पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१५

← अध्यायः ०१४ पद्मपुराणम्
अध्यायः ०१५
वेदव्यासः
अध्यायः ०१६ →

नारदउवाच-
नारायणस्तदा देवो जटावल्कलधार्यथ ।
द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् १।
तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा ।
तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ २।
भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ ।
वने घोरे प्रविष्टासि कथं दुष्टनिषेविते ३।
एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः ।
मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम् ४।
रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः ।
सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः ५।
भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः ।
अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम् ६।
करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने ।
तस्मादिमां विमुंचाशु सुखप्रासाददेवताम् ७।
इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् ।
समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात् ८।
इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः ।
पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः ९।
अथोवाच प्रमुग्धा सा मायया जगदीशितुः ।
कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता १०।
शारीरं मानसं दुःखं सतापं तपसां निधे ।
त्वया मधुरया वाचा हृतं राक्षसनाशनात् ११।
तवाश्रमे तपः सौम्य करिष्यामि तपोधन १२।
तापस उवाच-
भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः ।
विहाय भोगानखिलान्वनं घोरमुपागतः १३।
अनेन बटुनासार्धं मम शिष्येण कामगाः ।
बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः १४।
त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे ।
एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः १५।
इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः ।
वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप १६।
वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ ।
स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी १७।
अत्रांतरे दुराचारः कोपि पापाकृतिर्वने ।
जालं प्रसारयामास तद्यदा जीवपूरितम् १८।
ततः संकोचयामास तज्जालं पापनायकः ।
जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह १९।
स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम् ।
देवि मामत्तुमायाति करे गृह्णातु मां सखी २०।
वृंदा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत् ।
वीक्ष्यतं भयवातेन निर्धूता सिंधुजप्रिया २१।
दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने ।
विद्रवंती समं सख्या तापसाश्रममागता २२।
सा तापसवने तस्मिन्ददर्शात्यंतमद्भुतम् ।
पक्षिणः कांचनीयांगान्नानाशब्दसमाकुलान् २३।
सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम् ।
क्षीरं वहंति सरितः स्रवंति मधु भूरुहः २४।
शर्कराराशयस्तत्र मोदकानां च संचयाः ।
भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च २५।
बहुशस्त्राणि दिव्यानि नभसः संपतंति च ।
क्रीडंति हरयस्तृप्ता उत्पतंति पतंति च २६।
मठेति सुंदरं वृंदा तं ददर्श तपस्विनम् ।
व्याघ्रचर्मासनगतं भासयंतं जगत्त्रयम् २७।
तमुवाच विभो पाहि पाहि पापर्द्धिकादथ ।
तपसा किं च धर्मेण मौनेन च जपेन च २८।
भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन ।
एवमुक्तवती भीता सालसांगी तपस्विनम् २९।
तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबंधकः ।
वृंदादेवी भयत्रस्ता हरिकंठे समाश्लिषत् ३०।
सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिंगिता ।
तवालिंगनभावेन पुनरेव भविष्यति ३१।
शिरः सर्वांगसंपन्नं त्वद्भर्तुरधिकं गुणैः ।
अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम् ३२।
सा चित्रशालामित्युक्ता विवेश मुनिना तदा ।
दिव्यपर्यंकमारूढा गृह्य कांतस्य तच्छिरः ३३।
चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा ।
यावत्तावदभूद्राजन्रूपं जालंधराकृति ३४।
तत्कांतसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः ।
तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः ३५।
अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा ।
तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे ३६।
वृंदावचनमाकर्ण्य प्राह मायासमुद्रजः ।
शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह ३७।
प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः ।
तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना ३८।
छिन्नं तदत्र चानीतं जीवितं तेंगसंगतः ।
प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता ३९।
क्षंतव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः ।
इत्यादि वचनैस्तेन वृंदा संस्मारिता तदा ४०।
तांबूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः ।
अथ वृंदारिका देवी सर्वभोगसमन्विता ४१।
प्रियं गाढं समालिंग्य चुचुंब रतिलोलुपा ।
मोक्षादप्यधिकं सौख्यं वृंदा मोहनसंभवम् ४२।
मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् ।
वृंदां वियोगजं दुःखं विनोदयति माधवे ४३।
तत्क्रीडाचारुविलसद्वापिका राजहंसके ।
तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः ४४।
अभूद्वृंदावने तस्मिंस्तुलसीरूप धारिणी ।
वृंदांगस्वेदतो भूम्यां प्रादुर्भूताति पावनी ४५।
वृंदांग संगजं चेदमनुभूय सुंखं हरिः ।
दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः ४६।
एकदा सुरतस्यांते सा स्वकंठे तपस्विनम् ।
वृंदा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम् ४७।
तं दृष्ट्वा प्राह सा कंठाद्विमुच्य भुजबंधनम् ।
कथं तापसरूपेण त्वं मां मोहितुमागतः ४८।
निशम्य वचनं तस्याः सांत्वयन्प्राह तां हरिः ।
शृणु वृंदारिके त्वं मां विद्धि लक्ष्मीमनोहरम् ४९।
तव भर्ता हरं जेतुं गौरीमानयितुं गतः ।
अहं शिवः शिवश्चाहं पृथक्त्वे न व्यवस्थितौ 6.15.५०।
जालंधरो हतः संख्ये भज मामधुनानघे ।
नारद उवाच-
इति विष्णोर्वचः श्रुत्वा विषण्णवदनाभवत् ।
ततो वृंदारिका राजन्कुपिता प्रत्युवाच ह ५१।
रणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा ।
विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधूः ५२।
पतिर्धर्मस्य यो नित्यं परदाररतः कथम् ।
ईश्वरोऽपि कृतं भुंक्ते कर्मेत्याहुर्मनीषिणः ५३।
अहं मोहं यथानीता त्वया माया तपस्विना ।
तथा तव वधूं माया तपस्वीकोऽपि नेष्यति ५४।
इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणात् ।
सा चित्रशालापर्यंकः स च तेऽथप्लवंगमाः ५५।
नष्टं सर्वं हरौ याते वनं शून्यं विलोक्य सा ।
वृंदा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतम् ५६।
त्यक्तं पुरं गतं राज्यं कांतः संदेहतां गतः ।
अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता ५७।
मनोरथानां विषयमभून्मे प्रियदर्शनम् ।
प्राह निःश्वस्य चैवोष्णं राज्ञी वृंदातिदुःखिता ५८।
मम प्राप्तं हि मरणं त्वया हि स्मरदूतिके ।
इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी ५९।
तस्यास्तथोक्तमाकर्ण्य इतिकर्त्तव्यतां ततः ।
वने निश्चित्य सा वृंदा गत्वा तत्र महत्सरः ६०।
विहाय दुःखमकरोद्गात्रक्षालनमंबुना ।
तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः ६१।
शोषयामास देहं स्वं विष्णुसंगेन दूषितम् ।
तपश्चचारसात्युग्रं निराहारा सखीसमम् ६२।
गंधर्वलोकतो वृंदामथागत्याप्सरोगणः ।
प्राह याहीति कल्याणि स्वर्गं मा त्यज विग्रहम् ६३।
गांधर्वं शस्त्रमेतत्त्रिभुवनविजयं श्रीपतिस्तोषमग्र्यं।
नीतो येनेह वृंदे त्यजसि कथमिदं तद्वपुः प्राप्तकामम् ।
कांतं ते विद्धि शूलिप्रवरशरहतं पुण्यलाभस्य भूषास्वर्गस्य त्वं।
भवाद्य द्रुतममरवनं चंडिभद्रे भज त्वम् ६४।
श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य ।
स्वर्गादाहृत्य मुक्तात्रिदशपति वधूश्चातिवीरेण पत्या ।
आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्तानिर्दुष्टा तद्य।
तिष्ये प्रियममृतगतं प्राप्नुयां येन चैव ६५।
इत्युक्त्वा ससखी वृंदा विससर्जाप्सरोगणान् ।
तत्प्रीतिपाशबद्धास्ता नित्यमायांति यांति च ६६।
योगाभ्यासेन वृंदाथ दग्ध्वा ज्ञानाग्निना गुणान् ।
विषयेभ्यः समाहृत्य मनः प्राप ततः परम् ६७।
दृष्ट्वा वृंदारिकां तत्र महांतश्चाप्सरोगणाः ।
तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः ६८।
शुष्ककाष्ठचयं कृत्वा तत्र वृंदाकलेवरम् ।
निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम् ६९।
दग्धं वृंदांगरजसां बिंबं तद्गोलकात्मकम् ।
कृत्वा तद्भस्मनः शेषं मंदाकिन्यां विचिक्षिपुः ७०।
यत्र वृंदा परित्यज्य देहं ब्रह्मपथं गता ।
आसीद्वृंदावनं तत्र गोवर्द्धनसमीपतः ७१।
देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे ।
शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः ।
परिजननिवहोवापशोभां शुभस्य ७२।
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशतसहस्रसंहितायां जालंधरोपाख्याने वृंदाया ब्रह्मपदप्राप्तिर्नाम पंचदशोऽध्यायः १५।