शर्यातियज्ञं प्रति गतयोः सुकन्याच्यवनयोः शर्यातिना सुकन्याभर्त्सनम्, सुकन्यापतिसुरूपत्ववृत्तांतकथनम्, शर्यातिकृतयज्ञेऽश्विनीकुमारयोश्च्यवनेन शक्र वज्रं स्तंभयित्वा यज्ञभागदानवर्णनम्, शत्रुघ्नाश्वस्य च्यवनाश्रमप्रतिगमनम्, तदाश्रमस्थमहर्षिगणकृतरामप्रशंसा, शत्रुघ्नेन हनूमद्द्वारा च्यवनं प्रत्ययोध्यायां प्रेषणम्, रामेण च्यवनस्य स्वागतकरणम्। श्लो० ५४ ।। ।

१७. शन्त्रुघ्नस्याश्वेन सह वाजीपुरं प्रति गमनम्, वाजीपुरनरेशेन विमलेन शत्रुघ्ना- य सर्वस्वसमर्पणम, नीलपर्वतं प्रति गमनम्, नीलपर्वतमाहात्म्यकथनम्, तत्प्रसंगेन च रत्नग्रीवराजवृत्तातवर्णनम्, तत्र रत्नग्रीवं प्रति केनचिद्ब्राह्मणेन नीलपर्व तमाहात्म्यकथनम। श्लो० ८२ ।। ।।

१८. नीलपर्वतवासाच्चतुर्भुजस्वरूपप्राप्तिवर्णनम्, तत्र भिल्लवृत्तांतः। श्लो० ३० ।।

१९. नीलगिरियात्राविधिवर्णनम्, रत्नग्रीवस्य नीलगिरिं प्रति गमनम्। श्लोकांकाः ६० ।।

२ ०. गंडकीशालग्राममाहात्म्यवर्णनम्, तत्र पुल्कसशबरवृत्तांतः। श्लो० ९३ ।।

२ १. रत्नग्रीवेण नीलगिरिं गत्वा तत्र पुरुषोत्तमस्तोत्रकरणम्, तस्य स्तोत्रकर णानंतरं केनचित्संन्यासिवेषिणागत्यागामिदिने भगवद्दर्शनकथनम्। श्लो० ४८ ।।

२२. तस्मिन्दिने स्वप्ने रत्नग्रीवेण भगवद्दर्शनम्, अपरेद्युर्मध्याह्ने साक्षाद्भगवद्दर्श- नम्, रत्नग्रीवेण भगवत्पूजापूर्वकं स्तुतिकरणम्, रत्नग्रीवाय भगवत्प्रसादाच्चतुर्भुजत्वप्रातिपूर्वकवैकुंठलोकप्राप्तिवर्णनम्, अश्वस्य नीलपर्वतसमीपे गमनम्, शत्रु- घ्नकृतभगवद्दर्शनम्। श्लो० ६३ ।।

२३. हयस्य सुबाहुराजपालितचक्रांकनगरं प्रत्यागमनम्, सुबाहुराजात्मजेन दमने- नाश्वबंधनम्, प्रतापाग्र्यदमनयोर्युद्धम्, दमनकृतप्रतापाग्र्यवधवर्णनम्। श्लो० ८८
 
२४. दमनपुष्कलयोर्युद्धम्, तत्र पुष्कलस्य जयवर्णनम्। श्लो० ६० ।।

२५. सुबाहोः सैन्येन सह युद्धभूमिं प्रत्यागमनम्, तत्सेनाध्यक्षेण निजसैन्यानां क्रौंचव्यूहविन्यासकरणम्। श्लो० ३५ ।।

२६. शत्रुघ्नं प्रति सुमतिनाम्ना मंत्रिणा सुबाहुराजस्य बलपराक्रमकथनम्, लक्ष्मीनिधिसुकेत्वोर्युद्धे सुकेतोर्वधवर्णनम्। श्लो० ६९ ।।

२७- चित्रांगपुष्कलयोर्युद्धे चित्रांगवधवर्णनम्। श्लो० ४८ ।।

२८- चित्रांगवधात्सुबाहुराज्ञः पुत्रशोकः, सुबाहुहनूमतोर्युद्धम्, मूर्च्छागतस्य सुबा- हुराजस्य स्वप्ने रामदर्शनम्, सुबाहुना पूर्ववृत्तांतस्मरणम् श्लो० ७५ ।।
२९. सुबाहुशत्रुघ्नसमागमः, सुबाहुना सह अग्रेऽश्वस्य नानादेशेषु प्रयाणम्. श्लोकांकाः ५३ ।।

३०- अश्वसमेतस्य शत्रुघ्नस्य तेजःपुरं प्रति गमनम्, तत्रत्यस्य ऋतंभरनृपस्य वृत्तां- तवर्णनम्, तस्यापत्यकामनया जाबालिंप्रति प्रश्नः, जाबालिना गोमाहात्म्यकथने जनकवृत्तांतवर्णनम्, जनकेन नरकस्थप्राणिमोचनम्। श्लो० ७७ ।।

३१. जनकस्य नरकमार्गगमनकारणवर्णनम्, गोपूजाविधिकथनम्, ऋतंभरर्तु पर्णसमागमः, ऋतुपर्णोपदेशादृतंभरस्य रामस्मरणेन सुरभ्यापुत्रवरप्रदानम्। श्लो० ५७ ।।

३२. सत्यवद्राजवृत्तांतवर्णनम्, शत्रुघ्नसत्यवतोः समागमवर्णनम्। श्लो० २६ ।।

३३- विद्युन्मालिराक्षसेनाश्वहरणम्, विद्युन्मालिनो वधाय शत्रुघ्नसैनिकैः प्रतिज्ञा- करणम्। श्लो० ६३ ।।

३४. विद्युन्मालिनोवधः। श्लो० ८१ ।।

३५- रेवातीरे आरण्यकाश्रमेऽश्वस्यागमनम्, आरण्यकेन स्वचरित्रवर्णनम्। श्लो- कांकाः ७१ ।।

३६. आरण्यकेन स्वस्मै लोमशमहर्षिप्रोक्तसमयसमेतरामचरित्रवर्णनम्। श्लो- कांकाः ९३ ।।

३७- आरण्यकस्यायोध्यामागत्य रामदर्शनं कृत्वा महानंदेन मस्तकस्फोटान्मु- क्तिवर्णनम्। श्लो० ६७ ।।

३८. नर्मदाह्रदेऽश्वस्य निमज्जनम्, नर्मदाह्रदे शत्रुघ्नपुष्कलहनूमतां प्रवेशानंतरं । योगिन्या शत्रुघ्नाय मोहनास्त्रदानम् जलमध्याद्वाहप्रातिवर्णनम्। श्लो० ६३ ।।

३९. अश्वस्य देवपुरं प्रतिगमनम्, वीरमणिराजपुत्रेण रुक्मांगदेन हयग्रहणम्, शिवेन सह वीरमणेर्मंत्रकरणम्। श्लो० ५७ ।।

४०. वीरमणिना सह युद्धाय शत्रुघ्नस्य निश्चय, वीरमणिवृत्तातः। श्लो० ५७ ।।

४१- रुक्मांगदस्य पुष्कलेन सह युद्धम्, तत्र पुष्कलस्य जयवर्णनम्, श्लो कांकाः ३३ ।।

४२- पुष्कलेन वीरमणिना सह तुमुलयुद्धकरणम्, वीरमणिपराभवः, पुष्कलस्य विजयश्च। श्लो० ७८ ।।

४३- वीरभद्रेण युद्धे पुष्कलस्य वधकरणम, वीरभद्रशत्रुघ्नयुद्धम् शत्रुघ्नस्य परा- भववर्णनम्। श्लो० ६२ ।। ।

४४- शिवेन सह हनूमतो युद्धम्, हनूमत्संग्रामसंतुष्टेन शिवेन युद्धभूमिरक्षणे कृते सति हनूमता द्रोणाचलानयनाय गमनम्, द्रोणाचलसंनिधौ देवैः सह हनूमतो युद्धम्। श्लो० ८० ।।

४५- द्रोणाचलाद्देवदत्तमृतसंजीवनीमानीय युद्धे मृतानां पुष्कलादीनां संजीवनम्, पुनर्युद्धे शंकरकृतशत्रुघ्नपराभवे शत्रुघ्नेन रामस्मरणम्, युद्धभूमौ रामस्या गमनम्। श्लो० ६० ।।

४६. शंकरेण सह श्रीरामस्य समागमः, वीरमणिप्रभृतीनामानंदवर्णनम्, वीरमणेः शत्रुघ्नेन सहाश्वरक्षणार्थं प्रयाणम्। श्लो० ३८ ।।

४७. हेमकूटपर्वतेऽश्वगमनम्, तत्र शिलायां वाहस्य गात्रस्तंभः, शत्रुघ्नपृष्टेन शौनकेनाश्वगात्रस्तंभकारणकथनम्। श्लो० ५५ ।।

४८- शत्रुघ्नाय शौनकेन नानाकर्मविपाकवर्णनम्, अश्वस्यमुक्तिवर्णनम्। श्लोकांकाः ७६ ।। ।

४९.. सुरथराजपालितकुंडलपुरेऽश्वस्य गमनम्, सुरथेनाश्वस्य ग्रहणम्, सुरथरा- जस्यराज्यरीतिवर्णनपूर्वकसुरथवृत्तांतवर्णनम्। श्लो० ६९ ।।

५०- शज्ञुघ्नेन सुरथं प्रति दौत्येनांगदप्रेषणम्, अंगदसुरथसंवाद_। श्लो० ५७ ।।

५१. चंपकाख्येन राजपुत्रेण सह पुष्कलस्य युद्धम्, चंपकेन पुष्कले बद्धे सति हनूमता युद्धे चंपकं पराजित्य पुष्कलस्य मोचनम्। श्लो० ७१ ।।

५२. सुरथहनूमतोः संवादपूर्वकं भयंकरं युद्धम्, रामास्त्रेण सुरथकृतहनूमद्बंधनम्, सुरथेन सह पुष्कलस्य युद्धम्, सुरथशत्रुघ्नयुद्धे शत्रुघ्नपराभववर्ण नम्। श्लो० ६९ ।।

५३. सुरथकृतसर्वरामयोधबंधनम्, बंधनान्मुक्तये हनूमत्कृतरामस्तोत्रम्, श्रीरामस्यागमनम्, सुरथरामसमागमानंतरं सर्वेषां मोचनम्, अश्वस्य वाल्मीक्या- श्रमंप्रतिगमनम्। श्लो० ३७ ।।

५४- वाल्मीक्याश्रमे लवेनाश्वबंधनम्, लवेन शत्रुघ्नसैनिकानामश्वरक्षणकराणां हस्त- च्छेदनम्। श्लो० ३७ ।।

५५. वात्स्यायनस्य सीतात्यागविविदिषयाप्रश्ने शेषेण तद्विषयकवृत्तवर्णनम् तत्र रामंप्रति सीतया दोहदकथनम्, प्रजाप्रेमजिज्ञासया नगरे रात्रौ चारगमनम्, चारैः पुरे जनमुखाद्यतस्ततोरामकीर्तिश्रवणम, रजकमुखादपकीर्तिश्रवणं च। श्लो०७९।।

५६. प्रातःकाले चारैः सभामागत्य रामाय रजकोक्तिकथनम्, रामस्यापकीर्तिश्रवण- जन्यमूर्छावर्णनम्, भरतेन सह संवादवर्णनम्। श्लो० ६४ ।।

५७- सीतायाभर्तृवियोगकारणकथनम्, रजकस्य पूर्वजन्मवृत्तांतः। श्लो० ६७ ।।

५८- भरतस्य सीतात्यागाज्ञाऽस्वीकारे शत्रुघ्नायाज्ञाकरणम्, तेनाप्यस्वीकारे लक्ष्मणाय सीतात्यागाज्ञाकरणम्, दोहदपूरणं मिषं कृत्वा सीताया वने गमनम्, सीताकृतगंगादर्शनम्। श्लो० ७८ ।।

५९- गंगामुत्तीर्य परपारतीरे सीताया लक्ष्मणेन सह संवादः, सीतायास्त्यागः, सीताकृतशोकः, वाल्मीक्याश्रमं प्रति सीताया गमनम्, तस्मिन्नाश्रमे सीतायाः कुशलवपुत्रोत्पत्तिवर्णनम्। श्लो० ८६ ।।

६०. कालजिन्नाम्नः शज्ञुघ्नसेनाध्यक्षस्य लवेन सह युद्धम्, युद्धे कालजितो मरणम्। श्लो० ६७ ।।

६१. लवस्य पुष्कलेन सह युद्धम्, हनूमता च सह युद्धे हनूमतो मूर्च्छयापतनम। श्लो० ६२ ।।

६२- शत्रुघ्नेन सह घोरयुद्धे लवस्य मूर्च्छावर्णनम्। श्लो० ४७ ।।

६३. लवस्यपतनात्सीतया शोककरणम्, कुशस्य महाकालपुरादाश्रमं प्रत्यागमनम्, शत्रुघ्नकुशयोर्युद्धम् शत्रुघ्नस्य मूर्छनाप्राप्तिवर्णनम्। श्लो० ७९ ।।

६४- कुशेन हनूमत्सुग्रीवौ विजित्य बद्ध्वा स्वाश्रमं प्रति नीत्वा सीतायै तौ प्रदर्श्य युद्धवृत्तांतनिवेदनम्, सीतया स्वकीयपातिव्रत्यप्रभावाद्रामसैन्यसंजी- वनम्, सीतानुज्ञया कुशलवाभ्यां शत्रुघ्नाग्रेऽश्वस्य त्यागकरणम्। श्लो० ८० ।।

६५- अश्वेन सह शत्रुघ्नादीनामयोध्यां प्रत्यागमनम्, सुमतिमन्त्रिणा रामाय जैत्रयात्रावृत्तांतकथनम्। श्लो० ८० ।।

६ ६. रामस्य वाल्मीकिमहर्षिणा सह संवादः, सीताया आनयनाय लक्ष्मण- प्रेषणम्, सीतालक्ष्मणसंवादः, कुशलवयोः सीताज्ञया लक्ष्मणेन सहायोध्यायामागमनम्, वाल्मीकिप्रेरणया कुशलवाभ्यां श्रीरामचरित्रगायनम्, रामेण तयोः स्वपुत्रौ ज्ञात्वांकारोपणम्, वाल्मीकिपूर्ववृत्तांतवर्णनम्, रामेण सीतायाः स्मरणम्। श्लो० १८२ ।।

६७. सीतामानेतुं पुनः प्रहितेन लक्ष्मणेन सह सीतायाः श्रीरामयज्ञमडपे आग- मनम,- रामसीतासमागमानंतरं सुवर्णसीतां परित्यज्य प्रत्यक्षसीतया सह यज्ञ- कर्मकरणम, यज्ञपरिसमाप्तिवर्णनम् तत्र यज्ञियाश्वस्य रामस्पर्शेनोद्धारे कर्पूरेण देवेभ्यो हविर्भागदानम्। श्लो० ८७ ।।

६८.. रामस्य यज्ञांतस्नानम्, रामाश्वमेधपठनश्रवणमाहात्म्यवर्णनम्। श्लो० ३८ ।।

६९. श्रीकृष्णचरित्रवर्णनम्, तत्र वृन्दावनादिषोडशदलात्मकश्रीकृष्णक्रीडा- किंजल्ककथनपूर्वक क्रीडास्थानवर्णनम्, श्रीकृष्णस्य सौंदर्यकथनम्, वृंदाव- नमाहात्म्यकथनम्। श्लो० ११८ ।।

७०- श्रीकृष्णपार्षदगणवर्णनम्, ऋषीणां गोपीत्वप्राप्तिकारणकथनम्, जन्मांतरीयपुण्यवर्णनं च, राधामाहात्म्यम्, राधाकृष्णपरिचरानेकगोपीवर्णनम्, गोपीग- णमध्यवर्तिश्रीकृप्णस्वरूपवर्णनम् श्लो० ६५ ।।

७ १. नारदस्य राधाकृष्णयोर्वृंदावने दर्शनपूर्वक माहात्म्यवर्णनम्। श्लो० १०३ ।।

७२. श्रीकृष्णस्य श्रेष्ठसुंदरीगणकथनम्। श्लो० १५४ ।।
७३. श्रीकृप्णस्वरूपवर्णनपुरःसरं मथुरामाहात्म्यवर्णनम्। श्लो० ५५ ।।

७४. अर्जुनस्य राधास्वरूपदर्शनपूर्वकस्त्रीत्वप्राप्त्या श्रीकृष्णसंगवर्णनम्, भगवन्म- हिमवर्णनं च। श्लो० २०४ ।।

७५. नारदस्य स्त्रीत्वप्राप्तिवर्णनम्। श्लो० ५५ ।।

७६- श्रीकृप्णस्य संक्षिप्त गद्यमयं मध्यतएवचरित्रम्। श्लो० ९ ।।

७७. श्रीकृष्णतीर्थवर्णनम्, श्रीकृष्णस्य स्वरूपवर्णनम्, गुणवर्णनं च। श्लो० ६५ ।।
 
७८. वैष्णवशुद्धिपूर्वंकं शालग्रामशिलालक्षणादिकथनम्। श्लो० ४६ ।।

७९. वैष्णवानां तिलकधारणाद्यनेकविधिवर्णनम्। श्लो० ६८ ।।

८०. कलियुगे हरिनाममाहात्म्यवर्णनम्, हरिपूजाविधिवर्णनम्। श्लो० ६९ ।।

८१. श्रीकृष्णमन्त्रार्थवर्णनम्। श्लो० ६६ ।।

८२. मंत्रदीक्षाविधिवर्णनम्। श्लो० ९१ ।।

८३- वृंदावने श्रीकृप्णस्य दैनंदिनीयलीलावर्णनम्, तत्र राधया सह विलासादिवर्णनम्, वृंदावनमाहात्म्यपरिसमाप्तिः। श्लो० ११७ ।।

८४- अथ वैशाखमाहात्म्यम्, तत्र नारदांबरीषसंवादः, वैष्णवधर्मकथनम्, विष्णुध्या- नप्रकारवर्णनं च। श्लो० १०९ ।।

८५- भक्तिलक्षणभेदवर्णन, सर्वमासेषु वैशाखस्यमहत्त्ववर्णनम्। श्लो० ७७ ।।

८६- वैशाखमासव्रतविधानकथनम्। श्लो० ४७ ।।

८७- वैशाखस्नानमाहात्म्ये देवशर्मब्राह्मणवृत्तांतवर्णनम्, तत्र सुमनया भार्ययाऽन- पत्यत्वतप्तस्यपत्युः सांत्वनार्थं संसारस्वरूपवर्णनम्, अनेकविधपुत्रवर्णनम्। श्लो० ८५ ८८. ऋणसंबंध्यादिपुत्रकथनपूर्वकं संसारनिःसारतावर्णनम्। श्लो० ३२ ।।

८९. पुत्रप्राप्तये सुमनया देवशर्माणंप्रति वसिष्ठसंनिधौ प्रेषणम्, देवशर्मणो वसिष्ठप्रतिगमनम्, वसिष्ठदेवशर्मसंवादे वसिष्ठेन देवशर्मणः पूर्वजन्मवृत्तांतवर्णनम्। श्लो० ६९ ।।

९०.. देवशर्मणो विप्रत्वप्राप्तिकारणवर्णनम् संतानप्राप्तये वैशाखमासव्रतानुष्ठानो- पदेशवर्णनम्, देवशर्मणः स्वगृहप्रत्यागमनम्। श्लो० ५८ ।।

९१. सुमनया सहदेवशर्मणः गंगावर्तिकनखलतीर्थे वैशाखनियमसेवनतो विष्णु- प्रीत्यासुतप्राप्तिः। श्लो० १४ ।।

९२- वैशाखसेवनफलम्, अत्र विषये दिवोदासराजपुत्र्या दिव्यादेव्याः कथानकव र्णनम, तत्र तस्या दिव्यादेव्या विविधवरमरणानुतप्तेन दिवोदासेन जातूकर्ण्यं प्रति तत्पतिमरणकारणजिज्ञासया प्रश्ने कृते सति जातूकर्ण्येन तस्याः प्राक्तनजन्मचरित्र- वर्णनम् पूर्वजन्मनि दुश्चरित्रायास्तस्याः कस्यचित्सिद्धस्य सेवापुण्येन राजपुत्री- त्वप्राप्तिवर्णनम्। श्लो० १२३ ।।

९३.११६ वैशाखमासे रेवास्नानोपदेशवर्णनम्। श्लो० १५ ।।

९४.११६ पापप्रशमनस्तोत्रमाहात्म्यवर्णने मुनिशर्मणोब्राह्मणस्य प्रेतपंचकस्य च कथानिरूपणम्, पापप्रणाशनस्तोत्रकथनं च। श्लो० १५९ ।।

९५—वैशाखमासीयसंक्षिप्तविधिवर्णनम्, अंबरीषस्य पूर्वजन्मवृत्तांतवर्णनम्। श्लो० १५० ।।

?? ९६- वैशाखे माधवार्चनमाहात्म्यम्, यमब्राह्मणसंवादे यमेन नारकिणां पापवर्णनम्, स्वर्गिणां पुण्यवर्णनं च। श्लो० १४२ ।।

९७. विविधव्रतनियमस्नानदानादिवर्णनम्। श्लो० १०७ ।।

९८. वैशाखमासे विष्णुपूजाविधानवर्णनम्, तत्र धनशर्मब्राह्मणस्य प्रेतोद्धारकथान- कवर्णनम्, वैशाखस्याधिक्यवर्णनम्। श्लो० १२८ ।।

९९ महीरथराजवृत्तांतवर्णनम्, तत्र महीधरकश्यपसंवादे कश्यपेन शरीरानित्यतादि सविस्तरशरीरस्वरूपवर्णनम्। श्लो० ९३ ।।

१००. कश्यपेन महीधरस्य वैशाखे स्नापनम्, स्तोत्रश्रावणं च, महीधरस्य नि- यमाचरणपुरःसरं मृत्युवर्णनम्। श्लो० ३१ ।।

१०१- महीधरदेवदूतसंवादे यमलोकस्थानेकविधपापिपापविपाकनिरूपणम्। श्लो० ५७ १०२- महीधरप्रदत्तेन वैशाखमासायैकदिवसनियमानुष्ठानपुण्येन नारकिसमुद्धारवर्णनम्, महीधरस्य परमपदावाप्तिः। श्लो० ३२ ।।

१०३. विष्णुमूर्तिध्यानवर्णनपुरःसरं वैशाखमाहात्म्यसमाप्तिवर्णनम्। श्लो० ५७ ।।
१०४. अश्वमेधक्रतोरनंतरं शंभुब्राह्मणरूपेण शंकरस्यायोध्यां प्रत्यागमनम्, रामेण विभीषणबंधवार्ताश्रवणम्, पौराणिकलक्षणवर्णनम्, शकुनयोग्यपुराण कथनम्, पुराणश्रवणविधिकथनम, पुराणमध्याच्छकुनेन विभीषणबंधनकारणज्ञानम्, रामेण विमानमारुह्य श्रोरंगे गत्वा विभीषणस्य मोचनम्, विप्रावज्ञापापजनित - दुःखवर्णनम्। श्लो० १७० ।।

१०५. शंभुब्राह्मणमुखनिर्गतज्वालया कस्यांचिद्ब्राह्मण्यामुपद्रुतायां तन्मोचनमिषेण रामस्य लोकालोकात्परतो नारायणपुरं गत्वा तत्र नारायणेन सह संवादः, रामस्य लक्ष्म्या सह संवादः, रामस्य गौतमीतटवर्तिभरद्वाजाश्रमं प्रत्यागमनम्, तत्र श्राद्धदिने संप्राते श्राद्धकर्तृभोक्तृनियम श्राद्धकालनिर्णयवर्णनम्, शिवलिंगस्थापनपूजनविधिवर्णनम, शिवलिंगमाहात्म्यकथनम्, भस्ममाहात्म्यवर्णनम्, तत्र धनंजयब्राह्मणपुत्रस्य करुणस्य तत्पत्न्याः शुचिस्मितायाश्च वृत्तांत- वर्णनम्, भस्मस्नानमाहात्म्यवर्णनम्। श्लो० २३२ ।।

१०६. भस्ममाहात्म्यवर्णने कस्यचिच्छुनो मुक्तिः, शुनः पूर्वजन्मवृत्तांतवर्णनम्, पत्या सह गमनकर्तृस्त्रियाः माहात्म्यवर्णनम्, तत्राव्ययाचरित्रम्। श्लो० ११२ ।।

१०७. भस्ममाहात्म्यवर्णने कश्यपाद्यृषिवृत्तांतः, तत्र वीरभद्रचेष्टितम्। श्लो० ९५।।

१०८. भस्मनिर्माणविधानम्, भस्मग्रहणधारणपुण्यनिरूपणम्। श्लो० ७९ ।।

१०९. शिवलिङ्गार्चनमाहात्म्यवर्णनम्, तत्रेक्ष्वाकुब्राह्मणचरित्रवर्णनम्, शिवलिंगा- र्चननियमाः। श्लो० ११२ ।।

११०. अग्निमुखाभिधशिवगणवृत्तांतवर्णनम्, तत्राग्निमुखवीरभद्रसंवादे कारांकिक- राज्ञः कस्याश्चिद्वेश्यायाश्च वृत्तांतवर्णनम्। श्लो० ९८ ।।

१११ शिवनाममाहात्म्यवर्णनम्, तत्र विधृताभिधनृपचरित्रवर्णनम्। श्लो० ५४ ।।

११२. शिवनाममाहात्म्यवर्णने देवरातसुतायाः कलाया वृत्तांतवर्णनम् गौरीकृत- सोमवारव्रतवर्णनम्, तत्र शिवचेष्टितम्। श्लो० १४७ ।।

११३. पुराणश्रवणमाहात्म्यम, पौराणिकपूजाविधानवर्णनम् तत्र दिलीपवृत्तांतः। श्लो० ५६ ।।

११४. रामेण विमानस्थविप्रवृत्तांतजिज्ञासया प्रश्ने कृते सति गौतमगृहवृत्तांतव- र्णनम्, तत्र गौतमगृहे बाणादीनामागमनम्, ब्रह्मविष्णुशिवादीनां चागमनम्, विष्णुशिवकृतजलक्रीडा, गौतमगृहे सर्वदेवकृतभोजनम्, हनूमत्कृतशिवलिंगपूजाविधिः, चतुर्युगधर्माः, कलियुगे दानप्रशंसा, हरिकीर्तनपुराणश्रवणमाहात्म्यकथनम्, पुराणपठनश्रवणाधिकारिवर्णनम्, गौतमब्राह्मणवृत्तांतः। श्लो० ४९४ ।।

११५. पठनकर्तॄणां लक्षणानि, पुराणश्रवणपुराणवाचनविधिः, पुराणसंख्यापूर्वकम- हापुराणोपपुराणपरिगणनम् श्लो० ९७ ।।

११६. जांबवदुक्तपुराकल्पीयरामायणकथावणर्नम्। श्लो० ३०५ ।।

११७. भरद्वाजाश्रमात्सुदेवगृहं गत्वा तत्र सभायां स्थित्वा गौतमगृहचरित्रजिज्ञासया रामेणप्रश्ने कृते सति शंभुब्राह्मणेन रामं प्रति गौतमगृहवृत्तांतकथनम्, तत्र न्यायार्जितधनेन देवपूजादिमाहात्म्यवर्णनम्, अत्र विषये मंकणकपुत्रस्याकथस्य वृत्तांतवर्णनम्, रामकृतकौसल्यामासिकश्राद्धविधिः, श्राद्धकाले कस्यचि- दभ्यागतस्यागमनम्, तेनातिथिना रामसीतयोः सत्वपरीक्षणम् अन्यायार्जितद्रव्येण देवपूजाकर्तुः किल्विषप्राप्तिः, अत्रार्थे रूपकराक्षसस्य वृत्तांतवर्णनम्, उपहतद्रव्येण पूजानिषेधः, तत्र चेकितानिब्राह्मणवृत्तांतः, उपहतघंटाकारण- वर्णनम् तत्र मन्दस्य वृत्तांतवर्णनम्, पातालखंडश्रवणफलवर्णनम्, पुराणवाचकपूजाकथनम्। श्लो० २४२ ।।

इति पाद्मे पुराण पातालखंडस्थ विषयानुक्रमणिका संपूर्णा ।