पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२१

← अध्यायः ०२० पद्मपुराणम्
अध्यायः ०२१
वेदव्यासः
अध्यायः ०२२ →

नारद उवाच-
सगरस्यात्मजा वीराः कथं जाता महाबलाः ।
विक्रांताः षष्टिसाहस्रा विज्ञानेश्वर तद्वद १।
श्रीपार्वतीपतिरुवाच-
द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे ।
और्वस्ताभ्यां वरं प्रादात्तोषितो मुनिसत्तमः २।
षष्टिंपुत्रसहस्राणि एका वव्रे तरस्विनाम् ।
एका वंशधरं त्वेकं यथेष्टं वरशालिनी ३।
तत्रैका सुषुवे तुंब्यां पुत्रान्शूरान्बहूनथ ।
ते तु सर्वेऽपि धात्रीभिर्वर्द्धितास्तु यथाक्रमम् ४।
कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम् ५।
तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः ।
एकः पंचजनो नाम पुत्रो राजा बभूव ह ६।
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ७।
यस्तु गंगासरिच्छ्रेष्ठामानयामास सुव्रतः ।
समुद्र मानयित्वैनां दुहितृत्वमकल्पयत् ८।
नारद उवाच-
कथं गंगा समानीता किं तपस्तेन वै कृतम् ।
तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे ९।
महादेव उवाच-
पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ ।
तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा १०।
आदिदेवः प्रसन्नोऽभूद्योऽसौ देवो निरंजनः ।
तेन दत्ता इयं गंगा आकाशात्समुपस्थिता ११।
तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः ।
गंगां दृष्ट्वाऽगतां तेन गृहीता जाह्नवी तदा १२।
जटाजूटे च संधार्य वर्षाणामयुतं स्थितम् ।
न निःसृता तदा गंगा ईशस्यैव प्रभावतः १३।
विचारितं तदा तेन क्व गता मम मातृका ।
स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु १४।
ततः कैलासमगमत्स तु भगीरथो नृपः ।
तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः १५।
आराधितस्तदा तेन दत्तवानहमापगाम् ।
एकं केशं परित्यज्य दत्ता त्रिपथगा तदा १६।
स गृहीत्वा गतो गंगां पाताले यत्र पूर्वजाः ।
अलकनंदा तदा नाम गंगायाः प्रथमं स्मृतम् १७।
हरिद्वारे यदायाता विष्णुपादोदकी तदा ।
तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम् १८।
तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः ।
प्रदक्षिणं ये कुर्वंति न चैते दुःखभागिनः १९।
ब्रह्महत्यादि पापानां राशयः संत्यनेकशः ।
विलयं यांति ते सर्वे हरेर्दर्शनतः सदा २०।
एकदा केशवस्थाने हरिद्वारे ह्यहं गतः ।
तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान् २१।
ये गच्छंति नरश्रेष्ठास्ते वै यांति ह्यनामयम् ।
चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः २२।
वैकुंठं यांति ते सर्वे हरेर्दर्शनमात्रतः ।
ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम् २३।
तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम् ।
कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा २४।
यत्र गंगा महारम्या नित्यं वहति निर्मला ।
एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम् २५।
उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम् ।
अश्वमेधे कृते यागे गोसहस्रे तथैव च २६।
तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः ।
गोहंता ब्रह्महा चैव ये चान्ये पितृघातकाः २७।
एवंविधानि पापानि बहून्यपि च वै द्विज ।
विलयं यांति सर्वाणि हरेर्दर्शनमात्रतः २८।
इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापति नारद संवादेहरिद्वार माहात्म्ये गंगोत्पत्तिपूर्वकं हरिद्वारमाहात्म्यं नाम एकविंशोऽध्यायः २१।